॥ श्री कृष्ण षोडशोपचार पूजा विधानम् ॥
पुनः सङ्कल्पम् (Punah Sankalpam)
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम मनोवाञ्छित फलावाप्त्यर्थं ब्रह्मज्ञान सिद्ध्यर्थं श्रीकृष्ण परब्रह्म पूजां करिष्ये ॥
१. ध्यानम् (Dhyanam)
कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥
ध्यायामि बालकं कृष्णं मात्रङ्के स्तन्यपायिनम् ।
श्रीवत्सवक्षसं कान्तं नीलोत्पलदलच्छविम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः ध्यायामि ।
२. आवाहनम् (Avahanam)
सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् ॥
आवाहयामि देवेशं श्रीपतिं श्रीधरं हरिम् ।
बालरूपधरं विष्णुं सच्चिदानन्दविग्रहम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः आवाहयामि ।
३. आसनम् (Asanam)
पुरुष एवेदग्ं सर्वम् । यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानः । यदन्नेनातिरोहति ॥
दामोदर नमस्तेऽस्तु देवकीगर्भसम्भव ।
रत्नसिंहासनं चारु गृह्यतां गोकुलप्रिय ॥
ओं श्रीकृष्ण परब्रह्मणे नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
४. पाद्यम् (Padyam)
एतावानस्य महिमा । अतो ज्यायाग्श्च पूरुषः ।
पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि ॥
पुष्पाक्षत समायुक्तं पुरुषोत्तम पूर्वज ।
पाद्यं गृहाण देवेश पूर्णरूप नमोऽस्तु ते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः पादयो पाद्यं समर्पयामि ।
५. अर्घ्यम् (Arghyam)
त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुनः ।
ततो विष्वङ्व्यक्रामत् । साशनानशने अभि ॥
गन्धपुष्पाक्षतोपेतं फलेन च समन्वितम् ।
अर्घ्यं गृहाण भगवन् वसुदेव प्रियात्मज ॥
ओं श्रीकृष्ण परब्रह्मणे नमः हस्तयोः अर्घ्यं समर्पयामि ।
६. आचमनीयम् (Achamaniyam)
तस्माद्विराडजायत । विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः ॥
नानानदी समानीतं सुवर्णकलशस्थितम् ।
गृहाणाचमनीयं च विमलं जलमच्युत ॥
ओं श्रीकृष्ण परब्रह्मणे नमः मुखे आचमनीयं समर्पयामि ।
७. मधुपर्कम् (Madhuparkam)
मधुदध्याज्यसम्युक्तं महनीय गुणार्णव ।
मधुसूदन देवेश मधुपर्कं गृहाण मे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः मधुपर्कं समर्पयामि ।
८. पञ्चामृत स्नानम् (Panchamrita Snanam)
पञ्चामृतस्नानमिदं पयोदधि घृतं मधु ।
शर्करामपि गोविन्द शकटासुरभञ्जन ॥
ओं श्रीकृष्ण परब्रह्मणे नमः पञ्चामृतस्नानं समर्पयामि ।
९. स्नानम् (Snanam)
यत्पुरुपेण हविषा । देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः ॥
गङ्गा गोदावरी कृष्णा यमुनाभ्यः समाहृतम् ।
सलिलं विमलं देव स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।
१०. वस्त्रम् (Vastram)
सप्तास्यासन्परिधयः । त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् ॥
पीताम्बरयुगं देव गृहाण सुमनोहरम् ।
देहि मे सकलानर्थान् देवकी प्रियनन्दन ॥
ओं श्रीकृष्ण परब्रह्मणे नमः वस्त्रयुग्मं समर्पयामि ।
११. यज्ञोपवीतम् (Yajnopavitam)
तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः ।
तेन देवा अयजन्त । साध्या ऋषयश्च ये ॥
उपवीतं गृहाणेदं काञ्चनं कमलापते ।
पवित्रं कुरु मां देव नमः परमपूरुष ॥
ओं श्रीकृष्ण परब्रह्मणे नमः यज्ञोपवीतं समर्पयामि ।
१२. गन्धम् (Gandham)
तस्माद्यज्ञात्सर्वहुतः । सम्भृतं पृषदाज्यम् ।
पशूग्स्ताग्श्चक्रे वायव्यान् । आरण्यान्ग्राश्याश्च ये ॥
गन्धं कुङ्कुमकस्तूरी घनसारसमन्वितम् ।
गृहाण ते नमो देव कुब्जानुग्रहकारिणे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः गन्धं समर्पयामि ।
१३. आभरणम् (Abharanam)
तस्माद्यज्ञात्सर्वहुतः । ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत ॥
हारनूपुरकेयूर किङ्किणीदामपूर्वकम् ।
गृहाणाभरणं सर्वं शरणागतवत्सल ॥
ओं श्रीकृष्ण परब्रह्मणे नमः आभरणानि समर्पयामि ।
१४. अक्षतान् (Akshatan)
अक्षतान् धवलान् दिव्यान् मुक्ताफल समप्रभान् ।
वासुदेव गृहाण त्वं नमस्ते भक्तवत्सल ॥
ओं श्रीकृष्ण परब्रह्मणे नमः अक्षतान् समर्पयामि ।
१५. पुष्पाणि (Pushpani)
तस्मादश्वा अजायन्त । ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः ॥
जाजी चम्पक पुन्नाग केतकी मल्लिकादिभिः ।
करवीरैः पारिजातैः पूजयामि रमापतिम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
१६. अथाङ्ग पूजा (Anga Puja)
ओं अच्युताय नमः – पादौ पूजयामि ।
ओं गोपालाय नमः – गुल्फौ पूजयामि ।
ओं जन्महीनाय नमः – जानुनी पूजयामि ।
ओं पूतनावैरिणे नमः – ऊरू पूजयामि ।
ओं शकटासुरभञ्जनाय नमः – कटिं पूजयामि ।
ओं नवनीतप्रियाय नमः – नाभिं पूजयामि ।
ओं उत्तालतालभेत्रे नमः – उदरं पूजयामि ।
ओं वनमालिने नमः – वक्षःस्थलं पूजयामि ।
ओं चतुर्भुजाय नमः – हस्तान् पूजयामि ।
ओं कंसारये नमः – कण्ठं पूजयामि ।
ओं मथुरानाथाय नमः – मुखं पूजयामि ।
ओं कुचेलसम्पत्प्रदाय नमः – कपोलौ पूजयामि ।
ओं कञ्जलोचनाय नमः – नेत्रे पूजयामि ।
ओं करुणानिधये नमः – कर्णौ पूजयामि ।
ओं ललिताकृतये नमः – ललाटं पूजयामि ।
ओं शुकसंस्तुताय नमः – शिरः पूजयामि ।
ओं सर्वेश्वराय नमः – सर्वाण्यङ्गानि पूजयामि ।
१७. अथ अष्टोत्तरशतनाम पूजा (Ashtottara Shatanamavali)
१८. धूपम् (Dhupam)
यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते ॥
वनस्पत्युद्भवो दिव्यो गन्धाढ्यो गन्ध उत्तम ।
बालकृष्ण महीपालो धूपोऽयं प्रतिगृह्यताम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः धूपं आघ्रापयामि ।
१९. दीपम् (Deepam)
ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः । पद्भ्यां शूद्रो अजायत ॥
साज्यं त्रिवर्तिसम्युक्तं वह्निना योजितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः दीपं समर्पयामि ।
२०. नैवेद्यम् (Naivedyam)
चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ॥
नैवेद्यं गृह्यतां देव भक्तिं मे अचलां कुरु ।
ईप्सितं मे वरं देहि इहत्र च परां गतिम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुवः सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा ।
ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा ।
ओं समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
२१. ताम्बूलम् (Tambulam)
नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकाग्ं अकल्पयन् ॥
पूगीफलं सताम्बूलं नागवल्लीदलैर्युतम् ।
एला लवङ्ग सम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः ताम्बूलं समर्पयामि ।
२२. नीराजनम् (Nirajanam)
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे ।
सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन्यदास्ते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
२३. मन्त्रपुष्पम् (Mantra Pushpam)
धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।
२४. आत्मप्रदक्षिण नमस्कारम् (Atma Pradakshina)
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देव शरणागतवत्सला ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥
ओं श्रीकृष्ण परब्रह्मणे नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
२५. साष्टाङ्ग नमस्कारम् (Sashtanga Namaskaram)
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्टाङ्गमुच्यते ॥
ओं श्रीकृष्ण परब्रह्मणे नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।
२६. सर्वोपचाराः (Sarvopachara)
ओं श्रीकृष्ण परब्रह्मणे नमः छत्रं आच्छादयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः चामरैर्वीजयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः नृत्यं दर्शयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः गीतं श्रावयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः आन्दोलिकान्नारोहयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः अश्वानारोहयामि ।
ओं श्रीकृष्ण परब्रह्मणे नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
२७. प्रार्थना (Prarthana)
नमो ब्रह्मण्य देवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥
नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो ।
वसुदेवसुताऽनन्त यशोदानन्दवर्धन ॥
गोविन्द गोकुलाधार गोपीकान्त गुणार्णव ।
पाहि मां पद्मनयन पतितं भवसागरे ॥
ओं श्रीकृष्ण परब्रह्मणे नमः प्रार्थना नमस्कारान् समर्पयामि ।
२८. क्षमा प्रार्थन (Kshama Prarthana)
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व पुरुषोत्तम ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व पुरुषोत्तम ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री कृष्ण परमात्मा सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
२९. तीर्थप्रसाद ग्रहणम् (Tirtha Prasada)
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री बालकृष्ण पादोदकं पावनं शुभम् ॥
ओं श्रीकृष्ण परब्रह्मणे नमः प्रसादं शिरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ।