Logoपवित्र ग्रंथ

Sri Raama Shodasopachara Puja – श्री राम षोडशोपचार पूजा

Sri Raama Shodasopachara Puja – श्री राम षोडशोपचार पूजा

Sri Raama Shodasopachara Puja

श्री राम षोडशोपचार पूजा

श्री राम षोडशोपचार पूजा
(Sri Raama Shodasopachara Puja) भगवान श्री राम को समर्पित एक अत्यंत प्रभावशाली विधान है। इसका पाठ करने से मन को शांति और भगवान श्री राम की कृपा प्राप्त होती है।

॥ श्री राम षोडशोपचार पूजा ॥ १. पुनः सङ्कल्पम् (Punah Sankalpam) पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं पुरुषसूक्त विधानेन श्री रामचन्द्र स्वामि षोडशोपचार पूजां करिष्ये ॥ २. प्राणप्रतिष्ठा (Prana Pratishtha) ओं असुनीते पुनरस्मासु चक्षु: पुन: प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्त मनुमते मृडया नः स्वस्ति ॥ अमृतं वै प्राणा अमृतमाप: प्राणानेव यथास्थानमुपह्वयते ॥ श्रीरामाऽऽगच्छ भगवन् रघुवीर नृपोत्तम । जानक्या सह राजेन्द्र सुस्थिरो भव सर्वदा ॥ रामचन्द्र महेष्वास रावणान्तक राघव । यावत्पूजां करिष्यामि तावत्त्वं सन्निधो भव ॥ अस्मिन् बिम्बे साङ्गं सायुधं सशक्तिं पत्नीपुत्र परिवार समेत श्री जानकी सहित श्री रामचन्द्र स्वामिनं आवाहयामि स्थापयामि पूजयामि । ३. ध्यानम् (Dhyanam) कालाभोधरकान्तिकान्तमनिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ १ ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्टपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ २ ॥ रक्ताम्भोजदलाभिरामनयनं पीताम्बरालङ्कृतं श्यामाङ्गं द्विभुजं प्रसन्नवदनं श्रीसीतया शोभितम् । कारुण्यामृतसागरं प्रियगणैर्भ्रात्रादिभिर्भावितं वन्दे विष्णुशिवादिसेव्यमनिशं भक्तेष्टसिद्धिप्रदम् ॥ ३ ॥ ओं रां रामाय नमः ध्यायामि । ध्यानम् समर्पयामि ॥ ४. आवाहनम् (Avahanam) सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । आवाहयामि विश्वेशं जानकीवल्लभं विभुम् । कौसल्यातनयं विष्णुं श्रीरामं प्रकृतेः परम् ॥ ओं रां रामाय नमः आवाहयामि । ५. आसनम् (Asanam) पुरुष एवेदग्ं सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति । राजाधिराज राजेन्द्र रामचन्द्र महीपते । रत्नसिंहासनं तुभ्यं दास्यामि स्वीकुरु प्रभो ॥ ओं रां रामाय नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि । ६. पाद्यम् (Padyam) एतावानस्य महिमा । अतो ज्यायाग्श्च पूरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । त्रैलोक्यपावनाऽनन्त नमस्ते रघुनायक । पाद्यं गृहाण राजर्षे नमो राजीवलोचन ॥ ओं रां रामाय नमः पादयो पाद्यं समर्पयामि । ७. अर्घ्यम् (Arghyam) त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुन: । ततो विष्वङ्व्यक्रामत् । साशनानशने अभि । परिपूर्ण परानन्द नमो रामाय वेधसे । गृहाणार्घ्यं मया दत्तं कृष्ण विष्णो जनार्दन ॥ ओं रां रामाय नमः हस्तयोः अर्घ्यं समर्पयामि । ८. आचमनीयम् (Achamaniyam) तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः । नमः सत्याय शुद्धाय नित्याय ज्ञानरूपिणे । गृहाणाचमनं राम सर्वलोकैकनायक ॥ ओं रां रामाय नमः मुखे आचमनीयं समर्पयामि । ९. मधुपर्कम् (Madhuparkam) नमः श्रीवासुदेवाय तत्त्वज्ञानस्वरूपिणे । मधुपर्कं गृहाणेदं जानकीपतये नमः ॥ ओं रां रामाय नमः मधुपर्कं समर्पयामि । १०. स्नानम् (Snanam) यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः । ब्रहाण्डोदरमध्यस्थैः तीर्थैश्च रघुनन्दन । स्नापयिष्याम्यहं भक्त्या त्वं प्रसीद जनार्दन ॥ ओं रां रामाय नमः शुद्धोदक स्नानं समर्पयामि । स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि । ११. वस्त्रम् (Vastram) सप्तास्यासन्परिधय: । त्रिः सप्त समिध: कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् । तप्तकाञ्चनसङ्काशं पीताम्बरमिदं हरे । सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥ ओं रां रामाय नमः वस्त्रयुग्मं समर्पयामि । १२. यज्ञोपवीतम् (Yajnopavitam) तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः । तेन देवा अयजन्त । साध्या ऋषयश्च ये । श्रीरामाऽच्युत देवेश श्रीधराऽनन्त राघव । ब्रह्मसूत्रं चोत्तरीयं गृहाण रघुनन्दन ॥ ओं रां रामाय नमः यज्ञोपवीतं समर्पयामि । १३. गन्धम् (Gandham) तस्माद्यज्ञात्सर्वहुत: । सम्भृतं पृषदाज्यम् । पशूग्स्ताग्श्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये । कुङ्कुमागरु कस्तूरी कर्पूरोन्मिश्रचन्दनम् । तुभ्यं दास्यामि राजेन्द्र श्रीराम स्वीकुरु प्रभो ॥ ओं रां रामाय नमः दिव्य श्री चन्दनं समर्पयामि । १४. आभरणम् (Abharanam) तस्माद्यज्ञात्सर्वहुत: । ऋच: सामानि जज्ञिरे । छन्दाग्ंसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत । किरीटादीनि राजेन्द्र हंसकान्तानि राघव । विभूषणानि धृत्वाद्य शोभस्व सह सीतया ॥ ओं रां रामाय नमः सुवर्णाभरणानि समर्पयामि । १५. अक्षतान् (Akshatan) अक्षतान् कुङ्कुमोपेतान् अक्षय्यफलदायक । अर्पये तव पादाब्जे शालितण्डुल सम्भवान् ॥ ओं रां रामाय नमः अक्षतान् समर्पयामि । १६. पुष्पाणि (Pushpani) तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावय: । तुलसी कुन्द मन्दार जाजी पुन्नाग चम्पकैः । कदम्ब करवीरैश्च कुसुमैः शतपत्रकैः ॥ नीलाम्बुजैर्बिल्वपत्रैः पुष्पमाल्यैश्च राघव । पूजयिष्याम्यहं भक्त्या गृहाण त्वं जनार्दन ॥ ओं रां रामाय नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि । १७. अथ अङ्गपूजा (Anga Puja) ओं श्रीरामचन्द्राय नमः – पादौ पूजयामि । ओं विश्वमूर्तये नमः – गुल्फौ पूजयामि । ओं विश्वरूपाय नमः – जङ्घे पूजयामि । ओं रघूद्वहाय नमः – जानुनी पूजयामि । ओं रावणान्तकाय नमः – ऊरू पूजयामि । ओं लक्ष्मणाग्रजाय नमः – कटिं पूजयामि । ओं पद्मनाभाय नमः – नाभिं पूजयामि । ओं दामोदराय नमः – उदरं पूजयामि । ओं विश्वामित्रप्रियाय नमः – वक्षःस्थलं पूजयामि । ओं सर्वास्त्रधारिणे नमः – बाहून् पूजयामि । ओं परमात्मने नमः – हृदयं पूजयामि । ओं श्रीकण्ठाय नमः – कण्ठं पूजयामि । ओं वाचस्पतये नमः – मुखं पूजयामि । ओं राजीवलोचनाय नमः – नेत्रौ पूजयामि । ओं सीतापतये नमः – ललाटं पूजयामि । ओं ज्ञानगम्याय नमः – शिरः पूजयामि । ओं सर्वात्मने नमः – सर्वाण्यङ्गानि पूजयामि । १८. अथ अष्टोत्तरशतनाम पूजा (Ashtottara Shatanamavali) (यहाँ भगवान श्री राम की अष्टोत्तरशतनाम पूजा करें) * श्री राम अष्टोत्तर शतनामावली ओं रां रामाय नमः अष्टोत्तरशतनाम पूजां समर्पयामि । १९. धूपम् (Dhupam) यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते । वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । रामचन्द्र महीपालो धूपोऽयं प्रतिगृह्यताम् ॥ ओं रां रामाय नमः धूपं आघ्रापयामि । २०. दीपम् (Deepam) ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्य: कृतः । ऊरू तदस्य यद्वैश्य: । पद्भ्याग्ं शूद्रो अजायत । ज्योतिषां पतये तुभ्यं नमो रामाय वेधसे । गृहाण दीपकं चैव त्रैलोक्य तिमिरापहम् ॥ ओं रां रामाय नमः दीपं दर्शयामि । २१. नैवेद्यम् (Naivedyam) चन्द्रमा मनसो जातः । चक्षो: सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत । इदं दिव्यान्नममृतं रसैः षड्भिः समन्वितम् । रामचन्द्रेश नैवेद्यं सीतेश प्रतिगृह्यताम् ॥ ओं रां रामाय नमः नैवेद्यं समर्पयामि । ओं भूर्भुवस्सुव: । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अमृतोपस्तरणमसि । ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा । ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा । ओं समानाय स्वाहा । मध्ये मध्ये पानीयं समर्पयामि । अमृतापिधानमसि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ॥ २२. ताम्बूलम् (Tambulam) नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिश: श्रोत्रात् । तथा लोकाग्ं अकल्पयन् । नागवल्लीदलैर्युक्तं पूगीफलसमन्वितम् । ताम्बूलं गृह्यतां राम कर्पूरादिसमन्वितम् ॥ ओं रां रामाय नमः ताम्बूलं समर्पयामि । २३. नीराजनम् (Nirajanam) वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीर: । नामानि कृत्वाऽभिवदन् यदास्ते । मङ्गलं कोसलेन्द्राय महनीय गुणात्मने । चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलम् ॥ मङ्गलार्थं महीपाल नीराजनमिदं हरे । सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥ ओं रां रामाय नमः कर्पूर नीराजनं समर्पयामि । नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि । २४. मन्त्रपुष्पम् (Mantra Pushpam) धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । सर्वलोकशरण्याय रामचन्द्राय वेधसे । ब्रह्मानन्दैकरूपाय सीतायाः पतये नमः ॥ ओं रां रामाय नमः मन्त्रपुष्पं समर्पयामि । २५. आत्मप्रदक्षिण नमस्कारम् (Pradakshina) यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे । पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव । त्राहि मां कृपया देव शरणागतवत्सल । अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥ ओं रां रामाय नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि । २६. सर्वोपचाराः (Sarvupachara) ओं रां रामाय नमः छत्रं आच्छादयामि । ओं रां रामाय नमः चामरैर्वीजयामि । ओं रां रामाय नमः नृत्यं दर्शयामि । ओं रां रामाय नमः गीतं श्रावयामि । ओं रां रामाय नमः आन्दोलिकान्नारोहयामि । ओं रां रामाय नमः अश्वानारोहयामि । ओं रां रामाय नमः गजानारोहयामि । ओं रां रामाय नमः समस्त राजोपचारान् देवोपचारान् समर्पयामि । २७. प्रार्थना (Prarthana) श्रीरामचन्द्र रघुपुङ्गव राजवर्य राजेन्द्र राम रघुनायक राघवेश । राजाधिराज रघुनन्दन रामचन्द्र दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ श्रीराम राम रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम ॥ श्रीरामचन्द्र चरणौ मनसा स्मरामि । श्रीरामचन्द्र चरणौ वचसा गृणामि । श्रीरामचन्द्र चरणौ शिरसा नमामि । श्रीरामचन्द्र चरणौ शरणं प्रपद्ये ॥ २८. क्षमा प्रार्थना (Kshama Prarthana) अपराध सहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व पुरुषोत्तमा । आवाहनं न जानामि न जानामि विसर्जनम् । पूजाविधिं न जानामि क्षमस्व पुरुषोत्तमा । मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दना । यत्पूजितं मया देव परिपूर्णं तदस्तुते । अनया पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री जानकी सहित श्री रामचन्द्र स्वामि सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥ २९. तीर्थप्रसाद ग्रहणम् (Tirtha Prasada) अकालमृत्यहरणं सर्वव्याधिनिवारणम् । समस्तपापक्षयकरं श्री रामचन्द्र पादोदकं पावनं शुभम् ॥ ओं रां रामाय नमः प्रसादं शिरसा गृह्णामि । ओं शान्तिः शान्तिः शान्तिः ।

महत्व एवं लाभ (Significance and Benefits)

  • मानसिक शांति: तनाव और चिंता से मुक्ति मिलती है और मन स्थिर होता है।
  • धर्म लाभ: भगवान श्री राम के चरण कमलों में प्रीति बढ़ती है।
  • सुरक्षा: जीवन में आने वाली कठिनाइयों से रक्षा होती है।
  • सकारात्मक ऊर्जा: घर में सुख-समृद्धि और पवित्रता का वास होता है।

पाठ विधि (Recitation Method)

  • समय: ब्रह्म मुहूर्त (प्रातःकाल) या संध्या समय सर्वोत्तम है।
  • शुद्धि: स्नान करके स्वच्छ वस्त्र धारण करें।
  • आसन: पूजा कक्ष में पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
  • ध्यान: भगवान श्री राम और माता जानकी के स्वरूप का ध्यान करते हुए पाठ करें।

श्री राम षोडशोपचार पूजा का पाठ कब करना चाहिए?

इसका पाठ प्रतिदिन किया जा सकता है, विशेषकर राम नवमी और मंगलवार/शनिवार के दिन इसका महत्व अधिक है।

क्या संस्कृत न जानने वाले भी पाठ कर सकते हैं?

हाँ, आप हिंदी अर्थ समझकर या श्रवण (सुनकर) भी लाभ प्राप्त कर सकते हैं। श्रीराम भाव के भूखे हैं।

श्री राम षोडशोपचार पूजा के पाठ से क्या फल मिलता है?

इसके नियमित पाठ से भगवान श्रीराम की कृपा प्राप्त होती है, भय का नाश होता है और धर्म-अर्थ-काम-मोक्ष की प्राप्ति में सहायता मिलती है।

।। ॐ महालक्ष्म्यै नमः ।।