पुरुषसूक्त सहित श्रीसूक्त पूजा विधान
Purusha Sukta Sahita Sri Sukta Vidhana Puja
✦
पुरुषसूक्त सहित श्रीसूक्त पूजा
यह भगवान लक्ष्मी-नारायण की संयुक्त वैदिक उपासना पद्धति है। इसमें एक ही साथ पुरुषसूक्तम् द्वारा भगवान विष्णु का और श्रीसूक्तम् द्वारा माता महालक्ष्मी का अर्चन किया जाता है।
पूजा की विशेषता
सामान्यतः पुरुषसूक्त से विष्णु पूजा और श्रीसूक्त से लक्ष्मी पूजा अलग-अलग की जाती है। किन्तु इस 'युगल विधान' में प्रत्येक उपचार (जैसे आसन, पाद्य, अर्घ्य) के लिए पहले पुरुषसूक्त का एक मन्त्र बोला जाता है (नारायण के लिए) और तत्पश्चात् श्रीसूक्त का एक मन्त्र बोला जाता है (लक्ष्मी जी के लिए)। यह विधि दीपावली, वरलक्ष्मी व्रत, विवाह उत्सव और नित्य लक्ष्मी-नारायण पूजा के लिए अत्यन्त प्रभावशाली है।
॥ पुरुषसूक्त सहित श्रीसूक्त पूजा ॥
ध्यानम्
ॐ श्री लक्ष्मीनारायणाभ्यां नमः ध्यायामि ।
१. आवाहनम्
[पु] ओं सहस्रशीर्षा पुरुषः ।
सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा ।
अत्यतिष्ठद्दशाङ्गुलम् ।
[श्री] ओं हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः आवाहयामि ।
२. आसनम्
[पु] पुरुष एवेदग्ं सर्वम् ।
यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानः ।
यदन्नेनातिरोहति ।
[श्री] तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
३. पाद्यम्
[पु] एतावानस्य महिमा ।
अतो ज्यायाग्श्च पूरुषः ।
पादोऽस्य विश्वा भूतानि ।
त्रिपादस्यामृतं दिवि ।
[श्री] अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः पादयोः पाद्यं समर्पयामि ।
४. अर्घ्यम्
[पु] त्रिपादूर्ध्व उदैत्पुरुषः ।
पादोऽस्येहाऽऽभवात्पुन: ।
ततो विष्वङ्व्यक्रामत् ।
साशनानशने अभि ।
[श्री] कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः हस्तयोः अर्घ्यं समर्पयामि ।
५. आचमनीयम्
[पु] तस्माद्विराडजायत ।
विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत ।
पश्चाद्भूमिमथो पुरः ।
[श्री] चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः मुखे आचमनीयं समर्पयामि ।
६. पञ्चामृत स्नानम्
आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् ।
भवा वाजस्य सङ्गथे ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः क्षीरेण स्नपयामि ।
दधिक्राव्णोअकारिषं जिष्णोरश्वस्य वाजिन: ।
सुरभि नो मुखा करत्प्राण आयूग्म्षि तारिषत् ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः दध्ना स्नपयामि ।
शुक्रमसि ज्योतिरसि तेजोसि देवोवस्सवितोत्पुनातु
अच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभि: ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः आज्येन स्नपयामि ।
मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वौषधीः ।
मधुनक्तमुतोषसि मधुमत् पार्थिवग्ंरज: ।
मधुद्यौरस्तु नः पिता ।
मधुमान्नो वनस्पतिर्मधुमाग्ं अस्तु सूर्य: ।
माध्वीर्गावो भवन्तु नः ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः मधुना स्नपयामि ।
स्वादुः पवस्व दिव्याय जन्मने ।
स्वादुरिन्द्राय सुहवीतु नाम्ने ।
स्वादुर्मित्राय वरुणाय वायवे ।
बृहस्पतये मधुमां अदाभ्यः ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः शर्करेण स्नपयामि ।
याः फलिनीर्या अफला अपुष्पायाश्च पुष्पिणी: ।
बृहस्पति प्रसूतास्तानो मुन्चन्त्वग्ं हसः ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः फलोदकेन स्नपयामि ।
७. स्नानम्
[पु] यत्पुरुषेण हविषा ।
देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यम् ।
ग्रीष्म इध्मश्शरद्धविः ।
[श्री] आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥
आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महेरणाय चक्षसे ।
यो व: शिवतमो रसस्तस्य भाजयते ह न: ।
उशतीरिव मातरः ।
तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।
८. वस्त्रम्
[पु] सप्तास्यासन्परिधय: ।
त्रिः सप्त समिध: कृताः ।
देवा यद्यज्ञं तन्वानाः ।
अबध्नन्पुरुषं पशुम् ।
[श्री] उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः वस्त्रयुग्मं समर्पयामि ।
९. यज्ञोपवीतम्
[पु] तं यज्ञं बर्हिषि प्रौक्षन् ।
पुरुषं जातमग्रतः ।
तेन देवा अयजन्त ।
साध्या ऋषयश्च ये ।
[श्री] क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः यज्ञोपवीतं समर्पयामि ।
१०. गन्धम्
[पु] तस्माद्यज्ञात्सर्वहुत: ।
सम्भृतं पृषदाज्यम् ।
पशूग्स्ताग्श्चक्रे वायव्यान् ।
आरण्यान्ग्राम्याश्च ये ।
[श्री] गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीग्ं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः दिव्य श्री चन्दनं समर्पयामि ।
११. आभरणम्
[पु] तस्माद्यज्ञात्सर्वहुत: ।
ऋच: सामानि जज्ञिरे ।
छन्दाग्ंसि जज्ञिरे तस्मात् ।
यजुस्तस्मादजायत ।
[श्री] मनस: काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यश: ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः सर्वाभरणानि समर्पयामि ।
१२. पुष्पाणि
[पु] तस्मादश्वा अजायन्त ।
ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् ।
तस्माज्जाता अजावय: ।
[श्री] कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
१३. धूपम्
[पु] यत्पुरुषं व्यदधुः ।
कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू ।
कावूरू पादावुच्येते ।
[श्री] आप: सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः धूपं समर्पयामि ।
१४. दीपम्
[पु] ब्राह्मणोऽस्य मुखमासीत् ।
बाहू राजन्य: कृतः ।
ऊरू तदस्य यद्वैश्य: ।
पद्भ्याग्ं शूद्रो अजायत ।
[श्री] आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः दीपं समर्पयामि ।
१५. नैवेद्यम्
[पु] चन्द्रमा मनसो जातः ।
चक्षो: सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च ।
प्राणाद्वायुरजायत ।
[श्री] आर्द्रां य: करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः नैवेद्यं समर्पयामि ।
ॐ भूर्भुवस्सुव: । तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि ।
धियो योन: प्रचोदयात् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि । (सायंकाले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ओं अपानाय स्वाहा ।
ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा ।
ओं समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि ।
पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।
१६. ताम्बूलम्
[पु] नाभ्या आसीदन्तरिक्षम् ।
शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिश: श्रोत्रात् ।
तथा लोकाग्ं अकल्पयन् ।
[श्री] तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः ताम्बूलं समर्पयामि ।
नीराजनम्
[पु] वेदाहमेतं पुरुषं महान्तम् ।
आदित्यवर्णं तमसस्तु पारे ।
सर्वाणि रूपाणि विचित्य धीर: ।
नामानि कृत्वाऽभिवदन् यदास्ते ।
[श्री] यः शुचि: प्रयतो भूत्वा जुहुयादाज्य मन्वहम् ।
श्रिय: पञ्चदशर्चं च श्रीकाम: सततं जपेत् ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
मन्त्रपुष्पम्
धाता पुरस्ताद्यमुदाजहार ।
शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
तमेवं विद्वानमृत इह भवति ।
नान्यः पन्था अयनाय विद्यते ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।
आत्मप्रदक्षिण नमस्कारम्
यानिकानि च पापानि जन्मान्तरकृतानि च
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया तुभ्यं शरणागतवत्सले ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दना रक्ष रक्ष सुरेश्वरी ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारम्
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्टाङ्गमुच्यते ॥
ॐ श्री लक्ष्मीनारायणाभ्यां नमः साष्टाङ्ग नमस्कारां समर्पयामि ।
सर्वोपचाराः
ॐ श्री लक्ष्मीनारायणाभ्यां नमः छत्रं आच्छादयामि ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः चामरैर्वीजयामि ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः नृत्यं दर्शयामि ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः गीतं श्रावयामि ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः आन्दोलिकान्नारोहयामि ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः अश्वानारोहयामि ।
ॐ श्री लक्ष्मीनारायणाभ्यां नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
क्षमा प्रार्थना
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वर ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ।
समापन
अनया पुरुषसूक्त सहित श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री लक्ष्मीनारायणाभ्यां सुप्रीता सुप्रसन्ना वरदा भवन्तु ।
तीर्थप्रसाद स्वीकरण
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री लक्ष्मीनारायणाभ्यां पादोदकं पावनं शुभम् ॥
श्री लक्ष्मीनारायणाभ्यां नमः प्रसादं शीरसा गृह्णामि ।
ॐ शान्तिः शान्तिः शान्तिः ।
संलिखित ग्रंथ पढ़ें
युगल विधान का महत्त्व
- लक्ष्मी और नारायण: हिन्दू धर्म में ईश्वर को 'माता-पिता' दोनों रूपों में पूजा जाता है। जैसे 'सीता-राम' या 'राधा-कृष्ण'। पुरुषसूक्त भगवान का 'पौरुष' (Masculine aspect) है और श्रीसूक्त उनकी 'शक्ति' (Feminine aspect) है।
- पूर्णता: केवल पुरुषसूक्त से पूजा करने से नारायण प्रसन्न होते हैं और केवल श्रीसूक्त से लक्ष्मी जी। किन्तु दोनों से एक साथ पूजा करने पर घर में "श्री" (समृद्धि) और "नारायण" (धर्म) दोनों का वास होता है।
- समानता: यह विधान दर्शाता है कि शक्ति और शक्तिमान (Power and Power Holder) एक ही तत्त्व के दो रूप हैं।
अक्सर पूछे जाने वाले प्रश्न (FAQs)
1. यह पूजा कब करनी चाहिए?
यह पूजा किसी भी शुभ अवसर पर, विशेषकर शुक्रवार, पूर्णिमा, दीपावली या वरलक्ष्मी व्रत के दिन करनी चाहिए। प्रतिदिन की शालिग्राम पूजा में भी इस विधि का प्रयोग किया जा सकता है।
2. [पु] और [श्री] का क्या अर्थ है?
यहाँ [पु] का अर्थ है 'पुरुषसूक्त' का मन्त्र और [श्री] का अर्थ है 'श्रीसूक्त' का मन्त्र। पूजा करते समय पहले पुरुषसूक्त का मन्त्र बोलें और फिर श्रीसूक्त का।
