Logoपवित्र ग्रंथ

Sri Surya Shodasopachara Puja – श्री सूर्यनारायण षोडशोपचार पूजा

Sri Surya Shodasopachara Puja – श्री सूर्यनारायण षोडशोपचार पूजा

श्री सूर्यनारायण षोडशोपचार पूजा

Sri Surya Shodasopachara Puja

श्री सूर्यनारायण षोडशोपचार पूजा
यह पूजा भगवान सूर्य (आदित्य) को समर्पित है, जो प्रत्यक्ष देवता हैं। वेदों में सूर्य को 'जगत् की आत्मा' (सूर्य आत्मा जगतस्तस्थुषश्च) कहा गया है। यह पूजा पुरुष सूक्त विधान और वैदिक मंत्रों के साथ 16 उपचारों (Shodashopachara) द्वारा संपन्न की जाती है।

विशेष: रविवार, रथ सप्तमी, मकर संक्रांति और छठ पूजा के अवसरों पर यह पूजा विशेष फलदायी है। इससे आरोग्य, तेज, बुद्धि और यश की प्राप्ति होती है।

॥ श्री सूर्यनारायण षोडशोपचार पूजा ॥ पुनः सङ्कल्पम् पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभ तिथौ, मम शरीरे वर्तमान वर्तिष्यमान वात पित्त कफोद्भव नाना कारण जनित ज्वर क्षय पाण्डु कुष्ठ शूलाऽतिसार धातुक्षय व्रण मेह भगन्दरादि समस्त रोग निवारणार्थं, भूत ब्रह्म हत्यादि समस्त पाप निवृत्त्यर्थं, क्षिप्रमेव शरीरारोग्य सिद्ध्यर्थं, हरिहरब्रह्मात्मकस्य, मित्रादि द्वादशनामाधिपस्य, अरुणादि द्वादश मासाधिपस्य, द्वादशावरण सहितस्य, त्रयीमूर्तेर्भगवतः श्री उषापद्मिनीछाया समेत श्री सूर्यनारायण स्वामि परब्रह्मणः प्रसाद सिद्ध्यर्थं, श्री सूर्यनारायण स्वामि देवतां उद्दिश्य, सम्भवद्भिः द्रव्यैः, सम्भवित नियमेन, सम्भवित प्रकारेण पुरुषसूक्त विधानेन यावच्छक्ति ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥ अस्मिन् बिम्बे सपरिवार समेत पद्मिनी उषा छाया समेत श्री सवितृ सूर्यनारायण स्वामिनं आवाहयामि स्थापयामि पूजयामि ॥ प्राणप्रतिष्ठा ओं असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्त मनुमते मृडया नः स्वस्ति । अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ॥ आवाहितो भव स्थापितो भव । सुप्रसन्नो भव वरदो भव । ध्यानम् ध्येयःसदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजासन सन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥ १ ॥ अरुणोऽरुणपङ्कजे निषण्णः कमलेऽभीतिवरौ करैर्दधानः । स्वरुचाहित मण्डलस्त्रिनेत्रो रविराकल्प शताकुलोऽवतान्नः ॥ २ ॥ पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात् सदा रविः ॥ ३ ॥ ओं श्री सूर्यनारायणाय नमः । ध्यायामि । १. आवाहनम् सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । आगच्छ भगवन् सूर्य मण्डपे च स्थिरो भव । यावत्पूजा समाप्येत तावत्त्वं सन्निधौ भव ॥ ओं श्री सूर्यनारायणाय नमः । आवाहयामि । २. आसनम् पुरुष एवेदं सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति ॥ हेमासन महद्दिव्यं नानारत्नविभूषितम् । दत्तं मे गृह्यतां देव दिवाकर नमोऽस्तु ते ॥ ओं श्री सूर्यनारायणाय नमः । नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि । ३. पाद्यम् एतावानस्य महिमा । अतो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि ॥ गङ्गाजल समानीतं परमं पावनं महत् । पाद्यं गृहाण देवेश धामरूप नमोऽस्तु ते ॥ ओं श्री सूर्यनारायणाय नमः । पादयोः पाद्यं समर्पयामि । ४. अर्घ्यम् त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुनः । ततो विष्वङ्व्यक्रामत् । साशनानशने अभि ॥ भो सूर्य महाद्भुत ब्रह्मविष्णुस्वरूपदृक् । अर्घ्यं अञ्जलिना दत्तं गृहाण परमेश्वर ॥ ओं श्री सूर्यनारायणाय नमः । हस्तयोः अर्घ्यं समर्पयामि । ५. आचमनीयम् तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः ॥ गङ्गादितीर्थजं तोयं जातीपुष्पैश्च वासितम् । ताम्रपात्रे स्थितं दिव्यं गृहाणाचमनीयकम् ॥ ओं श्री सूर्यनारायणाय नमः । मुखे आचमनीयं समर्पयामि । ६. पञ्चामृत स्नानम् क्षीरं दधि घृतं चैव मधुशर्करयान्वितम् । पञ्चामृतं गृहाणेदं जगन्नाथ नमोऽस्तु ते ॥ गोक्षीरेण समर्पयामि दधिना क्षौद्रेण गो सर्पिषा स्नानं शर्करया तवाह मधुना श्री नारिकेलोदकैः । स्वच्छैश्चेक्षुरसैश्च कल्पितमिदं तत्त्वं गृहाणार्क भो अज्ञानान्ध तमिस्रहन् हृदि भजे श्री सूर्यनारायणम् ॥ ओं श्री सूर्यनारायणाय नमः । पञ्चामृत स्नानं समर्पयामि । ७. शुद्धोदक स्नानम् यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः ॥ गङ्गा गोदावरी चैव यमुना च सरस्वती । नर्मदा सिन्धुः कावेरी ताभ्यं स्नानार्थमाहृतम् ॥ ओं श्री सूर्यनारायणाय नमः । शुद्धोदक स्नानं समर्पयामि । स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि । ८. वस्त्रम् सप्तास्यासन्परिधयः । त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् ॥ रक्तपट्टयुगं देव सूक्ष्मतन्तुविनिर्मितम् । शुद्धं चैव मया दत्तं गृहाण कमलाकर ॥ ओं श्री सूर्यनारायणाय नमः । वस्त्रयुग्मं समर्पयामि । ९. यज्ञोपवीतम् तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः । तेन देवा अयजन्त । साध्या ऋषयश्च ये ॥ नमः कमलहस्ताय विश्वरूपाय ते नमः । उपवीतं मया दत्तं तद्गृहाण दिवाकर ॥ ओं श्री सूर्यनारायणाय नमः । यज्ञोपवीतं समर्पयामि । १०. गन्धम् तस्माद्यज्ञात्सर्वहुतः । सम्भृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये ॥ कुङ्कुमागुरुकस्तूरी सुगन्धोश्चन्दनादिभिः । रक्तचन्दनसम्युक्तं गन्धं गृह्णीष्व भास्कर ॥ ओं श्री सूर्यनारायणाय नमः । दिव्य श्री चन्दनं समर्पयामि । ११. अक्षतान् तस्माद्यज्ञात्सर्वहुतः । ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत ॥ रक्तचन्दनसंमिश्राः अक्षताश्च सुशोभनाः । मया दत्तं गृहाण त्वं वरदो भव भास्कर ॥ ओं श्री सूर्यनारायणाय नमः । अक्षतान् समर्पयामि । १२. पुष्पाणि तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः ॥ जपाकदम्बकुसुमरक्तोत्पलयुतानि च । पुष्पाणि गृह्यतां देव सर्वकामप्रदो भवः ॥ ओं श्री सूर्यनारायणाय नमः । नानाविध परिमल पुष्पाणि समर्पयामि । अथ अङ्गपूजा ओं मित्राय नमः – पादौ पूजयामि । ओं रवये नमः – जङ्घे पूजयामि । ओं सूर्याय नमः – जानुनी पूजयामि । ओं खगाय नमः – ऊरू पूजयामि । ओं हिरण्यगर्भाय नमः – कटिं पूजयामि । ओं पूष्णे नमः – गुह्यं पूजयामि । ओं मरीचये नमः – नाभिं पूजयामि । ओं आदित्याय नमः – जठरं पूजयामि । ओं सवित्रे नमः – हृदयं पूजयामि । ओं अर्काय नमः – स्तनौ पूजयामि । ओं भास्कराय नमः – कण्ठं पूजयामि । ओं अर्यम्णे नमः – स्कन्धौ पूजयामि । ओं हंसाय नमः – हस्तौ पूजयामि । ओं अहस्कराय नमः – मुखौ पूजयामि । ओं ब्रध्ने नमः – नासिकां पूजयामि । ओं जगदेकचक्षुषे नमः – नेत्राणि पूजयामि । ओं भानवे नमः – कर्णौ पूजयामि । ओं त्रिगुणात्मधारिणे नमः – ललाटं पूजयामि । ओं विरिञ्चिनारायणाय नमः – शिरः पूजयामि । ओं तिमिरनाशिने नमः – सर्वाण्यङ्गानि पूजयामि । ओं श्रीसूर्यनारायणाय नमः । अङ्गपूजां समर्पयामि । द्वादश नामपूजा ओं आदित्याय नमः । ओं दिवाकराय नमः । ओं भास्कराय नमः । ओं प्रभाकराय नमः । ओं सहस्रांशवे नमः । ओं त्रिलोचनाय नमः । ओं हरिदश्वाय नमः । ओं विभावसवे नमः । ओं दिनकराय नमः । ओं द्वादशात्मकाय नमः । ओं त्रिमूर्तये नमः । ओं सूर्याय नमः ॥ अष्टोत्तरशतनाम पूजा श्री सूर्य अष्टोत्तरशतनामावली द्वारा अर्चना करें। ओं श्री सूर्यनारायणाय नमः । पुष्पाणि समर्पयामि । १३. धूपम् यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते ॥ दशाङ्गोगुग्गुलोद्भूतः कालागरुसमन्वितः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ओं श्री सूर्यनारायणाय नमः । धूपं आघ्रापयामि । १४. दीपम् ब्राध्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्यां शूद्रो अजायत ॥ कार्पासवर्तिकायुक्तं गोघृतेन समन्वितम् । दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ॥ ओं श्री सूर्यनारायणाय नमः । दीपं दर्शयामि । १५. नैवेद्यम् चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ॥ पायसं घृतसम्युक्तं नाना पक्वान्नसम्युतम् । नैवेद्यं च मया दत्तं शान्तिं कुरु जगत्पते ॥ ओं श्री सूर्यनारायणाय नमः । नैवेद्यं समर्पयामि । (प्राणहुति मंत्र बोलें) ओं भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अमृतोपस्तरणमसि । ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा । ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा । ओं समानाय स्वाहा । मध्ये मध्ये पानीयं समर्पयामि । अमृतापिधानमसि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । ऋतुफलम् इदं फलं मया दत्तं मृदुलं मधुरं शुचिम् । देवार्हं स्वीकुरु स्वामिन् सम्पूर्णफलदो भव ॥ ओं श्री सूर्यनारायणाय नमः । ऋतुफलं समर्पयामि । ताम्बूलम् नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकां अकल्पयन् ॥ एलालवङ्गकर्पूरखदिरैश्च सपूगकैः । नागवल्लीदलैर्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ओं श्री सूर्यनारायणाय नमः । ताम्बूलं समर्पयामि । १६. नीराजनम् वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते ॥ पञ्चवर्तिसमायुक्तं सर्वमङ्गलदायकम् । नीराजनं गृहाणेदं सर्वसौख्यकरो भवः ॥ ओं श्री सूर्यनारायणाय नमः । कर्पूर नीराजनं समर्पयामि । नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि । मन्त्रपुष्पम् धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥ ओं भास्कराय विद्महे महद्द्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् ॥ चम्पकैः शतपत्रैश्च कल्हारैः करवीरकैः । पाटलैर्बकुलैर्युक्तं गृहाण कुसुमाञ्जलिम् ॥ ओं श्री सूर्यनारायणाय नमः । सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि । प्रदक्षिण नमस्कारम् यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे ॥ पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव । त्राहि मां कृपया देव शरणागतवत्सला ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥ ओं श्री सूर्यनारायणाय नमः । प्रदक्षिण नमस्कारान् समर्पयामि । साष्टाङ्ग नमस्कारम् उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः । हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु ॥ ओं श्री सूर्यनारायणाय नमः । साष्टाङ्ग नमस्कारान् समर्पयामि । द्वादशार्घ्याणि दिवाकर नमस्तुभ्यं पापं नाशय भास्कर । त्रयीमयाय विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते ॥ सिन्दूरवर्णाय सुमण्डलाय, नमोऽस्तु वज्राभरणाय तुभ्यम् । पद्माभनेत्राय सुपङ्कजाय, ब्रह्मेन्द्रनारायणकारणाय ॥ सरक्तवर्णं ससुवर्णतोयं, सकुङ्कुमाद्यं सकुशं सपुष्पम् । प्रदत्तमादाय सहेमपात्रं, प्रशस्तमर्घ्यं भगवन् प्रसीद ॥ ओं मित्राय नमः इदमर्घ्यं समर्पयामि । १ ओं रवये नमः इदमर्घ्यं समर्पयामि । २ ओं सूर्याय नमः इदमर्घ्यं समर्पयामि । ३ ओं भानवे नमः इदमर्घ्यं समर्पयामि । ४ ओं खगाय नमः इदमर्घ्यं समर्पयामि । ५ ओं पूष्णे नमः इदमर्घ्यं समर्पयामि । ६ ओं हिरण्यगर्भाय नमः इदमर्घ्यं समर्पयामि । ७ ओं मरीचये नमः इदमर्घ्यं समर्पयामि । ८ ओं आदित्याय नमः इदमर्घ्यं समर्पयामि । ९ ओं सवित्रे नमः इदमर्घ्यं समर्पयामि । १० ओं अर्काय नमः इदमर्घ्यं समर्पयामि । ११ ओं भास्कराय नमः इदमर्घ्यं समर्पयामि ॥ १२ प्रार्थना विनतातनयो देवः सर्वसाक्षी जगत्पतिः । सप्ताश्वः सप्तरज्जुश्च अरुणो मे प्रसीदतु ॥ नमः पङ्कजहस्ताय नमः पङ्कजमालिने नमः पङ्कजनेत्राय भास्कराय नमो नमः । नमस्ते पद्महस्ताय नमस्ते वेदमूर्तये नमस्ते देवदेवेश नमस्ते सर्वकामद ॥ क्षमा प्रार्थना मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥ अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य वा । यन्न्यूनमतिरिक्तं च तत्सर्वं क्षन्तुमर्हसि ॥ यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ समर्पण कायेन वाचा मनसेन्द्रियैर्वा, बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै, नारायणायेति समर्पयामि ॥ अनेन मया कृत पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजनेन सपरिवार समेत पद्मिनी उषा छाया समेत श्री सवितृ सूर्यनारायण स्वामि सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥ तीर्थप्रसाद ग्रहणम् अकालमृत्यहरणं सर्वव्याधिनिवारणम् । समस्तपापक्षयकरं श्री सूर्यनारायण पादोदकं पावनं शुभम् ॥ ओं श्री सूर्यनारायणाय नमः । प्रसादं शिरसा गृह्णामि । ओं शान्तिः शान्तिः शान्तिः ॥

सूर्य पूजा का महत्व (Significance)

  • आरोग्य प्राप्ति: 'आरोग्यं भास्करादिच्छेत्' - शास्त्रों के अनुसार सूर्य आरोग्य के देवता हैं। नियमित पूजा से नेत्र और त्वचा संबंधी रोग दूर होते हैं।
  • ग्रह शांति: कुंडली में सूर्य दोष (Surya Dosh) होने पर यह पूजा अत्यंत लाभकारी है।
  • बुद्धि और तेज: सूर्य गायत्री मंत्र के देवता हैं जो हमारी बुद्धि को सन्मार्ग पर प्रेरित करते हैं।

पूजा सामग्री (Puja Samagri)

  • प्रतिमा: सूर्य देव की मूर्ति, यंत्र या लाल चंदन का टुकड़ा।
  • पुष्प: लाल फूल (गुडहल/Hibiscus, कनेर, कमल)।
  • अक्षत: कुमकुम मिश्रित लाल चावल (Rakta Akshat)।
  • नैवेद्य: गुड़, गेंहू का हलवा, खीर।
  • अन्य: तांबे का पात्र (Arghya Patra), लाल वस्त्र, रोली, चंदन, दीपक।

प्रश्नोत्तरी (FAQ)

सूर्य पूजा कब करनी चाहिए?
सूर्य पूजा प्रतिदिन की जा सकती है, लेकिन रविवार (Sunday), रथ सप्तमी और मकर संक्रांति के दिन इसका विशेष महत्त्व है। सूर्योदय के समय पूजा करना सर्वोत्तम है।

सूर्य को अर्घ्य देने का सही समय क्या है?
सूर्योदय के समय, जब सूर्य लालिमा लिए हो (Udaya-Kaal), अर्घ्य देना सबसे लाभकारी होता है। अर्घ्य देते समय जल की धारा के बीच से सूर्य को देखना चाहिए।

क्या स्त्रियां सूर्य पूजा कर सकती हैं?
हाँ, स्त्रियां पूर्ण श्रद्धा के साथ सूर्य पूजा और अर्घ्य दे सकती हैं। यह सभी के लिए कल्याणकारी है।

सूर्य पूजा के लाभ क्या हैं?
'आरोग्यं भास्करादिच्छेत्'—अर्थात् सूर्य से आरोग्य की कामना करनी चाहिए। सूर्य उपासना से नेत्र रोग, त्वचा रोग और हृदय रोगों में लाभ मिलता है, और मान-सम्मान की प्राप्ति होती है।

सूर्य पूजा में कौन से फूल चढ़ाने चाहिए?
भगवान सूर्य को लाल रंग के फूल अत्यंत प्रिय हैं, जैसे गुडहल (Hibiscus), कनेर (Oleander) और कमल। रक्त चंदन का प्रयोग करना भी शुभ होता है।

अर्घ्य में क्या मिलाना चाहिए?
तांबे के लोटे में जल, रोली (कुमकुम), अक्षत, लाल फूल, और थोड़ा गुड़ डालकर अर्घ्य देना चाहिए।

सूर्य के 12 नाम क्या हैं?
मित्र, रवि, सूर्य, भानु, खग, पूषा, हिरण्यगर्भ, मरीचि, आदित्य, सवितृ, अर्क, और भास्कर। ये 12 नाम सूर्य नमस्कार के समय बोले जाते हैं।

रथ सप्तमी क्या है?
माघ शुक्ल सप्तमी को 'रथ सप्तमी' या 'सूर्य जयंती' कहते हैं। माना जाता है कि इसी दिन सूर्य देव ने अपने सात घोड़ों वाले रथ पर सवार होकर जगत को प्रकाशित करना शुरू किया था।

आदित्य हृदय स्तोत्र का क्या महत्व है?
यह स्तोत्र शत्रुओं पर विजय और आत्मविश्वास प्राप्ति के लिए अमोघ है। भगवान राम ने रावण से युद्ध करते समय इसका पाठ किया था।

प्रदक्षिणा कितनी करनी चाहिए?
सूर्य देव की सात प्रदक्षिणा (सप्तद्वीप का प्रतीक) या एक प्रदक्षिणा (अपने स्थान पर घूमकर) करनी चाहिए।

।। ॐ महालक्ष्म्यै नमः ।।