Logoपवित्र ग्रंथ

Sri Yoganayika or Rajarajeshwari Sahasranamavali – श्रीयोगनायिका अथवा राजराजेश्वरी सहस्रनामावलिः

Sri Yoganayika or Rajarajeshwari Sahasranamavali – श्रीयोगनायिका अथवा राजराजेश्वरी सहस्रनामावलिः
॥ श्रीयोगनायिका अथवा राजराजेश्वरी सहस्रनामावलिः ॥ राकारादिरकारान्ताद्याक्षरघटितम् । ॐ श्रीराजराजेश्वर्यै नमः । राजरक्षकायै । राजनर्तक्यै । राजविद्यायै । राजपूज्यायै । राजकोशसमृद्धिदायै । राजहंसतिरस्कारिगमनायै । राजलोचनायै । राज्ञां गुरुवराराध्यायै । राजयुक्तनटाङ्गनायै । राजगर्भायै । राजकन्दकदलीसक्तमानसायै । राज्ञां कविकुलाख्यातायै । राजरोगनिवारिण्यै । राजौषधिसुसम्पन्नायै । राजनीतिविशारदायै । राज्ञां सभालङ्कृताङ्ग्यै । राजलक्षणसंयुतायै । राजद्बलायै । राजवल्ल्यै नमः । २० ॐ श्रीराजत्तिल्ववनाधिपायै नमः । राजसद्गुणनिर्दिष्टायै । राजमार्गरथोत्सवायै । राजचक्राङ्कितकरायै । राजांशायै । राजशासनायै । राजत्कृपायै । राजलक्ष्म्यै । राजत्कञ्चुकधारिण्यै । राजाहङ्कारशमनायै । राजकार्यधुरन्धरायै । राजाज्ञायै । राजमातङ्ग्यै । राजयन्त्रकृतार्चनायै । राजक्रीडायै । राजवेश्मप्रवेशितनिजाश्रितायै । राजमन्दिरवास्तव्यायै । राजस्त्रियै । राजजागरायै । राजशापविनिर्मुक्तायै नमः । ४० ॐ श्रीराजश्रियै नमः । राजमन्त्रिण्यै । राजपुत्र्यै । राजमैत्र्यै । राजान्तःपुरवासिन्यै । राजपापविनिर्मुक्तायै । राजर्षिपरिसेवितायै । राजोत्तममृगारूढायै । राज्ञस्तेजःप्रदायिन्यै । राजार्चितपदाम्भोजायै । राजालङ्कारवेष्टितायै । राजसूयसमाराध्यायै । राजसाहस्रसेवितायै । राजसन्तापशमन्यै । राजशब्दपरायणायै । राजार्हमणिभूषाढ्यायै । राजच्छृङ्गारनायिकायै । राजद्रुमूलसंराजद्विघ्नेशवरदायिन्यै । राजपर्वतकौमार्यै । राजशौर्यप्रदायिन्यै नमः । ६० ॐ श्रीराजाभ्यन्तःसमाराध्यायै नमः । राजमौलिमनस्विन्यै । राजमात्रे । राजमाषप्रियार्चितपदाम्बुजायै । राजारिमर्दिन्यै । राज्ञ्यै । राजत्कल्हारहस्तकायै । रामचन्द्रसमाराध्यायै । रामायै । राजीवलोचनायै । रावणेशसमाराध्यायै । राकाचन्द्रसमाननायै । रात्रिसूक्तजपप्रीतायै । रागद्वेषविवर्जितायै । रिङ्खन्नूपुरपादाब्जायै । रिट्यादिपरिसेवितायै । रिपुसङ्घकुलध्वान्तायै । रिगमस्वरभूषितायै । रुक्मिणीशसहोद्भूतायै । रुद्राण्यै नमः । ८० ॐ श्रीरुरुभैरव्यै नमः । रुग्घन्त्र्यै । रुद्रकोपाग्निशमन्यै । रुद्रसंस्तुतायै । रुषानिवारिण्यै । रूपलावण्याम्बुधिचन्द्रिकायै । रूप्यासनप्रियायै । रूढायै । रूप्यचन्द्रशिखामणये । रेफवर्णगलायै । रेवानदीतीरविहारिण्यै । रेणुकायै । रेणुकाराध्यायै । रेवोर्ध्वकृतचक्रिण्यै । रेणुकेयाख्यकल्पोक्तयजनप्रीतमानसायै । रोमलम्बितविध्यण्डायै । रोमन्थमुनिसेवितायै । रोमावलिसुलावण्यमध्यभागसुशोभितायै । रोचनागरुकस्तूरीचन्दनश्रीविलेपितायै । रोहिणीशकृतोत्तंसायै नमः । १०० ॐ श्रीरोहिणीपितृवन्दितायै नमः । रोहिताश्वसुसम्भूतायै । रौहिणेयानुजार्चितायै । रौप्यसिंहासनारूढचाक्षुष्मन्मन्त्रविग्रहायै । रौद्रमन्त्राभिषिक्ताङ्ग्यै । रौद्रमध्यसमीडितायै । रौरवान्तकर्यै । रौच्यपत्रपुष्पकृतार्चनायै । रङ्गलास्यकृतालोलायै । रङ्गवल्ल्याद्यलङ्कृतायै । रञ्जकश्रीसभामध्यगायकान्तरवासिन्यै । ललितायै । लड्डुकप्रीतमानसायै । स्कन्दजन्मभुवे । लकारत्रययुक्तश्रीविद्यामन्त्रकदम्बकायै । लक्षणायै । लक्षणाराध्यायै । लक्षबिल्वार्चनप्रियायै । लज्जाशीलायै । लक्षणज्ञायै नमः । १२० ॐ श्रीलकुचान्नकृतादरायै नमः । ललाटनयनार्धाङ्ग्यै । लवङ्गत्वक्सुगन्धवाचे । लाजहोमप्रियायै । लाक्षागृहे कौन्तेयसेवितायै । लाङ्गल्यै । लालनायै । लालायै । लालिकायै । लिङ्गपीठगायै । लिपिव्यष्टिसमष्टिज्ञायै । लिपिन्यस्तत्रिणेत्रभृते । लुङ्गाफलसमासक्तायै । लुलायासुरघातुक्यै । लूतिकापतिसम्पूज्यायै । लूताविस्फोटनाशिन्यै । लृलॄवर्णस्वरूपाढ्यायै । लेखिन्यै । लेखकप्रियायै । लेह्यचोष्यपेयखाद्यभक्ष्यभोज्यादिमप्रियायै नमः । १४० ॐ श्रीलेपितश्रीचन्दनाङ्ग्यै नमः । लैङ्गमार्गप्रपूजितायै । लोलम्बिरत्नहाराङ्ग्यै । लोलाक्ष्यै । लोकवन्दितायै । लोपामुद्रार्चितपदायै । लोपामुद्रापतीडितायै । लोभकामक्रोधमोहमदमात्सर्यवारितायै । लोहजप्रतिमायन्त्रवासिन्यै । लोकरञ्जिन्यै । लोकवेद्यायै । लोलडोलास्थितशम्भुविहारिण्यै । लोलजिह्वापरीताङ्ग्यै । लोकसंहारकारिण्यै । लौकिकीज्याविदूरस्थायै । लङ्केशानसुपूजितायै । लम्पटायै । लम्बिमालाभिनन्दितायै । लवलीधरायै । वक्रतुण्डप्रियायै नमः । १६० ॐ श्रीवज्रायै नमः । वधूट्यै । वनवासिन्यै । वध्वै । वचनसन्तुष्टायै । वत्सलायै । वटुभैरव्यै । वटमूलनिवासार्धायै । वरवीराङ्गनावृतायै । वनितायै । वर्धन्यै । वर्ष्यायै । वरालीरागलोलुपायै । वलयीकृतमाहेशकरसौवर्णकन्धरायै । वराङ्ग्यै । वसुधायै । वप्रकेलिन्यै । वणिजा(जां)वरायै । वपुरायितश्रीचक्रायै । वरदायै नमः । १८० ॐ श्रीवरवर्णिन्यै नमः । वराहवदनाराध्यायै । वर्णपञ्चदशात्मिकायै । वसिष्ठार्च्यायै । वल्कलान्तर्हितरम्यस्तनद्वय्यै । वशिन्यै । वल्लक्यै । वर्णायै । वर्षाकालप्रपूजितायै । वल्ल्यै । वसुदलप्रान्तवृत्तकट्याश्रितादरायै । वर्गायै । वरवृषारूढायै । वषण्मन्त्रसुसंज्ञकायै । वलयाकारवैडूर्यवरकङ्कणभूषणायै । वज्राञ्चितशिरोभूषायै । वज्रमाङ्गल्यभूषितायै । वाग्वादिन्यै । वामकेश्यै । वाचस्पतिवरप्रदायै नमः । २०० ॐ श्रीवादिन्यै नमः । वागधिष्ठात्र्यै । वारुण्यै । वायुसेवितायै । वात्स्यायनसुतन्त्रोक्तायै । वाण्यै । वाक्यपदार्थजायै । वाद्यघोषप्रियायै । वाद्यवृन्दारम्भनटोत्सुकायै । वापीकूपसमीपस्थायै । वार्ताल्यै । वामलोचनायै । वास्तोष्पतीड्यायै । वामाङ्घ्रिधृतनूपुरशोभितायै । वामायै । वाराणसीक्षेत्रायै । वाडवेयवरप्रदायै । वामाङ्गायै । वाञ्छितफलदात्र्यै । वाचालखण्डितायै नमः । २२० ॐ श्रीवाच्यवाचकवाक्यार्थायै नमः । वामनायै । वाजिवाहनायै । वासुकीकण्ठभूषाढ्यवामदेवप्रियाङ्गनायै । विजयायै । विमलायै । विश्वायै । विग्रहायै । विधृताङ्कुशायै । विनोदवनवास्तव्यायै । विभक्ताण्डायै । विधीडितायै । विक्रमायै । विषजन्तुघ्न्यै । विश्वामित्रवरप्रदायै । विश्वम्भरायै । विष्णुशक्त्यै । विजिज्ञासाविचक्षणायै । विटङ्कत्यागराजेन्द्रपीठसंस्थायै । विधीडितायै नमः । २४० ॐ श्रीविदितायै नमः । विश्वजनन्यै । विस्तारितचमूबलायै । विद्याविनयसम्पन्नायै । विद्याद्वादशनायिकायै । विभाकरायै । अत्यर्बुदाभायै । विधात्र्यै । विन्ध्यवासिन्यै । विरूपाक्षसख्यै । विश्वनाथवामोरुसंस्थितायै । विशल्यायै । विशिखायै । विघ्नायै । विप्ररूपायै । विहारिण्यै । विनायकगुहक्रीडायै । विशालाक्ष्यै । विरागिण्यै । विपुलायै नमः । २६० ॐ श्रीविश्वरूपाख्यायै नमः । विषघ्न्यै । विश्वभामिन्यै । विशोकायै । विरजायै । विप्रायै । विद्युल्लेखेव भासुरायै । विपरीतरतिप्रीतपत्यै । विजयसंयुतायै । विरिञ्चिविष्णुवनिताधृतचामरसेवितायै । वीरपानप्रियायै । वीरायै । वीणापुस्तकधारिण्यै । वीरमार्तण्डवरदायै । वीरबाहुप्रियङ्कर्यै । वीराष्टाष्टकपरीतायै । वीरशूरजनप्रियायै । वीजितश्रीचामरधृल्लक्ष्मीवाणीनिषेवितायै । वीरलक्ष्म्यै । वीतिहोत्रनिटिलायै नमः । २८० ॐ श्रीवीरभद्रकायै नमः । वृक्षराजसुमूलस्थायै । वृषभध्वजलाञ्छनायै । वृषाकपाय्यै । वृत्तज्ञायै । वृद्धायै । वृत्तान्तनायिकायै । वृवॄवर्णाङ्गविन्यासायै । वेणीकृतशिरोरुहायै । वेदिकायै । वेदविनुतायै । वेतण्डकृतवाहनायै । वेदमात्रे । वेगहन्त्र्यै । वेतसीगृहमध्यगायै । वेतालनटनप्रीतायै । वेङ्कटाद्रिनिवासिन्यै । वेणुवीणामृदङ्गादिवाद्यघोषविशारदायै । वेषिण्यै । वैनतेयानुकम्पिन्यै नमः । ३०० ॐ श्रीवैरिनाशिन्यै नमः । वैनायक्यै । वैद्यमात्रे । वैष्णव्यै । वैणिकस्वनायै । वैजयन्तीष्टवरदायै । वैकुण्ठवरसोदर्यै । वैशाखपूजितायै । वैश्यायै । वैदेह्यै । वैद्यशासिन्यै । वैकुण्ठायै । वैजयन्तीड्यायै । वैयाघ्रमुनिसेवितायै । वैहायसीनटीरासायै । वौषट्श्रौषट्स्वरूपिण्यै । वन्दितायै । वङ्गदेशस्थायै । वंशीगानविनोदिन्यै । वम्र्यादिरक्षिकायै नमः । ३२० ॐ श्रीवङ्क्र्यै नमः । वन्दारुजनवत्सलायै । वन्दिताखिललोकश्रियै । वक्षःस्थलमनोहरायै । शर्वाण्यै । शरभाकारायै । शप्तजन्मानुरागिण्यै । शक्वर्यै । शमिताघौघायै । शक्तायै । शतकरार्चितायै । शच्यै । शरावत्यै । शक्रसेव्यायै । शयितसुन्दर्यै । शरभृते । शबर्यै । शक्तिमोहिन्यै । शणपुष्पिकायै । शकुन्ताक्ष्यै नमः । ३४० ॐ श्रीशकाराख्यायै नमः । शतसाहस्रपूजितायै । शब्दमात्रे । शतावृत्तिपूजितायै । शत्रुनाशिन्यै । शतानन्दायै । शतमुख्यै । शमीबिल्वप्रियायै । शश्यै । शनकैः पदविन्यस्तप्रदक्षिणनतिप्रियायै । शातकुम्भाभिषिक्ताङ्ग्यै । शातकुम्भस्तनद्वय्यै । शातातपमुनीन्द्रेड्यायै । शालवृक्षकृतालयायै । शासकायै । शाक्वरप्रीतायै । शालायै । शाकम्भरीनुतायै । शार्ङ्गपाणिबलायै । शास्तृजनन्यै नमः । ३६० ॐ श्रीशारदाम्बिकायै नमः । शापमुक्तमनुप्रीतायै । शाबरीवेषधारिण्यै । शाम्भव्यै । शाश्वतैश्वर्यायै । शासनाधीनवल्लभायै । शास्त्रतत्त्वार्थनिलयायै । शालिवाहनवन्दितायै । शार्दूलचर्मवास्तव्यायै । शान्तिपौष्टिकनायिकायै । शान्तिदायै । शालिदायै । शापमोचिन्यै । शाडवप्रियायै । शारिकायै । शुकहस्तोर्ध्वायै । शाखानेकान्तरश्रुतायै । शाकलादिमऋक्शाखामन्त्रकीर्तितवैभवायै । शिवकामेश्वराङ्कस्थायै । शिखण्डिमहिष्यै नमः । ३८० ॐ श्रीशिवायै नमः । शिवारम्भायै । शिवाद्वैतायै । शिवसायुज्यदायिन्यै । शिवसङ्कल्पमन्त्रेड्यायै । शिवेन सह मोदितायै । शिरीषपुष्पसङ्काशायै । शितिकण्ठकुटुम्बिन्यै । शिवमार्गविदां श्रेष्ठायै । शिवकामेशसुन्दर्यै । शिवनाट्यपरीताङ्ग्यै । शिवज्ञानप्रदायिन्यै । शिवनृत्तसदालोकमानसायै । शिवसाक्षिण्यै । शिवकामाख्यकोष्ठस्थायै । शिशुदायै । शिशुरक्षक्यै । शिवागमैकरसिकायै । शिक्षितासुरकन्यकायै । शिल्पिशालाकृतावासायै नमः । ४०० ॐ श्रीशिखिवाहायै नमः । शिलामय्यै । शिंशपावृक्षफलवद्भिन्नानेकारिमस्तकायै । शिरःस्थितेन्दुचक्राङ्कायै । शितिकुम्भसुमप्रियायै । शिञ्जन्नूपुरभूषात्तकृतमन्मथभेरिकायै । शिवेष्टायै । शिबिकारूढायै । शिवारावाभयङ्कर्यै । शिरोर्ध्वनिलयासीनायै । शिवशक्त्यैक्यरूपिण्यै । शिवासनसमाविष्टायै । शिवार्च्यायै । शिववल्लभायै । शिवदर्शनसन्तुष्टायै । शिवमन्त्रजपप्रियायै । शिवदूत्यै । शिवायै । अनन्यायै । शिवासनसमन्वितायै नमः । ४२० ॐ श्रीशिष्याचरितशैलेशायै नमः । शिवगानविगायिन्यै । शिवशैलकृतावासायै । शिवाम्बायै । शिवकोमलायै । शिवगङ्गासरस्तीरप्रत्यङ्मन्दिरवासिन्यै । शिवाक्षरारम्भपञ्चदशाक्षरमनुप्रियायै । शिखादेव्यै । शिवाभिन्नायै । शिवतत्त्वविमर्शिन्यै । शिवालोकनसन्तुष्टायै । शिवार्धाङ्गसुकोमलायै । शिवरात्रिदिनाराध्यायै । शिवस्य हृदयङ्गमायै । शिवरूपायै । शिवपरायै । शिववाक्यार्थबोधिन्यै । शिवार्चनरतायै । शिल्पलक्षणायै । शिल्पिसेवितायै नमः । ४४० ॐ श्रीशिवागमरहस्योक्त्या शिवोऽहम्भावितान्तरायै नमः । शिम्बीजश्रवणानन्दायै । शिमन्तर्नाममन्त्रराजे । शीकारायै । शीतलायै । शीलायै । शीतपङ्कजमध्यगायै । शीतभीरवे । शीघ्रगन्त्र्यै । शीर्षकायै । शीकरप्रभायै । शीतचामीकराभासायै । शीर्षोद्धूपितकुन्तलायै । शीतगङ्गाजलस्नातायै । शुका(क्रा)राधितचक्रगायै । शुक्रपूज्यायै । शुच्यै । शुभ्रायै । शुक्तिमुक्तायै । शुभप्रदायै नमः । ४६० ॐ श्रीशुच्यन्तरङ्गायै नमः । शुद्धाङ्ग्यै । शुद्धायै । शुक्यै । शुचिव्रतायै । शुद्धान्तायै । शूलिन्यै । शूर्पकर्णाम्बायै । शूरवन्दितायै । शून्यवादिमुखस्तम्भायै । शूरपद्मारिजन्मभुवे । श‍ृङ्गाररससम्पूर्णायै । श‍ृङ्गिण्यै । श‍ृङ्गघोषिण्यै । श‍ृङ्गाभिषिक्तसुशिरसे । श‍ृङ्ग्यै । श‍ृङ्खलदोर्भटायै । शॄश्लृरूपायै । शेषतल्पभागिन्यै । शेखरोडुपायै नमः । ४८० ॐ श्रीशोणशैलकृतावासायै नमः । शोकमोहनिवारिण्यै । शोधन्यै । शोभनायै । शोचिष्केशतेजःप्रदायिन्यै । शौरिपूज्यायै । शौर्यवीर्यायै । शौक्तिकेयसुमालिकायै । श्रियै । श्रीधनसम्पन्नायै । श्रीकण्ठस्वकुटुम्बिन्यै । श्रीमात्रे । श्रीफल्यै । श्रीलायै । श्रीवृक्षायै । श्रीपतीडितायै । श्रीसंज्ञायुतताम्बूलायै । श्रीमत्यै । श्रीधराश्रयायै । श्रीबेरबद्धमालाढ्यायै नमः । ५०० ॐ श्रीश्रीफलायै नमः । श्रीशिवाङ्गनायै । श्रुत्यै । श्रुतिपदन्यस्तायै । श्रुतिसंस्तुतवैभवायै । श्रूयमाणचतुर्वेदायै । श्रेणिहंसनटाङ्घ्रिकायै । श्रेयस्यै । श्रेष्ठिधनदायै । श्रोणानक्षत्रदेवतायै । श्रोणिपूज्यायै । श्रोत्रकान्तायै । श्रोत्रे श्रीचक्रभूषितायै । श्रौषड्रूपायै । श्रौतस्मार्तविहितायै । श्रौतकामिन्यै । शम्बरारातिसम्पूज्यायै । शङ्कर्यै । शम्भुमोहिन्यै । षष्ठ्यै नमः । ५२० ॐ श्रीषडाननप्रीतायै नमः । षट्कर्मनिरतस्तुतायै । षट्शास्त्रपारसन्दर्शायै । षष्ठस्वरविभूषितायै । षट्कालपूजानिरतायै । षण्ढत्वपरिहारिण्यै । षड्रसप्रीतरसनायै । षड्ग्रन्थिविनिभेदिन्यै । षडभिज्ञमतध्वंस्यै । षड्जसंवादिवाहितायै । षट्त्रिंशत्तत्त्वसम्भूतायै । षण्णवत्युपशोभितायै । षण्णवतितत्त्वनित्यायै । षडङ्गश्रुतिपारदृशे । षाण्डदेहार्धभागस्थायै । षाड्गुण्यपरिपूरितायै । षोडशाक्षरमन्त्रार्थायै । षोडशस्वरमातृकायै । षोढाविभक्तषोढार्णायै । षोढान्यासपरायणायै नमः । ५४० ॐ श्रीसकलायै नमः । सच्चिदानन्दायै । साध्व्यै । सारस्वतप्रदायै । सायुज्यपदवीदात्र्यै । सिंहासनेश्वर्यै । सिनीवाल्यै । सिन्धुसीमायै । सीतायै । सीमन्तिनीसुखायै । सुनन्दायै । सूक्ष्मदर्शाङ्ग्यै । सृणिपाशविधारिण्यै । सृष्टिस्थितिसंहारतिरोधानानुग्रहात्मिकायै । सेव्यायै । सेवकसंरक्षायै । सैंहिकेयग्रहार्चितायै । सोऽहम्भावैकसुलभायै । सोमसूर्याग्निमण्डनायै । सौःकाररूपायै नमः । ५६० ॐ श्रीसौभाग्यवर्धिन्यै नमः । संविदाकृत्यै । संस्कृतायै । संहितायै । सङ्घायै । सहस्रारनटाङ्गनायै । हकारद्वयसन्दिग्धमध्यकूटमनुप्रभायै । हयग्रीवमुखाराध्यायै । हरिर्हरपतिव्रतायै । हादिविद्यायै । हास्यभस्मीकृतत्रिपुरसुन्दर्यै । हाटकश्रीसभानाथायै । हिङ्कारमन्त्रचिन्मय्यै । हिरण्मयपु(प)राकोशायै । हिमायै । हीरककङ्कणायै । ह्रीङ्कारत्रयसम्पूर्णायै । ह्लीङ्कारजपसौख्यदायै । हुताशनमुखाराध्यायै । हुङ्कारहतकिल्बिषायै नमः । ५८० ॐ श्रीहूं पृच्छा(ष्टा)नेकविज्ञप्त्यै नमः । हृदयाकारताण्डवायै । हृद्ग्रन्थिभेदिकायै । हृह्लृमन्त्रवर्णस्वरूपिण्यै । हेमसभामध्यगतायै । हेमायै । हैमवतीश्वर्यै । हैयङ्गवीनहृदयायै । होरायै । हौङ्काररूपिण्यै । हंसकान्तायै । हंसमन्त्रतत्त्वार्थादिमबोधिन्यै । हस्तपद्मालिङ्गिताम्रनाथायै । अनृतानृतसंवेद्यायै । अपर्णायै । अर्भकायै । आत्मजायै । आदिभूसदनाकारजानुद्वयविराजितायै । आत्मविद्यायै । इक्षुचापविधात्र्यै नमः । ६०० ॐ श्रीइन्दुकलाधरायै नमः । इन्द्राक्ष्यै । इष्टार्थदायै । इन्द्रायै । इरम्मदसमप्रभायै । ईकारचतुरोपेतायै । ईशताण्डवसाक्षिण्यै । उमायै । उग्रभैरवाकारायै । ऊर्ध्वरेतोव्रताङ्गनायै । ऋषिस्तुतायै । ऋतुमत्यै । ऋजुमार्गप्रदर्शिन्यै । ॠजुवादनसन्तुष्टायै । ऌॡवर्णमनुस्वनायै । एधमानप्रभायै । एलायै । एकान्तायै । एकपाटलायै । एत्यक्षरद्वितीयाङ्ककादिविद्यास्वरूपिण्यै नमः । ६२० ॐ श्रीऐन्द्रायै नमः । ऐश्वर्यदायै । ओजायै । ओङ्कारार्थप्रदर्शिन्यै । औषधायितसाहस्रनाममन्त्रकदम्बकायै । अम्बायै । अम्भोजनिलयायै । अंशभूतान्यदेवतायै । अर्हणायै । आहवनीयाग्निमध्यगायै । अहमितीरितायै । कल्याण्यै । कत्रयाकारायै । काञ्चीपुरनिवासिन्यै । कात्यायन्यै । कामकलायै । कालमेघाभमूर्धजायै । कान्तायै । काम्यायै । कामजातायै नमः । ६४० ॐ श्रीकामाक्ष्यै नमः । किङ्किणीयुतायै । कीनाशनायिकायै । कुब्जकन्यकायै । कुङ्कुमाकृत्यै । कुल्लुकासेतुसंयुक्तायै । कुरङ्गनयनायै । कुलायै । कूलङ्कषकृपासिन्धवे । कूर्मपीठोपरिस्थितायै । कृशाङ्ग्यै । कृत्तिवसनायै । क्लीङ्कार्यै । क्लीम्मनूदितायै । केसरायै । केलिकासारायै । केतकीपुष्पभासुरायै । कैलासवासायै । कैवल्यपदसञ्चारयोगिन्यै । कोशाम्बायै नमः । ६६० ॐ श्रीकोपरहितायै नमः । कोमलायै । कौस्तुभान्वितायै । कौशिक्यै । कंसदृष्टाङ्ग्यै । कञ्चुक्यै । कर्मसाक्षिण्यै । क्षमायै । क्षान्त्यै । क्षितीशार्च्यायै । क्षीराब्धिकृतवासिन्यै । क्षुरिकास्त्रायै । क्षेत्रसंस्थायै । क्षौमाम्बरसुशुभ्रगायै । खवासायै । खण्डिकायै । खाङ्ककोटिकोटिसमप्रभायै । खिलर्क्सूक्तजपासक्तायै । खेटग्रहार्चितान्तरायै । खण्डितायै नमः । ६८० ॐ श्रीखण्डपरशुसमाश्लिष्टकलेवरायै नमः । गव्य(गवय)श‍ृङ्गाभिषिक्ताङ्ग्यै । गवाक्ष्यै । गव्यमज्जनायै । गणाधिपप्रसुवे । गम्यायै । गायत्र्यै । गानमालिकायै । गार्हपत्याग्निसम्पूज्यायै । गिरीशायै । गिरिजायै । गिरे । गीर्वाणीवीजनानन्दायै । गीतिशास्त्रानुबोधिन्यै । गुग्गुलो(लू)पेतधूपाढ्यायै । गुडान्नप्रीतमानसायै । गूढकोशान्तराराध्यायै । गूढशब्दविनोदिन्यै । गृहस्थाश्रमसम्भाव्यायै । गृहश्रेणीकृतोत्सवायै नमः । ७०० ॐ श्रीगृ-गॢ-शब्दसुविज्ञात्र्यै नमः । गेयगानविगायिन्यै । गैरिकाभरणप्रीतायै । गोमात्रे । गोपवन्दितायै । गौर्यै । गौरवत्रैपुण्ड्रायै । गङ्गायै । गन्धर्ववन्दितायै । गहनायै । गह्वराकारदहरान्तःस्थितायै । घटायै । घटिकायै । घनसारादिनीराजनसमप्रभायै । घारिपूज्यायै । घुसृणाभायै । घूर्णिताशेषसैनिकायै । घृ-घॄ-घॢ-स्वरसम्पन्नायै । घोरसंसारनाशिन्यै । घोषायै नमः । ७२० ॐ श्रीघौषाक्तखड्गास्त्रायै नमः । घण्टामण्डलमण्डितायै । ङकारायै । चतुरायै । चक्र्यै । चामुण्डायै । चारुवीक्षणायै । चिन्तामणिमनुध्येयायै । चित्रायै । चित्रार्चितायै । चित्यै । चिदानन्दायै । चित्रिण्यै । चिच्चिन्त्यायै । चिदम्बरेश्वर्यै । चीनपट्टांशुकालेपकटिदेशसमन्वितायै । चुलुकीकृतवाराशिमुनिसेवितपादुकायै । चुम्बितस्कन्दविघ्नेशपरमेशप्रियंवदायै । चूलिकायै । चूर्णिकायै नमः । ७४० ॐ श्रीचूर्णकुन्तलायै नमः । चेटिकाऽऽवृतायै । चैत्र्यै । चैत्ररथारूढायै । चोलभूपालवन्दितायै । चोरितानेकहृत्पद्मायै । चौक्षायै । चन्द्रकलाधरायै । चर्मकृष्णमृगाधिष्ठायै । छत्रचामरसेवितायै । छान्दोग्योपनिषद्गीतायै । छादिताण्डस्वशाम्बर्यै । छान्दसानां स्वयंव्यक्तायै । छायामार्ताण्डसेवितायै । छायापुत्रसमाराध्यायै । छिन्नमस्तावरप्रदायै । जयदायै । जगतीकन्दायै । जटाधरधृतायै । जयायै नमः । ७६० ॐ श्रीजाह्नव्यै नमः । जातवेदाख्यायै । जापकेष्टहितप्रदायै । जालन्धरासनासीनायै । जिगीषायै । जितसर्वभुवे । जिष्णवे । जिह्वाग्रनिलयायै । जीवन्यै । जीवकेष्टदायै । जुगुप्साढ्यायै । जूत्यै । जूर्णायै । जृम्भकासुरसूदिन्यै । जैत्र्यै । जैवातृकोत्तंसायै । जोटिङ्गायै । जोषदायिन्यै । झञ्झानिलमहावेगायै । झषायै नमः । ७८० ॐ श्रीझर्झरघोषिण्यै नमः । झिण्टीसुमपरप्रेमिणे / प्रीतायै । झिल्लिकाकेलिलालितायै । टङ्कहस्तायै । टङ्कितज्यायै । टिट्टरीवाद्यसुप्रियायै । टिट्टिभासनहृत्संस्थायै । ठवर्गचतुराननायै । डमड्डमरुवाद्यूर्ध्वायै । णकाराक्षररूपिण्यै । तत्त्वज्ञायै । तरुण्यै । सेव्यायै । तप्तजाम्बूनदप्रभायै । तत्त्वपुस्तोल्लसत्पाण्यै । तपनोडुपलोचनायै । तार्तीयभूपुरात्मस्वपादुकायै । तापसेडितायै । तिलकायितसर्वेशनिटिलेक्षणशोभनायै । तिथिस्तिल्लवनान्तःस्थायै नमः । ८०० ॐ श्रीतीक्ष्णायै नमः । तीर्थान्तलिङ्गयुजे । तुलस्यै । तुरगारूढायै । तूलिन्यै । तूर्यवादिन्यै । तृप्तायै । तृणीकृतारातिसेनासङ्घमहाभटायै । तेजिनीवनमायूर्यै । तैलाद्यैरभिषेचितायै । तोरणाङ्कितनक्षत्रायै । तोटकीवृत्तसन्नुतायै । तौणीरपुष्पविशिखायै । तौर्यत्रिकसमन्वितायै । तन्त्रिण्यै । तर्कशास्त्रज्ञायै । तर्कवार्ताविदूरगायै । तर्जन्यङ्गुष्ठसंलग्नमुद्राञ्चितकराब्जिकायै । थकारिण्यै । थां थीं थों थैं कृतलास्यसमर्थकायै नमः । ८२० ॐ श्रीदशाश्वरथसंरूढायै नमः । दक्षिणामूर्तिसंयुगायै । दशबाहुप्रियायै । दह्रायै । दशाशाशासनेडितायै । दारकायै । दारुकारण्यवासिन्यै । दिग्विलासिन्यै । दीक्षितायै । दीक्षिताराध्यायै । दीनसन्तापनाशिन्यै । दीपाग्रमङ्गलायै । दीप्तायै । दीव्यद्ब्रह्माण्डमेखलायै । दुरत्ययायै । दुराराध्यायै । दुर्गायै । दुःखनिवारिण्यै । दूर्वासतापसाराध्यायै । दूत्यै नमः । ८४० ॐ श्रीदूर्वाप्रियप्रसुवे नमः । दृष्टान्तरहितायै । देवमात्रे । दैत्यविभञ्जिन्यै । दैविकागारयन्त्रस्थायै । दोर्द्वन्द्वातीतमानसायै । दौर्भाग्यनाशिन्यै । दौत्यै । दौवारिकनिधिद्वय्यै । दण्डिनीमन्त्रिणीमुख्यायै । दहराकाशमध्यगायै । दर्भारण्यकृतावासायै । दह्रविद्याविलासिन्यै । धन्वन्तरीड्यायै । धनदायै । धारासाहस्रसेचनायै । धेनुमुद्रायै । धेनुपूज्यायै । धैर्यायै । धौम्यनुतिप्रियायै नमः । ८६० ॐ श्रीनमितायै नमः । नगरावासायै । नट्यै । नलिनपादुकायै । नकुल्यै । नाभिनालाग्रायै । नाभावष्टदलाब्जिन्यै । नारिकेलामृतप्रीतायै । नारीसम्मोहनाकृत्यै । निगमाश्वरथारूढायै । नीललोहितनायिकायै । नीलोत्पलप्रियायै । नीलायै । नीलाम्बायै । नीपवाटिकायै । नुतकल्याणवरदायै । नूतनायै । नृपपूजितायै । नृहरिस्तुतहृत्पूर्णायै । नृत्तेश्यै नमः । ८८० ॐ श्रीनृत्तसाक्षिण्यै नमः । नैगमज्ञानसंसेव्यायै । नैगमज्ञानदुर्लभायै । नौकारूढेशवामोरुवीक्षितस्थिरसुन्दर्यै । नन्दिविद्यायै । नन्दिकेशविनुतायै । नन्दनाननायै । नन्दिन्यै । नन्दजायै । नम्यायै । नन्दिताशेषभूपुरायै । नर्मदायै । परमाद्वैतभावितायै । परिपन्थिन्यै । परायै । परीतदिव्यौघायै । परशम्भुपुरन्ध्रिकायै । पथ्यायै । परब्रह्मपत्न्यै । पतञ्जलिसुपूजितायै नमः । ९०० ॐ श्रीपद्माक्ष्यै नमः । पद्मिन्यै । पद्मायै । परमायै । पद्मगन्धिन्यै । पयस्विन्यै । परेशानायै । पद्मनाभसहोदर्यै । परार्धायै । परमैश्वर्यकारणायै । परमेश्वर्यै । पातञ्जलाख्यकल्पोक्तशिवावरणसंयुतायै । पाशकोदण्डसुमभृते । पारिपार्श्वकसन्नुतायै । पिञ्छा(ञ्जा)विलेपसुमुखायै । पितृतुल्यायै । पिनाकिन्यै । पीतचन्दनसौगन्धायै । पीताम्बरसहोद्भवायै । पुण्डरीकपुरीमध्यवर्तिन्यै नमः । ९२० ॐ श्रीपुष्टिवर्धिन्यै नमः । पूरयन्त्यै । पूर्यमाणायै । पूर्णाभायै । पूर्णिमान्तरायै । पृच्छामात्रातिशुभदायै । पृथ्वीमण्डलशासिन्यै । पृतनायै । पेशलायै । पेरुमण्डलायै । पैत्ररक्षक्यै । पौष्यै । पौण्ड्रेक्षुकोदण्डायै । पञ्चपञ्चाक्षर्यै । मनवे । पञ्चमीतिथिसम्भाव्यायै । पञ्चकोशान्तरस्थितायै । फणाधिपसमाराध्यायै । फणामणिविभूषितायै । बकपुष्पकृतोत्तंसायै नमः । ९४० ॐ श्रीबगलायै नमः । बलिन्यै । बलायै । बालार्कमण्डलाभासायै । बालायै । बालविनोदिन्यै । बिन्दुचक्रशिवाङ्कस्थायै । बिल्वभूषितमूर्धजायै । बीजापूरफलासक्तायै । बीभत्सावहदृक्त्रय्यै । बुभुक्षावर्जितायै । बुद्धिसाक्षिण्यै । बुधवर्षकायै । बृहत्यै । बृहदारण्यनुतायै । बृहस्पतीडितायै । बेराख्यायै । बैन्दवाकारवैरिञ्चसुषिरान्तरायै । बोद्ध्र्यै । बोधायनायै नमः । ९६० ॐ श्रीबौद्धदर्शनायै नमः । बन्धमोचन्यै । भट्टारिकायै । भद्रकाल्यै । भारतीभायै । भिषग्वरायै । भित्तिकायै । भिन्नदैत्याङ्गायै । भिक्षाटनसहानुगायै । भीषणायै । भीतिरहितायै । भुवनत्रयशङ्करायै । भूतघ्न्यै । भूतदमन्यै । भूतेशालिङ्गनोत्सुकायै । भूतिभूषितसर्वाङ्ग्यै । भृग्वङ्गिरमुनिप्रियायै । भृङ्गिनाट्यविनोदज्ञायै । भैरवप्रीतिदायिन्यै । भोगिन्यै नमः । ९८० ॐ श्रीभोगशमन्यै नमः । भोगमोक्षप्रदायिन्यै । भौमपूज्यायै । भण्डहन्त्र्यै । भग्नदक्षक्रतुप्रियायै । मकारपञ्चम्यै । मह्यायै । मदन्यै । मकरध्वजायै । मत्स्याक्ष्यै । मधुरावासायै । मन्वश्रहृदयाश्रयायै । मार्ताण्डविनुतायै । माणिभद्रेड्यायै । माधवार्चितायै । मायायै । मारप्रियायै । मारसखीड्यायै । माधुरीमनसे । माहेश्वर्यै नमः । १००० ॐ श्रीमाहिषघ्न्यै नमः । मिथ्यावादप्रणाशिन्यै । मीनाक्ष्यै । मीनसंसृष्टायै । मीमांसाशास्त्रलोचनायै । मुग्धाङ्ग्यै । मुनिवृन्दार्च्यायै । मुक्तिदायै । मूलविग्रहायै । मूषिकारूढजनन्यै । मूढभक्तिमदर्चितायै । मृत्युञ्जयसत्यै । मृग्यायै । मृगालेपनलोलुपायै । मेधाप्रदायै । मेखलाढ्यायै । मेघवाहनसेवितायै । मेनाऽऽत्मजायै । मैथिलीशकृतार्चनपदाम्बुजायै । मैत्र्यै नमः । १०२० ॐ श्रीमैनाकभगिन्यै नमः । मोहजालप्रणाशिन्यै । मोदप्रदायै । मौलिगेन्दुकलाधरकिरीटभाजे । मौहूर्तलग्नवरदायै । मञ्जीरायै । मञ्जुभाषिण्यै । मर्मज्ञात्र्यै । महादेव्यै । यमुनायै । यज्ञसम्भवायै । यातनारहितायै । यानायै । यामिनीपूजकेष्टदायै । युक्तायै । यूपायै । यूथिकार्च्यायै । योगायै । योगेशयोगदायै । रथिन्यै नमः । १०४० ॐ श्रीरजन्यै नमः । रत्नगर्भायै । रक्षितभूरुहायै । रमायै । रसक्रियायै । रश्मिमालासन्नुतवैभवायै । रक्तायै । रसायै । रत्यै । रथ्यायै । रणन्मञ्जीरनूपुरायै । रक्षायै । रविध्वजाराध्यायै । रमण्यै । रविलोचनायै । रसज्ञायै । रसिकायै । रक्तदन्तायै । रक्षणलम्पटायै । रक्षोघ्नजपसन्तुष्टायै नमः । १०६० ॐ श्रीरक्ताङ्गापाङ्गलोचनायै नमः । रत्नद्वीपवनान्तःस्थायै । रजनीशकलाधरायै । रत्नप्राकारनिलयायै । रणमध्यायै । रमार्थदायै । रजनीमुखसम्पूज्यायै । रत्नसानुस्थितायै । रय्यै नमः । १०६९ ॥ इति श्रीयोगनायिका अथवा श्रीराजराजेश्वरी सहस्रनामावलिः समाप्ता ॥

श्री योगनायिका (राजराजेश्वरी) सहस्रनामावलिः — परिचय

श्री योगनायिका अथवा राजराजेश्वरी सहस्रनामावलिः शाक्त परम्परा और श्री विद्या (Sri Vidya) के उपासकों के लिए एक अत्यंत दुर्लभ, रहस्यमयी और शक्तिशाली अर्चन-स्तोत्र है। इस नामावली में माँ ललिता महात्रिपुरसुन्दरी, जिन्हें 'राजराजेश्वरी' (सभी राजाओं और सम्राटों की ईश्वरी) कहा जाता है, के 1069 विशिष्ट नामों का संग्रह है। प्रत्येक नाम के अंत में 'नमः' शब्द जुड़ा है, जो इसे केवल पाठ के लिए नहीं, बल्कि कुमकुम अर्चना (Kumkum Archana) या पुष्प अर्चना के लिए सबसे उपयुक्त बनाता है।
'योगनायिका' का अर्थ है वह जो सभी योगों (हठ योग, राज योग, कुण्डलिनी योग) की अधिष्ठात्री और सर्वोच्च संचालिका हैं। जब साधक कुण्डलिनी जागरण का प्रयास करता है, तो मूलाधार से लेकर सहस्रार तक की यात्रा में जो ऊर्जा मार्गदर्शन करती है, वह 'योगनायिका' राजराजेश्वरी ही हैं। इस नामावली में परब्रह्म स्वरूपा देवी के अनंत गुणों, उनके शृंगारिक स्वरूप, उनके युद्ध कौशल (भण्डासुर वध), और श्री चक्र में उनके निवास का तांत्रिक और दार्शनिक वर्णन किया गया है।
यह नामावली अक्षर-क्रम (Alphabetical Order) में भी गुंथी हुई पाई जाती है, जिसमें 'राकारादिरकारान्ताद्याक्षरघटितम्' अर्थात् 'र' अक्षर से शुरू होने वाले और उसी से समाप्त होने वाले अनेक बीज मंत्रों और नामों का गुह्य रहस्य छिपा है। जो साधक श्री चक्र (Sri Chakra) के नव-आवरणों की पूजा करते हैं, उनके लिए यह सहस्रनामावली महा-अर्चन का मुख्य आधार है। यह केवल एक स्तुति नहीं है, बल्कि प्रत्येक नाम एक स्वतंत्र मंत्र है जो ब्रह्मांडीय ऊर्जा को आकर्षित करने और भौतिक तथा आध्यात्मिक दोनों प्रकार के ऐश्वर्य प्रदान करने में सक्षम है।

अर्चन नामावली का विशिष्ट महत्व

'स्तोत्र' और 'नामावली' में एक सूक्ष्म अंतर होता है। स्तोत्र काव्यात्मक होता है जिसे गाया या पढ़ा जाता है, जबकि नामावली को देवता को कोई भौतिक वस्तु (पुष्प, कुमकुम, अक्षत) अर्पण करते समय उच्चारित किया जाता है। श्री राजराजेश्वरी सहस्रनामावली का अपना एक तांत्रिक महत्व है:
  • श्री चक्र से सीधा संबंध: इस नामावली के कई नाम सीधे श्री यंत्र के नव-आवरणों, उनमें निवास करने वाली योगिनियों और पीठ-शक्तियों से संबंधित हैं (जैसे - ॐ श्रीचक्राङ्कितकरायै नमः, ॐ श्रीबैन्दवाकारवैरिञ्चसुषिरान्तरायै नमः)।
  • कुण्डलिनी जागरण: योगनायिका के रूप में देवी के नाम साधक के शरीर में स्थित छह चक्रों (षट्चक्र) और तीन ग्रंथियों (ब्रह्म, विष्णु, रुद्र ग्रंथि) को भेदने में सहायक होते हैं।
  • बीजाक्षरों की शक्ति: इसमें 'क्लीं', 'ह्रीं', 'सौः' जैसे बीज मंत्रों से जुड़े नाम हैं (ॐ श्रीक्लीङ्कार्यै नमः, ॐ श्रीह्रीङ्कारत्रयसम्पूर्णायै नमः), जो सीधे साधक के अवचेतन मन और ब्रह्मांडीय ऊर्जा को जाग्रत करते हैं।
  • राजसिक और सात्विक शक्तियों का संगम: राजराजेश्वरी के रूप में यह नामावली एक ओर अपार भौतिक धन, सत्ता और ऐश्वर्य (Rajya Lakshmi) प्रदान करती है, और दूसरी ओर मोक्ष (Kaivalya) का मार्ग प्रशस्त करती है।

नामावली अर्चन के प्रमुख लाभ (Benefits from the Names)

इस नामावली के प्रत्येक नाम में एक विशेष फल छिपा है। इसका श्रद्धापूर्वक पाठ और अर्चन करने से निम्नलिखित लाभ प्राप्त होते हैं:
  • राज-रोग और व्याधि नाश: "ॐ श्रीराजरोगनिवारिण्यै नमः" — इसके अर्चन से असाध्य और बड़े रोग (राजरोग) दूर होते हैं और साधक को उत्तम स्वास्थ्य की प्राप्ति होती है।
  • राजकीय सम्मान और सत्ता: "ॐ श्रीराजकोशसमृद्धिदायै नमः" और "ॐ श्रीराजरक्षकायै नमः" — जो व्यक्ति शासन, प्रशासन या राजनीति में है, उसे इस अर्चन से अपार सफलता, राज्य कोष की वृद्धि और शत्रुओं से रक्षा प्राप्त होती है।
  • शोक और भय का नाश: "ॐ श्रीशोकमोहनिवारिण्यै नमः" — जीवन के सभी प्रकार के शोक, भय और मोह नष्ट हो जाते हैं और साधक को मानसिक शांति मिलती है।
  • भोग और मोक्ष की प्राप्ति: "ॐ श्रीभोगमोक्षप्रदायिन्यै नमः" — यह अर्चन भौतिक संसार के सभी सुख (धन, घर, वाहन) देने के साथ-साथ अंत में परम मोक्ष (मुक्ति) भी प्रदान करता है।
  • वाक् सिद्धि और बुद्धि: "ॐ श्रीमेधाप्रदायै नमः" — विद्यार्थियों और ज्ञानार्थियों को तीव्र मेधा, स्मरण शक्ति और वाद-विवाद में विजय प्राप्त होती है।
  • शत्रु और तंत्र बाधा निवारण: "ॐ श्रीशत्रुनाशिन्यै नमः" — विरोधियों का शमन होता है और किसी भी प्रकार के काले जादू या तांत्रिक प्रयोग (अभिचार) से पूर्ण सुरक्षा मिलती है।

अर्चन (पाठ) विधि और विशेष अवसर (Ritual Method)

यह एक 'नामावली' है, इसलिए इसका उपयोग मुख्य रूप से 'अर्चन' (चढ़ाने की क्रिया) के लिए किया जाता है। श्री विद्या उपासकों के लिए इसकी विधि अत्यंत पवित्र है।

दैनिक कुमकुम अर्चन विधि

  • स्थान और आसन: पूर्व या उत्तर दिशा की ओर मुख करके लाल ऊनी आसन पर बैठें।
  • श्री यंत्र स्थापना: सामने तांबे, चांदी या सोने का श्री यंत्र (मेरु पृष्ठ या भू-पृष्ठ) स्थापित करें। यदि यंत्र न हो तो राजराजेश्वरी माता का चित्र रखें।
  • सामग्री: एक पात्र में शुद्ध और सुगन्धित लाल कुमकुम (रोली), या लाल पुष्प (गुड़हल, कमल) और बिल्व पत्र रखें।
  • अर्चन प्रक्रिया: संकल्प लेने के बाद, नामावली का उच्चारण शुरू करें। प्रत्येक नाम के अंत में "नमः" बोलते हुए अनामिका (Ring finger), मध्यमा (Middle finger) और अंगूठे (Thumb) की सहायता से थोड़ा सा कुमकुम या एक पुष्प श्री यंत्र या माता के चित्र पर अर्पित करें।
  • समापन: 1069 नामों के पूरा होने पर, उस कुमकुम को माता का प्रसाद मानकर अपने माथे पर तिलक के रूप में धारण करें।

विशेष और शुभ अवसर

  • शुक्रवार (Friday): देवी आराधना का सबसे उत्तम दिन। इस दिन लाल वस्त्र धारण करके अर्चन करना विशेष फलदायी है।
  • पूर्णिमा (Full Moon): पूर्णिमा की रात्रि (विशेषकर शरद पूर्णिमा या चैत्र पूर्णिमा) को श्री यंत्र पर कुमकुम अर्चन करने से अष्ट सिद्धियों की प्राप्ति होती है।
  • नवरात्रि और गुप्त नवरात्रि: इन 9 दिनों में प्रतिदिन इस सहस्रनामावली से अर्चन करने वाले साधक को राज-सम्मान और असीमित धन-धान्य की प्राप्ति होती है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. देवी राजराजेश्वरी कौन हैं?

देवी राजराजेश्वरी दश महाविद्याओं में तीसरी विद्या 'षोडशी' या 'त्रिपुरसुन्दरी' का सर्वोच्च स्वरूप हैं। वे मणिद्वीप (महा मेरु) की सम्राज्ञी हैं, जो ब्रह्मा, विष्णु और शिव के भी ऊपर शासन करती हैं।

2. उन्हें 'योगनायिका' क्यों कहा जाता है?

वे सभी प्रकार के योगों (अष्टांग योग, कुण्डलिनी योग) की मूल शक्ति हैं। साधक के भीतर सुषुम्ना नाड़ी में जो ऊर्जा प्रवाहित होती है, वह योगनायिका का ही स्वरूप है, जो आत्मा का परमात्मा से 'योग' (मिलन) कराती हैं।

3. स्तोत्र और नामावली में क्या अंतर है?

स्तोत्र छंदबद्ध और काव्यात्मक होता है, जिसे लय में गाया या पढ़ा जाता है (जैसे ललिता सहस्रनाम स्तोत्र)। जबकि नामावली में नामों को अलग-अलग करके उनके अंत में 'नमः' लगाया जाता है (जैसे ॐ श्रीराजराजेश्वर्यै नमः), जिसका मुख्य उद्देश्य देवता को कुमकुम या पुष्प अर्पित (Archana) करना होता है।

4. क्या मैं इस नामावली का अर्चन घर पर कर सकता हूँ?

हाँ, आप पूर्ण शुद्धि, सात्विकता और भक्ति भाव के साथ अपने घर के पूजा कक्ष में देवी के चित्र या श्री यंत्र पर कुमकुम या पुष्प से अर्चन कर सकते हैं।

5. अर्चन के लिए सबसे श्रेष्ठ सामग्री क्या है?

शास्त्रों के अनुसार, राजराजेश्वरी माता के अर्चन के लिए सुगन्धित लाल कुमकुम (रोली), लाल पुष्प (गुड़हल/जपाकुसुम, लाल कमल), बिल्व पत्र और सुगन्धित गुलाब जल सबसे उत्तम माने गए हैं।

6. क्या इस अर्चन के लिए गुरु दीक्षा अनिवार्य है?

सामान्य रूप से भक्ति भाव से अर्चन करने के लिए दीक्षा अनिवार्य नहीं है। लेकिन यदि आप इसे 'श्री विद्या साधना' के तांत्रिक और गुह्य अंग के रूप में श्री यंत्र पर कर रहे हैं, तो एक योग्य गुरु से दीक्षा और मार्गदर्शन प्राप्त करना आवश्यक है।

7. इसमें कुल कितने नाम हैं?

सहस्रनामावली का अर्थ हजार नाम होता है, लेकिन इस विशेष योगनायिका नामावली में कुल 1069 दिव्य नाम दिए गए हैं, जो अर्चन की दृष्टि से अत्यंत महत्वपूर्ण हैं।

8. 'राजरोग निवारिणी' नाम का क्या तात्पर्य है?

आयुर्वेद और तंत्र में 'राजरोग' उन गंभीर और असाध्य बीमारियों (जैसे क्षय रोग/TB, कैंसर आदि) को कहा जाता है जिनका उपचार कठिन होता है। देवी इस नाम के अर्चन से बड़ी से बड़ी व्याधियों को नष्ट कर देती हैं।

9. अर्चन का सबसे उत्तम समय क्या है?

अर्चन का सबसे उत्तम समय प्रातःकाल (ब्रह्म मुहूर्त) या गोधूलि वेला (सूर्यास्त का समय) है। विशेष सिद्धियों के लिए इसे मध्यरात्रि (निशीथ काल) में भी किया जाता है।

10. बचे हुए कुमकुम का क्या करना चाहिए?

अर्चन के बाद श्री यंत्र या चित्र पर चढ़े हुए कुमकुम को एक डिब्बी में इकट्ठा कर लें। यह एक सिद्ध और प्राण-प्रतिष्ठित कुमकुम बन जाता है। इसे प्रतिदिन अपने माथे पर तिलक के रूप में लगाएँ; यह आकर्षण बढ़ाता है और संकटों से रक्षा करता है।