Logoपवित्र ग्रंथ

Sri Rajarajeshwari Kavacham – श्रीराजराजेश्वरीकवचम् (गन्धर्व तंत्र)

Sri Rajarajeshwari Kavacham – श्रीराजराजेश्वरीकवचम् (गन्धर्व तंत्र)
॥ अथ चतुर्थः पटलः ॥ पार्वती उवाच- देवदेव महादेव लोकानां हितकारक । यत् सूचितं पुरा नाथ किमर्थं न प्रकाशितम् ॥ १ ॥ राजराजेश्वरीदेव्यास्त्रिपुरायाः शुभावहम् । कवचं यदि मे प्रीतः कथयस्व वृषध्वज ॥ २ ॥ ईश्वर उवाच- लक्षवारसहस्राणि वारितासि पुनः पुनः । स्त्रीस्वभावान्महादेवि ! पुनस्त्वं परिपृच्छसि ॥ ३ ॥ अत्यन्तं दुर्लभं गुह्यं कवचं सर्वकामदम् । तथापि कथयाम्यद्य तव प्रीत्या वरानने ॥ ४ ॥ त्रैलोक्यमोहनं नाम त्रिषु लोकेषु दुर्लभम् । सर्वसौभाग्यजननं भोगमोक्षफलप्रदम् ॥ ५ ॥ यत् कृत्वा दानवान् विष्णुर्निजघान सुदारुणान् । लोकान् वितनुते ब्रह्मा संहर्ताऽहं यतः प्रिये ॥ ६ ॥ धनाधिपः कुबेरोऽपि यतः सर्वे दिगीश्वराः । नैतत् परतरं गुह्यं प्रतिजानीहि पार्वति ॥ ७ ॥ वेदशास्त्रपुराणेषु सारमेतद् वरानने । पुत्रदारादिसहितं शिरो देयं कथञ्चन ॥ ८ ॥ न देयं कवचं गुह्यं प्राणैः कण्ठगतैरपि । श‍ृणु सर्वाङ्गसुभगे दिव्यं कवचमुत्तमम् ॥ ९ ॥ ॥ विनियोगः ॥ राजराजेश्वरीदेव्याः कवचस्य ऋषिः शिवः । छन्दो विराड् देवता च महात्रिपुरसुन्दरी ॥ १० ॥ हंसः शक्तिः पराबीजं रमाबीजं च कीलकम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ११ ॥ त्रिपुरा त्रिविधा पातु मम सर्वार्थसिद्धये । ऐं क्लीं सौः वदने बाला पातु सर्वार्थसिद्धिदा ॥ १२॥ कण्ठं पातु महादेवी श्रीमत्त्रिपुरभैरवी । हृदयेऽव्यान्महेशानी महात्रिपुरसुन्दरी ॥ १३॥ राजराजेश्वरी विद्या षोडशी या महोदया । ब्रह्मरन्ध्रे सदा पातु कमला परमेश्वरी ॥ १४॥ गिरिराजसुता देवी पातु नित्यं च शीर्षके । कामबीजं ललाटेऽव्याद् वाग्बीजं कण्ठदेशके ॥ १५॥ सौः पातु तथा पार्श्वे प्रणवो बाहुमूलके । शम्भुप्रिया सदा पातु बाहुदक्षिणसव्ययोः ॥ १६॥ विष्णुप्रिया सदा पातु मणिबन्धद्वये तथा । पार्वतीशः करे पातु नेत्रे नक्षत्रवल्लभः ॥ १७॥ श्रोत्रे रतिप्रियः पातु घ्राणे शक्रः सदाऽवतु । पृष्ठदेशे सदा पातु पार्वती परमेश्वरी ॥ १८॥ ह्रसौः श्वासे च निःश्वासे पातां परमसिद्धिदौ । कामः कामे सदा पातु पिनाकी लिङ्गगोचरे ॥ १९॥ पृथ्वी सर्वांशके पातु हृल्लेखा हृदयेऽवतु । स्तनौ भृगुप्रिया पातु कुक्षौ च स पुरान्तकः ॥ २०॥ नेत्रे वज्रधरः पातु माया वै जठरेऽवतु । पदद्वन्द्वे च सौः पातु ऐं जिह्वानिलयेऽवतु ॥ २१॥ क्लीङ्कारः सर्वदा पातु दन्तौष्ठयोर्वरानने । शीर्षादिपादपर्यन्तं सर्वाङ्गं भुवनेश्वरी ॥ २२॥ रक्षाहीनं च यत् स्थानं वर्जितं कवचेन तु । तत् सर्वं परमेशानि ! पातु नित्यं हरिप्रिया ॥ २३॥ आधारे वाग्भवः पातु कामराजो हृदि प्रिये । शक्तिकूटं तथा पातु भ्रुवोर्मध्ये च पार्वति ॥ २४॥ शीर्षे कूटत्रयं पातु ललाटे सर्वमन्त्रकः । अष्टाविंशतिवर्णेयं मुखवृत्ते सदाऽवतु ॥ २५॥ षोडशीयं महाविद्या ब्रह्मविद्यैव केवला । भोगमोक्षप्रदा देवी केवलात्मस्वरूपिणी ॥ २६॥ कामेश्वरी ललाटेऽव्यान्मुखेषु भगमालिनी । दक्षनेत्रे सदा पातु नित्यक्लिन्ना महोदया ॥ २७॥ भेरुण्डा वामनेत्रेऽव्यात् कर्णे वै वह्निवासिनी । महाविद्येश्वरी पातु वामकर्णप्रदेशके ॥ २८॥ दक्षनासापुटे पातु शिवदूती महेश्वरी । वामनासापुटे पातु त्वरिता सर्वसिद्धिदा ॥ २९॥ दक्षगण्डे सदा पातु नित्यं मां कुलसुन्दरी । त्रैलोक्यविमला पातु वामगण्डप्रदेशके ॥ ३०॥ ओष्ठे नीलपताकाऽव्यादधरे विजयाऽवतु । ऊर्ध्वदन्ते सदा पातु देवी मां सर्वमङ्गला ॥ ३१॥ अधोदन्तप्रदेशेऽव्यान्नित्यं ज्वालांशुमालिनी । विचित्रा सर्वदा पातु नित्यं मूर्द्धनि पार्वति ॥ ३२॥ आसां प्रधानभूता या महात्रिपुरसुन्दरी । षोडशी सा सदा पातु मुखे वै परमेश्वरी ॥ ३३॥ पृष्ठदेशे सदा पान्तु गुरवस्त्रिविधाश्च ते । पादयोः सर्वदा पातु त्रिपुरा परमेश्वरी ॥ ३४॥ अनुदेशे सदा पातु देवी मां त्रिपुरेश्वरी । ऊरुद्वये सदा पातु देवी त्रिपुरसुन्दरी ॥ ३५॥ त्रिपुरवासिनी देवी कटिदेशे सदाऽवतु । त्रिपुराश्रीश्च मां नित्यं गुह्यदेशे सदाऽवतु ॥ ३६॥ मूलाधारे सदा पातु देवी त्रिपुरमालिनी । नाभौ त्रिपुरसिद्धाऽव्यात् त्रिपुरा च सदा हृदि ॥ ३७॥ ब्रह्मरन्ध्रे सदा पातु महात्रिपुरसुन्दरी । आसां तु मन्त्रबीजानि प्रोक्तस्थानेषु विन्यसेत् ॥ ३८॥ पाषण्डगणमध्ये तु बुद्धो मां परिरक्षतु । ब्रह्माऽव्याद् ब्रह्मसंहा[घा]ते शिवो मां योगसिद्धये ॥ ३९॥ ज्ञाने मां भास्करः पातु मोक्षे नारायणः प्रभुः । या शक्तिः सर्वभूतानां विद्याऽविद्येति गीयते ॥ ४०॥ सा शक्तिः सर्वदा पातु स्त्रीपुत्रधनसम्पदि । अणिमा पश्चिमे पातु लघिमा चोत्तरेऽवतु ॥ ४१॥ पूर्वतः पातु महिमा ईशित्वा दक्षिणेऽवतु । वशित्वा वायुनिलये ईशे प्राकाम्यसिद्धिदा ॥ ४२॥ भुक्तिसिद्धिस्तथाग्नेये पात्विच्छासिद्धी राक्षसे । अधः पातु प्राप्तिसिद्धिर्मोक्ष सिद्धिस्तथोर्ध्वके ॥ ४३॥ ब्रह्माणी सन्ध्ययोः पातु माहेश्वरी दिवाऽवतु । मध्याह्ने पातु कौमारी रात्रौ च शत्रुवल्लभा ॥ ४४॥ ब्राह्मे मुहूर्त्तके पातु वैष्णवी सर्वसिद्धिदा । निशीथे पातु वाराही चामुण्डा शत्रुविग्रहे ॥ ४५॥ महोत्साहे महालक्ष्मीः पातु नित्य महेश्वरी । शीर्षे सङ्क्षोभणी पातु तारिणी हृदयेऽवतु ॥ ४६॥ आकर्षणी शिखायां तु कवचे पातु वश्यदा । (आकर्षिणी) उन्मादिनी तथा नेत्रे सर्वगात्रे महाङ्कुशा ॥ ४७॥ त्रिखण्डा भुजयोः पातु बीजे बीजस्वरूपिणी । खेचरी पादयोः पातु योनिमुद्रा च सर्वतः ॥ ४८॥ स[का]माकर्षणरूपाऽव्यात् सदाऽऽकर्षणकर्मणि । बुद्ध्याकर्षणरूपाऽव्यात् परबुद्धिविकर्षणे ॥ ४९॥ अहङ्कारे सदा पातु अहङ्कारविकर्षणी । शब्दाकर्षणरूपाऽव्याच्छब्दाकर्षणकर्मणि ॥ ५०॥ स्पर्शाकर्षणरूपा मां पातु स्पर्शनकर्मणि । रूपाकर्षणरूपाऽव्यात् पररूपविकर्षणे ॥ ५१॥ रसाकर्षणरूपाऽव्याद् रसे वै परमेश्वरी । (रसाकर्षद) गन्धाकर्षणरूपा मां पातु गन्धे च सर्वदा ॥ ५२॥ चित्ताकर्षणरूपा मां पायादाकृष्टिकर्मणि । धैर्याकर्षणरूपा तु पातु धैर्यविधौ सदा ॥ ५३॥ स्मृत्याऽऽकर्षणरूपाऽव्याज्ज्ञानाकर्षणकर्मणि । नामाकर्षणरूपाऽव्यान्नामव्याहरणे सदा ॥ ५४॥ बीजाकर्षणरूपा मां सर्वबीजप्ररोपणे । परजीवाकर्षणे पातु आत्माकर्षणरूपिणी ॥ ५५॥ अमृताकर्षणी पातु अमृतीकरणी सदा । शरीराकर्षणी पातु सदा शरीररक्षणे ॥ ५६॥ अनङ्गकुसुमा पातु पुरतः सर्वकर्मणि । अनङ्गमेखला पातु पृष्ठतः परमेश्वरी ॥ ५७॥ अनङ्गमदना पातु वामतो मे महेश्वरी । दक्षिणे सर्वदा पातु अनङ्गमदनातुरा ॥ ५८॥ नित्यं चाऽनङ्गरेखाऽव्यादूर्द्ध्वं(?) मम सदा प्रिये । अनङ्गवेगिनी पातु अधो परमेश्वरी ॥ ५९॥ तथाऽनङ्गाङ्कुशा नित्यं पातु मां दिक्षु सर्वदा । अनङ्गमालिनी पातु विदिक्षु मम सर्वदा ॥ ६०॥ सर्वसङ्क्षोभणी चोर्ध्वे पातु मां जगदीश्वरी । सर्वविद्राविणी चाधो दिक्षु सर्वविकर्षिणी ॥ ६१॥ सर्वाह्लादकरी शक्तिर्विदिक्षु परिरक्षतु । सर्वसम्मोहिनी पातु समन्तात् परमेश्वरी ॥ ६२॥ अन्तर्बहिश्च मां पातु सर्वस्तम्भनकर्मणि । तथैव पातु मां नित्यमाकाशे सर्वजृम्भणी ॥ ६३॥ पाताले चैव मां पातु सर्ववश्यकरी तथा । देवलोके सदा पातु सर्वरञ्जनकारिणी ॥ ६४॥ सर्वोन्मादनशक्तिर्मां भूतले परिरक्षतु । सर्वार्थसाधनी शक्तिः पायाद् भूतगणालये ॥ ६५॥ सिद्धानामालये पातु सर्वसम्पत्तिपूरणी । राक्षसानां च यक्षाणां सर्वमन्त्रमयी गृहे ॥ ६६॥ असुराणां निवासे तु सर्वद्वन्द्वक्षयङ्करी । सर्वसिद्धिप्रदा देवी पातु राजगृहे सदा ॥ ६७॥ सर्वसम्पत्प्रदा पातु स्वगृहे सर्वसम्पदि । सर्वप्रियङ्करी पातु सर्वलोकेषु सर्वदा ॥ ६८॥ सर्वमङ्गलकार्येऽव्यात् सर्वमङ्गलकारिणी । सर्वकामप्रदा देवि ! सर्वकार्येषु सर्वदा ॥ ६९॥ ऐश्वर्ये सर्वदा पातु सर्वैश्वर्यप्रदायिनी । सर्वमृत्युप्रशमनी पायान्नित्यं यमालये ॥ ७०॥ सर्वारम्भे सदा पातु सर्वविघ्नविनाशिनी । देहसौन्दर्यकाले तु पातु सर्वाङ्गसुन्दरी ॥ ७१॥ सर्वसौभाग्यकाले तु सर्वसौभाग्यदायिनी । सर्वज्ञा च गृहे पातु सर्वशक्तिमयी रणे ॥ ७२॥ सर्वैश्वर्यप्रदा मार्गे सर्वज्ञानमयी जले । सर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥ ७३॥ पर्वते पातु प्रबला सर्वाधारस्वरूपिणी । सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥ ७४॥ सर्वानन्दकरी देवी नानासुकृतगोचरे । सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥ ७५॥ सर्वसङ्कल्पकार्येषु सर्वेप्सितफलप्रदा । वशिनी ' वश्यकार्येषु कामेशी स्तम्भनेऽवतु ॥ ७६॥ मोहने मोहिनी पातु विमलोच्चाटनेऽवतु । अरुणा पातु मां वादे जयिनी जल्पकर्मणि ॥ ७७॥ सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि । जृम्भणे सर्वदा पान्तु शराः पञ्च महेश्वरि ॥ ७८॥ धनुर्मोहविधौ पातु पाशस्तु पश्यकर्मणि । महातेजोमयः पातु स्तम्भने मां तथाऽङकुशः ॥ ७९॥ सर्वज्ञा हृदये पातु नित्यकृत्या च शीर्षके । अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥ ८०॥ कवचे मां स्वतन्त्राऽव्यान्नेत्रे नित्यमलुप्तिका । अचिन्त्यशक्तिरस्त्रेषु पायात् परमसिद्धिदा ॥ ८१॥ कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा । नित्यं पातु महेशानि श्रीकामे भगमालिनी ॥ ८२॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् । सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥ ८३॥ ईशाने वटुकः पातु आग्नेय्यां योगिनीगणः । त्वगसृङ्मासमेदोऽस्थिमज्जाशुक्राणि पान्तु नः ॥ ८४॥ क्षेत्रेशो नैरृते(?) पातु गणेशो वायुमन्दिरे । मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥ ८५॥ शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी । इतीदं कवचं देवि ! त्रिषु लोकेषु दुर्लभम् ॥ ८६॥ यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले । सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥ ८७॥ तव प्रीत्या महादेवि ! गोपनीयं प्रयत्नतः । तव नाम्नि स्मृते देवि ! सर्वयज्ञफलं लभेत् ॥ ८८॥ सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति । नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छ्रुतम् ॥ ८९॥ तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः । मन्त्राच्छतगुणं देवि ! कवचं ते मयोदितम् ॥ ९०॥ यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् । न देयं परशिष्याय कृपणाय सुरेश्वरि ॥ ९१॥ शिष्याय भक्तिहीनाय चुम्बकाय तथैव च । गुरुभक्तिविहीनाय परहिंसारताय च ॥ ९२॥ निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि । अभक्तेभ्योऽपि पुत्रेभ्यो दत्वा मृत्युमवाप्नुयात् ॥ ९३॥ यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् । तस्य नश्यन्ति देवेशि ! विद्याऽऽयुः कीर्तिसञ्चयाः ॥ ९४॥ तं हिंसन्ति च योगिन्यो मदीयशासनात् प्रिये । परे नरकमाप्नोति जन्मकोटिशतानि च ॥ ९५॥ सर्वलक्षणयुक्ताय मन्त्रयन्त्ररताय च । शिष्याय शान्तचित्ताय गुरुभक्तिरताय च ॥ ९६॥ उदके लवणं लीनं यथा भवति पार्वति । मनो भवति वै लीनं पादयोः श्रीगुरोः प्रिये ॥ ९७॥ देयं महद् गुह्यं कृपया चातिदुर्लभम् । गुरोः पादप्रसादेन श्रीविद्या यदि लभ्यते ॥ ९८॥ तथैव कवचं देवि ! त्रिषु लोकेषु दुर्लभम् । स च देवो हरः साक्षात् तत्पत्नी परमेश्वरी ॥ ९९॥ प्रमादादपि देवेशि ! श्रीगुरोर्नाम नाददेत् । यस्य भक्तिर्गुरौ नित्यं वर्तते देववत् प्रिये ॥ १००॥ तस्य मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा । कवचस्य तथा सिद्धिर्गुटिकायाश्च सुन्दरि ॥ १०१॥ इदं कवचमज्ञात्वा यो जपेत् सुन्दरी पराम् । नवलक्षं प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥ १०२॥ शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः । सर्वभूतालये सुप्ते निशायामर्द्धरात्रके ॥ १०३॥ हेतुयुक्तो महेशानि! निर्जने पशुवर्जिते । रक्तासनोपविष्टस्तु रक्ताभरणभूषितः ॥ १०४॥ ताम्बूलपूरितमुखो धूपामोदसुगन्धितः । संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् ॥ १०५॥ रक्तवस्त्रपरीधानां शिवमन्त्रधरां शुभाम् । या शक्तिः सा महादेवी हररूपस्तु साधकः ॥ १०६॥ अन्योन्यचिन्तनाद् देवि! देवत्वमुपजायते । शक्तियुक्तो यजेद् देवीं श्रीचक्रे लक्षणान्विते ॥ १०७॥ पुष्पाञ्जलित्रयं देव्यै मूलमन्त्रेण दापयेत् । भोगैश्च मधुपर्काद्यैस्ताम्बूलाद्यैः सुवासितैः ॥ १०८॥ पूजयित्वा महादेवीं पूजाकोटिफलं लभेत् । पूर्वोक्तन्यासमेवास्मिन् समये च प्रविन्यसेत् ॥ १०९॥ आत्मानं परमं ध्यायेद् दिव्यस्त्रीभिरलङ्कृतम् । दिव्यं मूर्ध्नि महच्छत्रं सहस्रदलनिर्मितम् ॥ ११०॥ सुधावर्षिमुखाम्भोजं सस्मितं दिव्यवर्चसम्! । परमानन्दसन्दोहमुदितं परमाव्ययम् ॥ १११॥ दिव्यालङ्कारवस्त्राढ्यं दिव्यमाल्यानुलेपितम् । दिव्यासनसमासीनं दिव्यभोगविभोगिनम् ॥ ११२॥ सर्वगं सर्वभूतेशं सृष्टिस्थित्यन्तकारिणम् । निर्लेपं निर्मलं शान्तं सर्वव्यापिनमीश्वरम् ॥ ११३॥ ततो देवी हृदम्भोजे ध्यायेत् तद्गतमानसः । जपाकुसुमसङ्काशां बालार्ककिरणारुणाम् ॥ ११४॥ रक्तपद्मसमासीनां रक्ताभरणभूषिताम् । रक्तवस्त्रपरीधानां पूर्णचन्द्रनिभाननाम् ॥ ११५॥ सैवाहमित्यभेदेन द्वैतहीनं विचिन्तयेत् । अद्वैतानन्दभावेन साधकः परमात्मनः ॥ ११६॥ छायया शोणया व्याप्तं जगदेतच्चराचरम् । भावनावशसम्पन्नो भावयेद् भावतः परम् ॥ ११७॥ एवं चिन्तापरस्याऽऽशु सिद्धयोऽष्टौ भवन्ति हि । सम्प्राप्य विपुलान् भोगान् राज्यास्पदञ्च भूतले ॥ ११८॥ ऐन्द्र पदमवाप्याथ ' विहरेन्नन्दने वने । उर्वशीप्रमुखाभिश्च स्वेच्छया दिव्यभोगवान् ॥ ११९॥ तदाप्नोति परं स्थानं दुरापं त्रिदशैरपि । ततस्तु कवचं दिव्यं पठेदेकमनाः प्रिये ॥ १२ तस्य सर्वार्थसिद्धिः स्यान्नात्र कार्या विचारणा । इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥ १२॥ सर्वेषामेव हिंस्राणां डाकिनीनां महेश्वरि । निशाचरगणानाञ्च वारणं नाशनं तथा ॥ १२२॥ आयुर्बलप्रदं नित्यं तुष्टिपुष्टिशुभावहम् । नारीणां मृतवत्सानां गुणवत्सुतदायकम् ॥ १२३॥ सूत्या सूतिगृहस्यापि बालग्रहनिवारणम् । विषदस्युग्रहाणाञ्च सदा शान्तिविवर्द्धनम् ॥ १२४॥ विषशस्त्राऽग्निरुद्राणां वारणं जयदं युधि । जले स्थले तथाऽऽकाशे सर्वोत्पातेषु सर्वदा ॥ १२५॥ त्रैलोक्यवासिनामेव सर्वमङ्गलदायकम् । सकृद् यस्तु पठेद् देवि ! कवचं देवदुर्लभम् ॥ १२६॥ हयमेधफलं तस्य भवत्येव संशयः । नित्यं यस्तु पठेद् देवि श‍ृणुयाद् वा समाहितः ॥ १२७॥ स सर्वान् लभते कामान् परे देवीपुरं व्रजेत् । सङ्ग्रामे च जयेच्छत्रून् मातङ्गानिव केशरी ॥ १२८॥ दहेत् तृणं यथा वह्निस्तथा शत्रून् जयेत् सदा । नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ॥ १२९॥ तद्गात्रं प्राप्य शस्त्राणि ' ब्रह्मास्त्रादीनि यानि च । माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ १३०॥ पराः पराङ्मुखा यान्ति विना युद्धेन पार्वति । व्याधिस्तस्य कदाचित् तु दुःखं नास्ति कदाचन ॥ १३१॥ गतिस्तस्यैव सर्वत्र वायोस्तुल्या सदा भवेत् । दीर्घायुः कामभोगीशो धनधान्यसमृद्धिमान् ॥ १३२॥ जितव्याधी रूपवान् स्याद् गुणवानभिजायते । चातुर्वर्ग्यं करे तस्य भवत्येव न संशयः ॥ १३३॥ अन्यस्य वल्लभः सो वै पुत्रदारकुलान्वितः । इहलोके सुखं भुक्त्वा परे मुक्तो भविष्यति ॥ १३४॥ न तस्य दुर्गतिर्देवि ! कदाचिदपि जायते । दुर्ग्रहाः सुग्रहा यान्ति वशं गच्छन्ति मानवाः ॥ १३५॥ न तस्य विघ्नो भवति न शोको भुवि जायते । वेतालाश्च पिशाचाश्च राक्षसाश्च भयानकाः ॥ १३६॥ ते सर्वे विलयं यान्ति कवचस्यास्य कीर्तनात् । तस्यैव शत्रवो देवि ! चिन्तामात्रप्रयोगतः ॥ १३७॥ विनश्यन्ति न सन्देहो योगिन्यो भक्षयन्ति तान् । शान्तिकादीनि कर्माणि मारणोच्चाटनानि च ॥ १३८॥ वचोमात्रेण देवेशि ! तस्य सिध्यन्ति भूतले । न पापैर्लिप्यते देवि ! महोग्रैस्तु सुदारुणैः ॥ १३९॥ न कालस्य वशं गच्छेन्न जरा न च दुःखिता । तत्र देशे न दुर्भिक्षं न च मारी प्रवर्तते ॥ १४०॥ न रोगास्तत्र जायन्ते नोत्पाताः प्रभवन्ति च । विविधाश्चैव योगिन्यस्तस्य साधकसन्निधौ ॥ १४१॥ शान्ति चैव प्रयच्छन्ति रक्षन्ति पुत्रवत् सदा । सर्वदा च सुखप्राप्तिः सर्वतीर्थफलं लभेत् ॥ १४२॥ नानेन सदृशः कश्चित् साधको भुवि जायते । सुरासुरमनुष्याणां तत्त्वरूपः सुखावहः ॥ १४३॥ येन विज्ञातमात्रेण स्मृतेनैव च सुन्दरि । अक्षयान् लभते कामान् मुक्तिस्थानं च गच्छति ॥ १४४॥ सर्वलक्षणहीनोऽपि स्मरणात् ' कलुषापहः । अहो कवचमाहात्म्य पठमानस्य नित्यशः ॥ १४५॥ विनापि योगचर्येण योगिनां समतां व्रजेत् । भूर्जत्वचि समालिख्य चक्रं तत्त्वविनिर्मितम् ॥ १४६॥ मध्ये त्रिकोणं संलिख्य साध्यसाधकयोर्लिपिम् । तदूर्ध्वे मूलमन्त्रञ्च मातृकार्णेन वेष्टयेत् ॥ १४७॥ अगुरुद्रवमिश्रेण चन्दनेन सुगन्धिना । एतद् यन्त्रम् महादेवि ! सुरासुरसुदुर्लभम् ॥ १४८॥ रोचनाकुडकुमेनैव तद्बाह्ये कवचं लिखेत् । श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥ १४९॥ पञ्चामृतैः पञ्चगव्यैः स्नापयित्वा शुभेऽहनि । सम्पूज्य देवीरूपां तां गुटिकां सर्वकामदाम् ॥ १५०॥ प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् । चारुणा शाक्तकुम्भेन भूषितां योनिमुद्रया ॥ १५१॥ अन्तर्योनिं ततो ध्यात्वा तत्र संस्थापयेद् बुधः । एषा तु गुटिका देवि ! कण्ठलग्ना धनप्रदा ॥ १५२॥ शीर्षे वश्यकरी देवि ! कट्यां स्तम्भनकारिणी । बद्धा वामभुजे चैव वैरिपक्षविनाशिनी ॥ १५३ ॥ जठरे रोगशमनी पुत्रदा हृदिसंस्थिता । विद्याकरी ललाटस्था शिखायां तु यशःप्रदा ॥ १५४ ॥ दक्षिणे बाहुमूले वै यदि तिष्ठति सर्वदा । तदा सर्वार्थसिद्धिः स्याद् यद्यन्मनसि वर्तते ॥ १५५ ॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । न शक्नोमि प्रभावं हि कथितुं कवचस्य वै ॥ १५६ ॥ एतत्तु कवचेनैव पठनं साधनं प्रिये । कथितं मे तव स्नेहाद् गोपनीय सदा भुवि ॥ १५७ ॥ ॥ इति श्रीराजराजेश्वरीकवचं सम्पूर्णम् ॥ ॥ इति श्रीगन्धर्वतन्त्रे महात्रिपुरसुन्दरीत्रैलोक्यमोहनाख्यः चतुर्थः पटलः ॥

श्रीराजराजेश्वरीकवचम् — विस्तृत परिचय एवं दार्शनिक महत्व (Introduction & Significance)

श्रीराजराजेश्वरीकवचम् (Sri Rajarajeshwari Kavacham) शाक्त तांत्रिक वांग्मय के अत्यंत प्रामाणिक ग्रंथ 'गन्धर्व तंत्र' (Gandharva Tantra) के चतुर्थ पटल (अध्याय) से उद्धृत है। तंत्र शास्त्र में 'कवच' का अर्थ है — आध्यात्मिक 'Armor' (सुरक्षा आवरण), जो साधक के शरीर, मन और आत्मा की सभी दिशाओं से रक्षा करता है। भगवान शिव ने माता पार्वती को बताया है कि इस विशिष्ट कवच का नाम 'त्रैलोक्यमोहन' (Trailokya Mohana) है, अर्थात् जो तीनों लोकों को आकर्षित और मोहित करने की क्षमता रखता है।

उत्पत्ति और महिमा: श्लोक 6 और 7 में भगवान शिव स्पष्ट करते हैं कि इसी कवच के प्रभाव से भगवान विष्णु ने दारुण दानवों का वध किया था, ब्रह्मा जी सृष्टि की रचना करते हैं, कुबेर धन के अधिपति बने हैं, और स्वयं शिव संहार का कार्य करते हैं। यह वेद, शास्त्र और पुराणों का सार है। शिव जी पार्वती जी से कहते हैं कि "मैंने तुम्हें लाखों बार यह विद्या देने से मना किया (लक्षवारसहस्राणि वारितासि), परंतु तुम्हारे बार-बार पूछने और प्रेम के कारण मैं यह अत्यंत दुर्लभ विद्या प्रकट कर रहा हूँ।"

सर्वांग न्यास (Body Protection): श्लोक 12 से लेकर 38 तक, यह कवच एक विस्तृत 'अंग-न्यास' (Nyasa) प्रस्तुत करता है। इसमें श्री विद्या की 'बाला' (Bala), 'पंचदशी' (Panchadasi) और 'षोडशी' (Shodashi) विद्याओं के बीज मंत्रों (ऐं क्लीं सौः) को शरीर के विभिन्न अंगों (जैसे मस्तक, नेत्र, कंठ, हृदय, नाभि और चरणों) में स्थापित किया जाता है। इससे साधक का साधारण भौतिक शरीर एक 'मन्त्रमय और देवमय शरीर' (Divine Body) में परिवर्तित हो जाता है।

दश महाविद्या और अष्ट सिद्धियों का आह्वाहन: इस कवच की विशिष्टता यह है कि यह केवल राजराजेश्वरी की ही नहीं, अपितु अन्य विद्याओं (जैसे नित्यक्लिन्ना, भेरुण्डा, शिवदूती, छिन्नमस्ता/त्वरिता) और अष्ट सिद्धियों (अणिमा, महिमा, गरिमा आदि) को भी शरीर के विभिन्न दिशाओं में रक्षक के रूप में स्थापित करता है (श्लोक 27-33 और 41-43)।

कवच के अलौकिक लाभ — फलश्रुति (Benefits from Phala Shruti)

भगवान शिव ने श्लोक 122 से 144 तक इस कवच के अचूक और चमत्कारी लाभों का विस्तार से वर्णन किया है। जो साधक नित्य इसका पाठ करता है या इसे धारण करता है, उसे निम्नलिखित फलों की प्राप्ति होती है:

  • अभेद्य सुरक्षा (Invincible Protection): "नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च" (श्लोक 129-130) — शत्रु के अस्त्र-शस्त्र उस पर असर नहीं करते। यहाँ तक कि ब्रह्मास्त्र भी यदि उसके शरीर से टकराए, तो वह फूल की माला (माल्यानि कुसुमानीव) के समान सुखदायक बन जाता है।
  • तंत्र-मंत्र और दुष्ट शक्तियों से रक्षा: "सर्वेषामेव हिंस्राणां डाकिनीनां महेश्वरि" (श्लोक 122) — सभी प्रकार की डाकिनी, पिशाच, बेताल, राक्षस और निशाचरों का प्रभाव इस कवच के पाठ से तत्काल नष्ट हो जाता है।
  • शत्रु विजय: "सङ्ग्रामे च जयेच्छत्रून् मातङ्गानिव केशरी" (श्लोक 128) — जैसे शेर हाथियों के झुंड को नष्ट कर देता है, वैसे ही यह कवच साधक को युद्ध या विवाद में अजेय बना देता है। उसके शत्रु बिना लड़े ही पीठ दिखाकर भाग जाते हैं (श्लोक 131)।
  • विष और रोग नाशक: "विषशस्त्राऽग्निरुद्राणां वारणं" (श्लोक 125) — यह विष (Poison), अग्नि दुर्घटना और महामारी (मारी) से रक्षा करता है। साधक सदैव निरोगी और दीर्घायु रहता है।
  • संतान और वंशावृद्धि: "नारीणां मृतवत्सानां गुणवत्सुतदायकम्" (श्लोक 123) — जिन स्त्रियों की संतान जन्म लेते ही मृत हो जाती हो (मृतवत्सा दोष), उन्हें यह कवच गुणवान और दीर्घायु पुत्र प्रदान करता है।
  • वाकसिद्धि और अष्टसिद्धि: "वचोमात्रेण देवेशि ! तस्य सिध्यन्ति भूतले" (श्लोक 139) — साधक जो भी बोल देता है (वचन मात्र से), वह सत्य हो जाता है (मारण, उच्चाटन या शांति कर्म)। बिना कठोर योग किए ही वह योगियों के समान सिद्ध हो जाता है (श्लोक 146)।

गुटिका निर्माण और धारण विधि (Amulet Creation & Wearing Method)

इस स्तोत्र के अंत (श्लोक 146 से 155) में यंत्र या गुटिका (Amulet) बनाकर पहनने की अत्यंत गुप्त विधि बताई गई है, जो इसे और भी शक्तिशाली बनाती है।

  • यंत्र लेखन: भोजपत्र (भूर्जत्वचि) पर अगुरु, चंदन, गोरोचन और कुमकुम की स्याही से श्रीचक्र (मध्य में त्रिकोण) बनाएं। उसमें अपना (साध्य) और देवी का नाम लिखें और चारों ओर यह कवच लिख लें।
  • गुटिका निर्माण: उस भोजपत्र को लपेटकर सफेद धागे और लाक्षा (लाख) से सील कर लें। फिर शुभ दिन पर पंचामृत और पंचगव्य से स्नान कराकर प्राण-प्रतिष्ठा करें।
  • धारण करने का स्थान और फल:
    मस्तक (शीर्षे): वशीकरण के लिए।
    गला (कण्ठलग्ना): धन प्राप्ति के लिए।
    दाहिनी बांह (दक्षिणे बाहुमूले): सर्वार्थ सिद्धि (सभी मनोकामनाओं की पूर्ति) के लिए।
    बायीं बांह (वामभुजे): शत्रुओं के नाश के लिए।
    पेट (जठरे): रोगों के शमन के लिए।

गोपनीयता का कठोर नियम (Strict Rule of Secrecy):
श्लोक 91-95 में भगवान शिव अत्यंत कठोर शब्दों में कहते हैं कि यह कवच किसी स्वार्थी, पाखंडी, गुरु-निंदक या अभक्त को नहीं देना चाहिए। यदि कोई पैसों के लालच में या अयोग्य व्यक्ति को यह देता है, तो उसकी विद्या, आयु और कीर्ति नष्ट हो जाती है और योगिनियां उसका नाश कर देती हैं। इसे केवल गुरुभक्त और शांतचित्त शिष्य को ही देना चाहिए।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्रीराजराजेश्वरीकवचम् किस ग्रंथ से लिया गया है?
यह कवच 'गन्धर्व तंत्र' (Gandharva Tantra) के चतुर्थ पटल (अध्याय) से लिया गया है। इस तंत्र में श्री विद्या और राजराजेश्वरी की उपासना का विशद वर्णन है।
2. इस कवच को 'त्रैलोक्यमोहन' क्यों कहा जाता है?
'त्रैलोक्यमोहन' का अर्थ है तीनों लोकों (स्वर्ग, पृथ्वी, पाताल) को आकर्षित और मोहित करने वाला। इस कवच का साधक अपने तेज और आकर्षण से पूरे ब्रह्मांड को अपने अनुकूल बना लेता है।
3. क्या इस कवच का पाठ बिना गुरु दीक्षा के किया जा सकता है?
चूंकि इसमें 'ऐं क्लीं सौः' जैसे महाबीज मंत्रों का सीधा उपयोग है, अतः पूर्ण फल प्राप्ति के लिए श्री विद्या की दीक्षा और गुरु का मार्गदर्शन आवश्यक माना जाता है। हालांकि, पूर्ण श्रद्धा और निष्काम भाव से कोई भी इसका पाठ कर सकता है।
4. 'नारीणां मृतवत्सानां' दोष क्या है और यह कवच कैसे मदद करता है?
'मृतवत्सा दोष' वह स्थिति है जहाँ एक स्त्री के बच्चे जन्म लेते ही या गर्भ में ही मृत्यु को प्राप्त हो जाते हैं। इस कवच का नित्य पाठ और यंत्र धारण करने से यह भयंकर दोष कट जाता है और स्वस्थ संतान की प्राप्ति होती है।
5. कवच के पाठ से शत्रुओं पर क्या प्रभाव पड़ता है?
श्लोक 128-131 के अनुसार, साधक के शत्रु उसके सामने वैसे ही टिक नहीं पाते जैसे शेर के सामने हाथी। जो शत्रु उसका अहित सोचता है, योगिनियां स्वयं उस शत्रु का भक्षण (नाश) कर देती हैं।
6. गुटिका (Amulet) बनाने के लिए कौन सी स्याही का उपयोग होता है?
श्लोक 148-149 के अनुसार, भोजपत्र पर यंत्र लिखने के लिए अगुरु, चंदन, गोरोचन और कुमकुम से बनी सुगंधित स्याही का उपयोग किया जाता है।
7. क्या इस कवच को धारण करने से धन की प्राप्ति होती है?
जी हाँ, श्लोक 152 में स्पष्ट रूप से कहा गया है कि प्राण-प्रतिष्ठित गुटिका को गले (कण्ठलग्ना) में धारण करने से यह अपार धन (धनप्रदा) और ऐश्वर्य प्रदान करती है।
8. 'माल्यानि कुसुमानीव सुखदानि भवन्ति' का क्या अर्थ है?
इसका अर्थ है कि यदि शत्रु ब्रह्मास्त्र जैसे घातक अस्त्र भी चला दे, तो वे इस कवच के प्रभाव से साधक के शरीर पर लगकर 'फूलों की माला' के समान कोमल और सुखदायक बन जाते हैं।
9. भगवान शिव ने इसे अयोग्य को देने से क्यों मना किया है?
यह एक महाशक्तिशाली 'ब्रह्मास्त्र' के समान है। यदि यह किसी तामसिक, हिंसक या अयोग्य व्यक्ति के हाथ लग जाए तो वह समाज का अहित कर सकता है। इसलिए गुरु-शिष्य परंपरा में इसकी गोपनीयता अनिवार्य है।
10. इसे पढ़ने का सर्वोत्तम समय और विधि क्या है?
श्लोक 103-106 के अनुसार, इसे अर्धरात्रि (निशीथ काल) में लाल वस्त्र और लाल आभूषण पहनकर, एकांत स्थान पर धूप-दीप जलाकर पढ़ना सर्वोत्तम तांत्रिक विधि मानी गई है। सामान्य नित्य पाठ प्रातःकाल भी किया जा सकता है।