Sri Venkateshwara Sahasranamavali – श्री वेङ्कटेश्वर सहस्रनामावलिः

॥ श्री वेङ्कटेश्वर सहस्रनामावलिः ॥
ॐ श्री वेङ्कटेशाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वभावनाय नमः ।
ॐ विश्वसृजे नमः ।
ॐ विश्वसंहर्त्रे नमः ।
ॐ विश्वप्राणाय नमः ।
ॐ विराड्वपुषे नमः ।
ॐ शेषाद्रिनिलयाय नमः ।
ॐ अशेषभक्तदुःखप्रणाशनाय नमः ।
ॐ शेषस्तुत्याय नमः ।
ॐ शेषशायिने नमः ।
ॐ विशेषज्ञाय नमः ।
ॐ विभवे नमः ।
ॐ स्वभुवे नमः ।
ॐ विष्णवे नमः ।
ॐ जिष्णवे नमः ।
ॐ वर्धिष्णवे नमः ।
ॐ उत्सहिष्णवे नमः ।
ॐ सहिष्णुकाय नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ ग्रसिष्णवे नमः ।
ॐ वर्तिष्णवे नमः ।
ॐ भरिष्णुकाय नमः ।
ॐ कालयन्त्रे नमः ।
ॐ कालगोप्त्रे नमः ।
ॐ कालाय नमः ।
ॐ कालान्तकाय नमः ।
ॐ अखिलाय नमः ।
ॐ कालगम्याय नमः ।
ॐ कालकण्ठवन्द्याय नमः ।
ॐ कालकलेश्वराय नमः ।
ॐ शम्भवे नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ अम्भोजनाभाय नमः ।
ॐ स्तम्भितवारिधये नमः ।
ॐ अम्भोधिनन्दिनीजानये नमः ।
ॐ शोणाम्भोजपदप्रभाय नमः ।
ॐ कम्बुग्रीवाय नमः ।
ॐ शम्बरारिरूपाय नमः ।
ॐ शम्बरजेक्षणाय नमः ।
ॐ बिम्बाधराय नमः ।
ॐ बिम्बरूपिणे नमः ।
ॐ प्रतिबिम्बक्रियातिगाय नमः ।
ॐ गुणवते नमः ।
ॐ गुणगम्याय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुणप्रियाय नमः ।
ॐ दुर्गुणध्वंसकृते नमः ।
ॐ सर्वसुगुणाय नमः ।
ॐ गुणभासकाय नमः ।
ॐ परेशाय नमः ।
ॐ परमात्मने नमः ।
ॐ परस्मैज्योतिषे नमः ।
ॐ परायैगतये नमः ।
ॐ परस्मैपदाय नमः ।
ॐ वियद्वासने नमः ।
ॐ पारम्पर्यशुभप्रदाय नमः ।
ॐ ब्रह्माण्डगर्भाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मसृजे नमः ।
ॐ ब्रह्मबोधिताय नमः ।
ॐ ब्रह्मस्तुत्याय नमः ।
ॐ ब्रह्मवादिने नमः ।
ॐ ब्रह्मचर्यपरायणाय नमः ।
ॐ सत्यव्रतार्थसन्तुष्टाय नमः ।
ॐ सत्यरूपिणे नमः ।
ॐ झषाङ्गवते नमः ।
ॐ सोमकप्राणहारिणे नमः ।
ॐ आनीताम्नायाय नमः ।
ॐ अब्धिसञ्चराय नमः ।
ॐ देवासुरवरस्तुत्याय नमः ।
ॐ पतन्मन्दरधारकाय नमः ।
ॐ धन्वन्तरये नमः ।
ॐ कच्छपाङ्गाय नमः ।
ॐ पयोनिधिविमन्थकाय नमः ।
ॐ अमरामृतसन्धात्रे नमः ।
ॐ धृतसम्मोहिनीवपुषे नमः ।
ॐ हरमोहकमायाविने नमः ।
ॐ रक्षस्सन्दोहभञ्जनाय नमः ।
ॐ हिरण्याक्षविदारिणे नमः ।
ॐ यज्ञाय नमः ।
ॐ यज्ञविभावनाय नमः ।
ॐ यज्ञीयोर्वीसमुद्धर्त्रे नमः ।
ॐ लीलाक्रोडाय नमः ।
ॐ प्रतापवते नमः ।
ॐ दण्डकासुरविध्वंसिने नमः ।
ॐ वक्रदम्ष्ट्राय नमः ।
ॐ क्षमाधराय नमः ।
ॐ गन्धर्वशापहरणाय नमः ।
ॐ पुण्यगन्धाय नमः ।
ॐ विचक्षणाय नमः ।
ॐ करालवक्त्राय नमः ।
ॐ सोमार्कनेत्राय नमः ।
ॐ षड्गुणवैभवाय नमः ।
ॐ श्वेतघोणिने नमः ।
ॐ घूर्णितभ्रुवे नमः ।
ॐ घुर्घुरध्वनिविभ्रमाय नमः ।
ॐ द्राघीयसे नमः ।
ॐ नीलकेशिने नमः ।
॥ १०० ॥
ॐ जाग्रदम्बुजलोचनाय नमः ।
ॐ घृणावते नमः ।
ॐ घृणिसम्मोहाय नमः ।
ॐ महाकालाग्निदीधितये नमः ।
ॐ ज्वालाकरालवदनाय नमः ।
ॐ महोल्काकुलवीक्षणाय नमः ।
ॐ सटानिर्भिण्णमेघौघाय नमः ।
ॐ दम्ष्ट्रारुग्व्याप्तदिक्तटाय नमः ।
ॐ उच्छ्वासाकृष्टभूतेशाय नमः ।
ॐ निश्श्वासत्यक्तविश्वसृजे नमः ।
ॐ अन्तर्भ्रमज्जगद्गर्भाय नमः ।
ॐ अनन्ताय नमः ।
ॐ ब्रह्मकपालहृते नमः ।
ॐ उग्राय नमः ।
ॐ वीराय नमः ।
ॐ महाविष्णवे नमः ।
ॐ ज्वलनाय नमः ।
ॐ सर्वतोमुखाय नमः ।
ॐ नृसिंहाय नमः ।
ॐ भीषणाय नमः ।
ॐ भद्राय नमः ।
ॐ मृत्युमृत्यवे नमः ।
ॐ सनातनाय नमः ।
ॐ सभास्तम्भोद्भवाय नमः ।
ॐ भीमाय नमः ।
ॐ शिरोमालिने नमः ।
ॐ महेश्वराय नमः ।
ॐ द्वादशादित्यचूडालाय नमः ।
ॐ कल्पधूमसटाच्छवये नमः ।
ॐ हिरण्यकोरस्थलभिन्नखाय नमः ।
ॐ सिंहमुखाय नमः ।
ॐ अनघाय नमः ।
ॐ प्रह्लादवरदाय नमः ।
ॐ धीमते नमः ।
ॐ भक्तसङ्घप्रतिष्ठिताय नमः ।
ॐ ब्रह्मरुद्रादिसंसेव्याय नमः ।
ॐ सिद्धसाध्यप्रपूजिताय नमः ।
ॐ लक्ष्मीनृसिंहाय नमः ।
ॐ देवेशाय नमः ।
ॐ ज्वालाजिह्वान्त्रमालिकाय नमः ।
ॐ खड्गिने नमः ।
ॐ खेटिने नमः ।
ॐ महेष्वासिने नमः ।
ॐ कपालिने नमः ।
ॐ मुसलिने नमः ।
ॐ हलिने नमः ।
ॐ पाशिने नमः ।
ॐ शूलिने नमः ।
ॐ महाबाहवे नमः ।
ॐ ज्वरघ्नाय नमः ।
ॐ रोगलुण्ठकाय नमः ।
ॐ मौञ्जीयुजे नमः ।
ॐ छात्रकाय नमः ।
ॐ दण्डिने नमः ।
ॐ कृष्णाजिनधराय नमः ।
ॐ वटवे नमः ।
ॐ अधीतवेदाय नमः ।
ॐ वेदान्तोद्धारकाय नमः ।
ॐ ब्रह्मनैष्ठिकाय नमः ।
ॐ अहीनशयनप्रीताय नमः ।
ॐ आदितेयाय नमः ।
ॐ अनघाय नमः ।
ॐ हरये नमः ।
ॐ संवित्प्रियाय नमः ।
ॐ सामवेद्याय नमः ।
ॐ बलिवेश्मप्रतिष्ठिताय नमः ।
ॐ बलिक्षालितपादाब्जाय नमः ।
ॐ विन्ध्यावलिविमानिताय नमः ।
ॐ त्रिपादभूमिस्वीकर्त्रे नमः ।
ॐ विश्वरूपप्रदर्शकाय नमः ।
ॐ धृतत्रिविक्रमाय नमः ।
ॐ स्वाङ्घ्रीनखभिन्नाण्डकर्पराय नमः ।
ॐ पज्जातवाहिनीधारापवित्रितजगत्त्रयाय नमः ।
ॐ विधिसम्मानिताय नमः ।
ॐ पुण्याय नमः ।
ॐ दैत्ययोद्ध्रे नमः ।
ॐ जयोर्जिताय नमः ।
ॐ सुरराज्यप्रदाय नमः ।
ॐ शुक्रमदहृते नमः ।
ॐ सुगतीश्वराय नमः ।
ॐ जामदग्न्याय नमः ।
ॐ कुठारिणे नमः ।
ॐ कार्तवीर्यविदारणाय नमः ।
ॐ रेणुकायाश्शिरोहारिणे नमः ।
ॐ दुष्टक्षत्रियमर्दनाय नमः ।
ॐ वर्चस्विने नमः ।
ॐ दानशीलाय नमः ।
ॐ धनुष्मते नमः ।
ॐ ब्रह्मवित्तमाय नमः ।
ॐ अत्युदग्राय नमः ।
ॐ समग्राय नमः ।
ॐ न्यग्रोधाय नमः ।
ॐ दुष्टनिग्रहाय नमः ।
ॐ रविवंशसमुद्भूताय नमः ।
ॐ राघवाय नमः ।
ॐ भरताग्रजाय नमः ।
ॐ कौसल्यातनयाय नमः ।
ॐ रामाय नमः ।
ॐ विश्वामित्रप्रियङ्कराय नमः ।
ॐ ताटकारये नमः ।
॥ २०० ॥
ॐ सुबाहुघ्नाय नमः ।
ॐ बलातिबलमन्त्रवते नमः ।
ॐ अहल्याशापविच्छेदिने नमः ।
ॐ प्रविष्टजनकालयाय नमः ।
ॐ स्वयंवरसभासंस्थाय नमः ।
ॐ ईशचापप्रभञ्जनाय नमः ।
ॐ जानकीपरिणेत्रे नमः ।
ॐ जनकाधीशसंस्तुताय नमः ।
ॐ जमदग्नितनूजातयोद्ध्रे नमः ।
ॐ अयोध्याधिपाग्रण्ये नमः ।
ॐ पितृवाक्यप्रतीपालाय नमः ।
ॐ त्यक्तराज्याय नमः ।
ॐ सलक्ष्मणाय नमः ।
ॐ ससीताय नमः ।
ॐ चित्रकूटस्थाय नमः ।
ॐ भरताहितराज्यकाय नमः ।
ॐ काकदर्पप्रहर्ते नमः ।
ॐ दण्डकारण्यवासकाय नमः ।
ॐ पञ्चवट्यां विहारिणे नमः ।
ॐ स्वधर्मपरिपोषकाय नमः ।
ॐ विराधघ्ने नमः ।
ॐ अगस्त्यमुख्यमुनि सम्मानिताय नमः ।
ॐ पुंसे नमः ।
ॐ इन्द्रचापधराय नमः ।
ॐ खड्गधराय नमः ।
ॐ अक्षयसायकाय नमः ।
ॐ खरान्तकाय नमः ।
ॐ धूषणारये नमः ।
ॐ त्रिशिरस्करिपवे नमः ।
ॐ वृषाय नमः ।
ॐ शूर्पणखानासाच्छेत्त्रे नमः ।
ॐ वल्कलधारकाय नमः ।
ॐ जटावते नमः ।
ॐ पर्णशालास्थाय नमः ।
ॐ मारीचबलमर्दकाय नमः ।
ॐ पक्षिराट्कृतसंवादाय नमः ।
ॐ रवितेजसे नमः ।
ॐ महाबलाय नमः ।
ॐ शबर्यानीतफलभुजे नमः ।
ॐ हनूमत्परितोषिताय नमः ।
ॐ सुग्रीवाभयदाय नमः ।
ॐ दैत्यकायक्षेपणभासुराय नमः ।
ॐ सप्तसालसमुच्छेत्त्रे नमः ।
ॐ वालिहृते नमः ।
ॐ कपिसंवृताय नमः ।
ॐ वायुसूनुकृतासेवाय नमः ।
ॐ त्यक्तपम्पाय नमः ।
ॐ कुशासनाय नमः ।
ॐ उदन्वत्तीरगाय नमः ।
ॐ शूराय नमः ।
ॐ विभीषणवरप्रदाय नमः ।
ॐ सेतुकृते नमः ।
ॐ दैत्यघ्ने नमः ।
ॐ प्राप्तलङ्काय नमः ।
ॐ अलङ्कारवते नमः ।
ॐ अतिकायशिरश्छेत्त्रे नमः ।
ॐ कुम्भकर्णविभेदनाय नमः ।
ॐ दशकण्ठशिरोध्वंसिने नमः ।
ॐ जाम्बवत्प्रमुखावृताय नमः ।
ॐ जानकीशाय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ साकेतेशाय नमः ।
ॐ पुरातनाय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ स्वामितीर्थनिवासकाय नमः ।
ॐ लक्ष्मीसरःकेलिलोलाय नमः ।
ॐ लक्ष्मीशाय नमः ।
ॐ लोकरक्षकाय नमः ।
ॐ देवकीगर्भसम्भूताय नमः ।
ॐ यशोदेक्षणलालिताय नमः ।
ॐ वसुदेवकृतस्तोत्राय नमः ।
ॐ नन्दगोपमनोहराय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ कोमलाङ्गाय नमः ।
ॐ गदावते नमः ।
ॐ नीलकुन्तलाय नमः ।
ॐ पूतनाप्राणसंहर्त्रे नमः ।
ॐ तृणावर्तविनाशनाय नमः ।
ॐ गर्गारोपितनामाङ्काय नमः ।
ॐ वासुदेवाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ गोपिकास्तन्यपायिने नमः ।
ॐ बलभद्रानुजाय नमः ।
ॐ अच्युताय नमः ।
ॐ वैयाघ्रनखभूषाय नमः ।
ॐ वत्सजिते नमः ।
ॐ वत्सवर्धनाय नमः ।
ॐ क्षीरसाराशनरताय नमः ।
ॐ दधिभाण्डप्रमर्धनाय नमः ।
ॐ नवनीतापहर्त्रे नमः ।
ॐ नीलनीरदभासुराय नमः ।
ॐ आभीरदृष्टदौर्जन्याय नमः ।
ॐ नीलपद्मनिभाननाय नमः ।
ॐ मातृदर्शितविश्वास्याय नमः ।
ॐ उलूखलनिबन्धनाय नमः ।
ॐ नलकूबरशापान्ताय नमः ।
ॐ गोधूलिच्छुरिताङ्गकाय नमः ।
ॐ गोसङ्घरक्षकाय नमः ।
ॐ श्रीशाय नमः ।
॥ ३०० ॥
ॐ बृन्दारण्यनिवासकाय नमः ।
ॐ वत्सान्तकाय नमः ।
ॐ बकद्वेषिणे नमः ।
ॐ दैत्याम्बुदमहानिलाय नमः ।
ॐ महाजगरचण्डाग्नये नमः ।
ॐ शकटप्राणकण्टकाय नमः ।
ॐ इन्द्रसेव्याय नमः ।
ॐ पुण्यगात्राय नमः ।
ॐ खरजिते नमः ।
ॐ चण्डदीधितये नमः ।
ॐ तालपक्वफलाशिने नमः ।
ॐ कालीयफणिदर्पघ्ने नमः ।
ॐ नागपत्नीस्तुतिप्रीताय नमः ।
ॐ प्रलम्बासुरखण्डनाय नमः ।
ॐ दावाग्निबलसंहारिणे नमः ।
ॐ फलाहारिणे नमः ।
ॐ गदाग्रजाय नमः ।
ॐ गोपाङ्गनाचेलचोराय नमः ।
ॐ पाथोलीलाविशारदाय नमः ।
ॐ वंशगानप्रवीणाय नमः ।
ॐ गोपीहस्ताम्बुजार्चिताय नमः ।
ॐ मुनिपत्न्याहृताहाराय नमः ।
ॐ मुनिश्रेष्ठाय नमः ।
ॐ मुनिप्रियाय नमः ।
ॐ गोवर्धनाद्रिसन्धर्त्रे नमः ।
ॐ सङ्क्रन्दनतमोपहाय नमः ।
ॐ सदुद्यानविलासिने नमः ।
ॐ रासक्रीडापरायणाय नमः ।
ॐ वरुणाभ्यर्चिताय नमः ।
ॐ गोपीप्रार्थिताय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अक्रूरस्तुतिसम्प्रीताय नमः ।
ॐ कुब्जायौवनदायकाय नमः ।
ॐ मुष्टिकोरःप्रहारिणे नमः ।
ॐ चाणूरोदरदारणाय नमः ।
ॐ मल्लयुद्धाग्रगण्याय नमः ।
ॐ पितृबन्धनमोचकाय नमः ।
ॐ मत्तमातङ्गपञ्चास्याय नमः ।
ॐ कंसग्रीवानिकृन्तनाय नमः ।
ॐ उग्रसेनप्रतिष्ठात्रे नमः ।
ॐ रत्नसिंहासनस्थिताय नमः ।
ॐ कालनेमिखलद्वेषिणे नमः ।
ॐ मुचुकुन्दवरप्रदाय नमः ।
ॐ साल्वसेवितदुर्धर्षराजस्मयनिवारणाय नमः ।
ॐ रुक्मिगर्वापहारिणे नमः ।
ॐ रुक्मिणीनयनोत्सवाय नमः ।
ॐ प्रद्युम्नजनकाय नमः ।
ॐ कामिने नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ द्वारकाधिपाय नमः ।
ॐ मण्याहर्त्रे नमः ।
ॐ महामायाय नमः ।
ॐ जाम्बवत्कृतसङ्गराय नमः ।
ॐ जाम्बूनदाम्बरधराय नमः ।
ॐ गम्याय नमः ।
ॐ जाम्बवतीविभवे नमः ।
ॐ कालिन्दीप्रथितारामकेलये नमः ।
ॐ गुञ्जावतंसकाय नमः ।
ॐ मन्दारसुमनोभास्वते नमः ।
ॐ शचीशाभीष्टदायकाय नमः ।
ॐ सत्राजिन्मानसोल्लासिने नमः ।
ॐ सत्याजानये नमः ।
ॐ शुभावहाय नमः ।
ॐ शतधन्वहराय नमः ।
ॐ सिद्धाय नमः ।
ॐ पाण्डवप्रियकोत्सवाय नमः ।
ॐ भद्रप्रियाय नमः ।
ॐ सुभद्रायाः भ्रात्रे नमः ।
ॐ नाग्नजितीविभवे नमः ।
ॐ किरीटकुण्डलधराय नमः ।
ॐ कल्पपल्लवलालिताय नमः ।
ॐ भैष्मीप्रणयभाषावते नमः ।
ॐ मित्रविन्दाधिपाय नमः ।
ॐ अभयाय नमः ।
ॐ स्वमूर्तिकेलिसम्प्रीताय नमः ।
ॐ लक्ष्मणोदारमानसाय नमः ।
ॐ प्राग्ज्योतिषाधिपध्वंसिने नमः ।
ॐ तत्सैन्यान्तकराय नमः ।
ॐ अमृताय नमः ।
ॐ भूमिस्तुताय नमः ।
ॐ भूरिभोगाय नमः ।
ॐ भूषणाम्बरसम्युताय नमः ।
ॐ बहुरामाकृताह्लादाय नमः ।
ॐ गन्धमाल्यानुलेपनाय नमः ।
ॐ नारदादृष्टचरिताय नमः ।
ॐ देवेशाय नमः ।
ॐ विश्वराजे नमः ।
ॐ गुरवे नमः ।
ॐ बाणबाहुविदाराय नमः ।
ॐ तापज्वरविनाशनाय नमः ।
ॐ उपोद्धर्षयित्रे नमः ।
ॐ अव्यक्ताय नमः ।
ॐ शिववाक्तुष्टमानसाय नमः ।
ॐ महेशज्वरसंस्तुत्याय नमः ।
ॐ शीतज्वरभयान्तकाय नमः ।
ॐ नृगराजोद्धारकाय नमः ।
ॐ पौण्ड्रकादिवधोद्यताय नमः ।
ॐ विविधारिच्छलोद्विग्न ब्राह्मणेषु दयापराय नमः ।
ॐ जरासन्धबलद्वेषिणे नमः ।
ॐ केशिदैत्यभयङ्कराय नमः ।
॥ ४०० ॥
ॐ चक्रिणे नमः ।
ॐ चैद्यान्तकाय नमः ।
ॐ सभ्याय नमः ।
ॐ राजबन्धविमोचकाय नमः ।
ॐ राजसूयहविर्भोक्त्रे नमः ।
ॐ स्निग्धाङ्गाय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ धानाभक्षणसम्प्रीताय नमः ।
ॐ कुचेलाभीष्टदायकाय नमः ।
ॐ सत्त्वादिगुणगम्भीराय नमः ।
ॐ द्रौपदीमानरक्षकाय नमः ।
ॐ भीष्मध्येयाय नमः ।
ॐ भक्तवश्याय नमः ।
ॐ भीमपूज्याय नमः ।
ॐ दयानिधये नमः ।
ॐ दन्तवक्त्रशिरश्छेत्त्रे नमः ।
ॐ कृष्णाय नमः ।
ॐ कृष्णासखाय नमः ।
ॐ स्वराजे नमः ।
ॐ वैजयन्तीप्रमोदिने नमः ।
ॐ बर्हिबर्हविभूषणाय नमः ।
ॐ पार्थकौरवसन्धानकारिणे नमः ।
ॐ दुश्शासनान्तकाय नमः ।
ॐ बुद्धाय नमः ।
ॐ विशुद्धाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ क्रतुहिंसाविनिन्दकाय नमः ।
ॐ त्रिपुरस्त्रीमानभङ्गाय नमः ।
ॐ सर्वशास्त्रविशारदाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ निर्ममाय नमः ।
ॐ निराभासाय नमः ।
ॐ निरामयाय नमः ।
ॐ जगन्मोहकधर्मिणे नमः ।
ॐ दिग्वस्त्राय नमः ।
ॐ दिक्पतीश्वरायाय नमः ।
ॐ कल्किने नमः ।
ॐ म्लेच्छप्रहर्त्रे नमः ।
ॐ दुष्टनिग्रहकारकाय नमः ।
ॐ धर्मप्रतिष्ठाकारिणे नमः ।
ॐ चातुर्वर्ण्यविभागकृते नमः ।
ॐ युगान्तकाय नमः ।
ॐ युगाक्रान्ताय नमः ।
ॐ युगकृते नमः ।
ॐ युगभासकाय नमः ।
ॐ कामारये नमः ।
ॐ कामकारिणे नमः ।
ॐ निष्कामाय नमः ।
ॐ कामितार्थदाय नमः ।
ॐ सवितुर्वरेण्याय भर्गसे नमः ।
ॐ शार्ङ्गिणे नमः ।
ॐ वैकुण्ठमन्दिराय नमः ।
ॐ हयग्रीवाय नमः ।
ॐ कैटभारये नमः ।
ॐ ग्राहघ्नाय नमः ।
ॐ गजरक्षकाय नमः ।
ॐ सर्वसंशयविच्छेत्त्रे नमः ।
ॐ सर्वभक्तसमुत्सुकाय नमः ।
ॐ कपर्दिने नमः ।
ॐ कामहारिणे नमः ।
ॐ कलायै नमः ।
ॐ काष्ठायै नमः ।
ॐ स्मृतये नमः ।
ॐ धृतये नमः ।
ॐ अनादये नमः ।
ॐ अप्रमेयौजसे नमः ।
ॐ प्रधानाय नमः ।
ॐ सन्निरूपकाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ निस्स्पृहाय नमः ।
ॐ असङ्गाय नमः ।
ॐ निर्भयाय नमः ।
ॐ नीतिपारगाय नमः ।
ॐ निष्प्रेष्याय नमः ।
ॐ निष्क्रियाय नमः ।
ॐ शान्ताय नमः ।
ॐ निष्प्रपञ्चाय नमः ।
ॐ निधये नमः ।
ॐ नयाय नमः ।
ॐ कर्मिणे नमः ।
ॐ अकर्मिणे नमः ।
ॐ विकर्मिणे नमः ।
ॐ कर्मेप्सवे नमः ।
ॐ कर्मभावनाय नमः ।
ॐ कर्माङ्गाय नमः ।
ॐ कर्मविन्यासाय नमः ।
ॐ महाकर्मिणे नमः ।
ॐ महाव्रतिने नमः ।
ॐ कर्मभुजे नमः ।
ॐ कर्मफलदाय नमः ।
ॐ कर्मेशाय नमः ।
ॐ कर्मनिग्रहाय नमः ।
ॐ नराय नमः ।
ॐ नारायणाय नमः ।
ॐ दान्ताय नमः ।
ॐ कपिलाय नमः ।
ॐ कामदाय नमः ।
ॐ शुचये नमः ।
ॐ तप्त्रे नमः ।
ॐ जप्त्रे नमः ।
॥ ५०० ॥
ॐ अक्षमालावते नमः ।
ॐ गन्त्रे नमः ।
ॐ नेत्रे नमः ।
ॐ लयाय नमः ।
ॐ गतये नमः ।
ॐ शिष्टाय नमः ।
ॐ द्रष्ट्रे नमः ।
ॐ रिपुद्वेष्ट्रे नमः ।
ॐ रोष्ट्रे नमः ।
ॐ वेष्ट्रे नमः ।
ॐ महानटाय नमः ।
ॐ रोद्ध्रे नमः ।
ॐ बोद्ध्रे नमः ।
ॐ महायोद्ध्रे नमः ।
ॐ श्रद्धावते नमः ।
ॐ सत्यधिये नमः ।
ॐ शुभाय नमः ।
ॐ मन्त्रिणे नमः ।
ॐ मन्त्राय नमः ।
ॐ मन्त्रगम्याय नमः ।
ॐ मन्त्रकृते नमः ।
ॐ परमन्त्रहृते नमः ।
ॐ मन्त्रभृते नमः ।
ॐ मन्त्रफलदाय नमः ।
ॐ मन्त्रेशाय नमः ।
ॐ मन्त्रविग्रहाय नमः ।
ॐ मन्त्राङ्गाय नमः ।
ॐ मन्त्रविन्यासाय नमः ।
ॐ महामन्त्राय नमः ।
ॐ महाक्रमाय नमः ।
ॐ स्थिरधिये नमः ।
ॐ स्थिरविज्ञानाय नमः ।
ॐ स्थिरप्रज्ञाय नमः ।
ॐ स्थिरासनाय नमः ।
ॐ स्थिरयोगाय नमः ।
ॐ स्थिराधाराय नमः ।
ॐ स्थिरमार्गाय नमः ।
ॐ स्थिरमार्गाय नमः ।
ॐ स्थिरागमाय नमः ।
ॐ निश्श्रेयसाय नमः ।
ॐ निरीहाय नमः ।
ॐ अग्नये नमः ।
ॐ निरवद्याय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निर्वैराय नमः ।
ॐ निरहङ्काराय नमः ।
ॐ निर्दम्भाय नमः ।
ॐ निरसूयकाय नमः ।
ॐ अनन्ताय नमः ।
ॐ अनन्तबाहूरवे नमः ।
ॐ अनन्ताङ्घ्रये नमः ।
ॐ अनन्तदृशे नमः ।
ॐ अनन्तवक्त्राय नमः ।
ॐ अनन्ताङ्गाय नमः ।
ॐ अनन्तरूपाय नमः ।
ॐ अनन्तकृते नमः ।
ॐ ऊर्ध्वरेतसे नमः ।
ॐ ऊर्ध्वलिङ्गाय नमः ।
ॐ ऊर्ध्वमूर्ध्ने नमः ।
ॐ ऊर्ध्वशाखकाय नमः ।
ॐ ऊर्ध्वाय नमः ।
ॐ ऊर्ध्वाध्वरक्षिणे नमः ।
ॐ ऊर्ध्वज्वालाय नमः ।
ॐ निराकुलाय नमः ।
ॐ बीजाय नमः ।
ॐ बीजप्रदाय नमः ।
ॐ नित्याय नमः ।
ॐ निदानाय नमः ।
ॐ निष्कृतये नमः ।
ॐ कृतिने नमः ।
ॐ महते नमः ।
ॐ अणीयसे नमः ।
ॐ गरिम्णे नमः ।
ॐ सुषमाय नमः ।
ॐ चित्रमालिकाय नमः ।
ॐ नभःस्पृशे नमः ।
ॐ नभसो ज्योतिषे नमः ।
ॐ नभस्वते नमः ।
ॐ निर्नभसे नमः ।
ॐ नभसे नमः ।
ॐ अभवे नमः ।
ॐ विभवे नमः ।
ॐ प्रभवे नमः ।
ॐ शम्भवे नमः ।
ॐ महीयसे नमः ।
ॐ भूर्भुवाकृतये नमः ।
ॐ महानन्दाय नमः ।
ॐ महाशूराय नमः ।
ॐ महोराशये नमः ।
ॐ महोत्सवाय नमः ।
ॐ महाक्रोधाय नमः ।
ॐ महाज्वालाय नमः ।
ॐ महाशान्ताय नमः ।
ॐ महागुणाय नमः ।
ॐ सत्यव्रताय नमः ।
ॐ सत्यपराय नमः ।
ॐ सत्यसन्धाय नमः ।
ॐ सताङ्गतये नमः ।
ॐ सत्येशाय नमः ।
ॐ सत्यसङ्कल्पाय नमः ।
ॐ सत्यचारित्रलक्षणाय नमः ।
॥ ६०० ॥
ॐ अन्तश्चराय नमः ।
ॐ अन्तरात्मने नमः ।
ॐ परमात्मने नमः ।
ॐ चिदात्मकाय नमः ।
ॐ रोचनाय नमः ।
ॐ रोचमानाय नमः ।
ॐ साक्षिणे नमः ।
ॐ शौरये नमः ।
ॐ जनार्दनाय नमः ।
ॐ मुकुन्दाय नमः ।
ॐ नन्दनिष्पन्दाय नमः ।
ॐ स्वर्णबिन्दवे नमः ।
ॐ पुरन्दराय नमः ।
ॐ अरिन्दमाय नमः ।
ॐ सुमन्दाय नमः ।
ॐ कुन्दमन्दारहासवते नमः ।
ॐ स्यन्दनारूढचण्डाङ्गाय नमः ।
ॐ आनन्दिने नमः ।
ॐ नन्दनन्दाय नमः ।
ॐ अनसूयानन्दनाय नमः ।
ॐ अत्रिनेत्रानन्दाय नमः ।
ॐ सुनन्दवते नमः ।
ॐ शङ्खवते नमः ।
ॐ पङ्कजकराय नमः ।
ॐ कुङ्कुमाङ्काय नमः ।
ॐ जयाङ्कुशाय नमः ।
ॐ अम्भोजमकरन्दाढ्याय नमः ।
ॐ निष्पङ्काय नमः ।
ॐ अगरुपङ्किलाय नमः ।
ॐ इन्द्राय नमः ।
ॐ चन्द्ररथाय नमः ।
ॐ चन्द्राय नमः ।
ॐ अतिचन्द्राय नमः ।
ॐ चन्द्रभासकाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ इन्द्रराजाय नमः ।
ॐ वागीन्द्राय नमः ।
ॐ चन्द्रलोचनाय नमः ।
ॐ प्रतीचे नमः ।
ॐ पराचे नमः ।
ॐ परस्मै धाम्ने नमः ।
ॐ परस्मै धाम्ने नमः ।
ॐ परमार्थाय नमः ।
ॐ परात्पराय नमः ।
ॐ अपारवाचे नमः ।
ॐ पारगामिने नमः ।
ॐ पारावाराय नमः ।
ॐ परावराय नमः ।
ॐ सहस्वते नमः ।
ॐ अर्थदात्रे नमः ।
ॐ सहनाय नमः ।
ॐ साहसिने नमः ।
ॐ जयिने नमः ।
ॐ तेजस्विने नमः ।
ॐ वायुविशिखिने नमः ।
ॐ तपस्विने नमः ।
ॐ तापसोत्तमाय नमः ।
ॐ ऐश्वर्योद्भूतिकृते नमः ।
ॐ भूतये नमः ।
ॐ ऐश्वर्याङ्गकलापवते नमः ।
ॐ अम्भोधिशायिने नमः ।
ॐ भगवते नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सामपारगाय नमः ।
ॐ महायोगिने नमः ।
ॐ महाधीराय नमः ।
ॐ महाभोगिने नमः ।
ॐ महाप्रभवे नमः ।
ॐ महावीराय नमः ।
ॐ महातुष्टये नमः ।
ॐ महापुष्टये नमः ।
ॐ महागुणाय नमः ।
ॐ महादेवाय नमः ।
ॐ महाबाहवे नमः ।
ॐ महाधर्माय नमः ।
ॐ महेश्वराय नमः ।
ॐ समीपगाय नमः ।
ॐ दूरगामिने नमः ।
ॐ स्वर्गमार्गनिरर्गलाय नमः ।
ॐ नगाय नमः ।
ॐ नगधराय नमः ।
ॐ नागाय नमः ।
ॐ नागेशाय नमः ।
ॐ नागपालकाय नमः ।
ॐ हिरण्मयाय नमः ।
ॐ स्वर्णरेतसे नमः ।
ॐ हिरण्यार्चिषे नमः ।
ॐ हिरण्यदाय नमः ।
ॐ गुणगण्याय नमः ।
ॐ शरण्याय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुराणगाय नमः ।
ॐ जन्यभृते नमः ।
ॐ जन्यसन्नद्धाय नमः ।
ॐ दिव्यपञ्चायुधाय नमः ।
ॐ विशिने नमः ।
ॐ दौर्जन्यभङ्गाय नमः ।
ॐ पर्जन्याय नमः ।
ॐ सौजन्यनिलयाय नमः ।
ॐ अलयाय नमः ।
ॐ जलन्धरान्तकाय नमः ।
॥ ७०० ॥
ॐ भस्मदैत्यनाशिने नमः ।
ॐ महामनसे नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ श्रविष्ठाय नमः ।
ॐ द्राघिष्ठाय नमः ।
ॐ गरिष्ठाय नमः ।
ॐ गरुडध्वजाय नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ द्रढिष्ठाय नमः ।
ॐ वर्षिष्ठाय नमः ।
ॐ द्राघीयसे नमः ।
ॐ प्रणवाय नमः ।
ॐ फणिने नमः ।
ॐ सम्प्रदायकराय नमः ।
ॐ स्वामिने नमः ।
ॐ सुरेशाय नमः ।
ॐ माधवाय नमः ।
ॐ मधवे नमः ।
ॐ निर्णिमेषाय नमः ।
ॐ विधये नमः ।
ॐ वेधसे नमः ।
ॐ बलवते नमः ।
ॐ जीवनाय नमः ।
ॐ बलिने नमः ।
ॐ स्मर्त्रे नमः ।
ॐ श्रोत्रे नमः ।
ॐ विकर्त्रे नमः ।
ॐ ध्यात्रे नमः ।
ॐ नेत्रे नमः ।
ॐ समाय नमः ।
ॐ असमाय नमः ।
ॐ होत्रे नमः ।
ॐ पोत्रे नमः ।
ॐ महावक्त्रे नमः ।
ॐ रन्त्रे नमः ।
ॐ मन्त्रे नमः ।
ॐ खलान्तकाय नमः ।
ॐ दात्रे नमः ।
ॐ ग्राहयित्रे नमः ।
ॐ मात्रे नमः ।
ॐ नियन्त्रे नमः ।
ॐ अनन्तवैभवाय नमः ।
ॐ गोप्त्रे नमः ।
ॐ गोपयित्रे नमः ।
ॐ हन्त्रे नमः ।
ॐ धर्मजागरित्रे नमः ।
ॐ धवाय नमः ।
ॐ कर्त्रे नमः ।
ॐ क्षेत्रकराय नमः ।
ॐ क्षेत्रप्रदाय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ आत्मविदे नमः ।
ॐ क्षेत्रिणे नमः ।
ॐ क्षेत्रहराय नमः ।
ॐ क्षेत्रप्रियाय नमः ।
ॐ क्षेमकराय नमः ।
ॐ मरुते नमः ।
ॐ भक्तिप्रदाय नमः ।
ॐ मुक्तिदायिने नमः ।
ॐ शक्तिदाय नमः ।
ॐ युक्तिदायकाय नमः ।
ॐ शक्तियुजे नमः ।
ॐ मौक्तिकस्रग्विणे नमः ।
ॐ सूक्तये नमः ।
ॐ आम्नायसूक्तिगाय नमः ।
ॐ धनञ्जयाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ धनिकाय नमः ।
ॐ धनदाधिपाय नमः ।
ॐ महाधनाय नमः ।
ॐ महामानिने नमः ।
ॐ दुर्योधनविमानिताय नमः ।
ॐ रत्नाकराय नमः ।
ॐ रत्न रोचिषे नमः ।
ॐ रत्नगर्भाश्रयाय नमः ।
ॐ शुचये नमः ।
ॐ रत्नसानुनिधये नमः ।
ॐ मौलिरत्नभासे नमः ।
ॐ रत्नकङ्कणाय नमः ।
ॐ अन्तर्लक्ष्याय नमः ।
ॐ अन्तरभ्यासिने नमः ।
ॐ अन्तर्ध्येयाय नमः ।
ॐ जितासनाय नमः ।
ॐ अन्तरङ्गाय नमः ।
ॐ दयावते नमः ।
ॐ अन्तर्मायाय नमः ।
ॐ महार्णवाय नमः ।
ॐ सरसाय नमः ।
ॐ सिद्धरसिकाय नमः ।
ॐ सिद्धये नमः ।
ॐ साध्याय नमः ।
ॐ सदागतये नमः ।
ॐ आयुःप्रदाय नमः ।
ॐ महायुष्मते नमः ।
ॐ अर्चिष्मते नमः ।
ॐ ओषधीपतये नमः ।
ॐ अष्टश्रियै नमः ।
ॐ अष्टभागाय नमः ।
ॐ अष्टककुब्व्याप्तयशसे नमः ।
ॐ व्रतिने नमः ।
॥ ८०० ॥
ॐ अष्टापदाय नमः ।
ॐ सुवर्णाभाय नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ त्रिमूर्तिमते नमः ।
ॐ अस्वप्नाय नमः ।
ॐ स्वप्नगाय नमः ।
ॐ स्वप्नाय नमः ।
ॐ सुस्वप्नफलदायकाय नमः ।
ॐ दुस्स्वप्नध्वंसकाय नमः ।
ॐ ध्वस्तदुर्निमित्ताय नमः ।
ॐ शिवङ्कराय नमः ।
ॐ सुवर्णवर्णाय नमः ।
ॐ सम्भाव्याय नमः ।
ॐ वर्णिताय नमः ।
ॐ वर्णसम्मुखाय नमः ।
ॐ सुवर्णमुखरीतीरशिव ध्यातपदाम्बुजाय नमः ।
ॐ दाक्षायणीवचस्तुष्टाय नमः ।
ॐ दुर्वासोदृष्टिगोचराय नमः ।
ॐ अम्बरीषव्रतप्रीताय नमः ।
ॐ महाकृत्तिविभञ्जनाय नमः ।
ॐ महाभिचारकध्वंसिने नमः ।
ॐ कालसर्पभयान्तकाय नमः ।
ॐ सुदर्शनाय नमः ।
ॐ कालमेघश्यामाय नमः ।
ॐ श्रीमन्त्रभाविताय नमः ।
ॐ हेमाम्बुजसरस्नायिने नमः ।
ॐ श्रीमनोभाविताकृतये नमः ।
ॐ श्रीप्रदत्ताम्बुजस्रग्विणे नमः ।
ॐ श्रीकेलये नमः ।
ॐ श्रीनिधये नमः ।
ॐ भवाय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ वामनाय नमः ।
ॐ लक्ष्मीनायकाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ सन्तृप्ताय नमः ।
ॐ तर्पिताय नमः ।
ॐ तीर्थस्नातृसौख्यप्रदर्शकाय नमः ।
ॐ अगस्त्यस्तुतिसंहृष्टाय नमः ।
ॐ दर्शिताव्यक्तभावनाय नमः ।
ॐ कपिलार्चिषे नमः ।
ॐ कपिलवते नमः ।
ॐ सुस्नाताघाविपाटनाय नमः ।
ॐ वृषाकपये नमः ।
ॐ कपिस्वामिमनोन्तस्थितविग्रहाय नमः ।
ॐ वह्निप्रियाय नमः ।
ॐ अर्थसम्भवाय नमः ।
ॐ जनलोकविधायकाय नमः ।
ॐ वह्निप्रभाय नमः ।
ॐ वह्नितेजसे नमः ।
ॐ शुभाभीष्टप्रदाय नमः ।
ॐ यमिने नमः ।
ॐ वारुणक्षेत्रनिलयाय नमः ।
ॐ वरुणाय नमः ।
ॐ वारणार्चिताय नमः ।
ॐ वायुस्थानकृतावासाय नमः ।
ॐ वायुगाय नमः ।
ॐ वायुसम्भृताय नमः ।
ॐ यमान्तकाय नमः ।
ॐ अभिजननाय नमः ।
ॐ यमलोकनिवारणाय नमः ।
ॐ यमिनामग्रगण्याय नमः ।
ॐ सम्यमिने नमः ।
ॐ यमभाविताय नमः ।
ॐ इन्द्रोद्यानसमीपस्थाय नमः ।
ॐ इन्द्रदृग्विषयाय नमः ।
ॐ प्रभवे नमः ।
ॐ यक्षराट्सरसीवासाय नमः ।
ॐ अक्षय्यनिधिकोशकृते नमः ।
ॐ स्वामितीर्थकृतावासाय नमः ।
ॐ स्वामिध्येयाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ वराहाद्यष्टतीर्थाभिसेविताङ्घ्रिसरोरुहाय नमः ।
ॐ पाण्डुतीर्थाभिषिक्ताङ्गाय नमः ।
ॐ युधिष्ठिरवरप्रदाय नमः ।
ॐ भीमान्तःकरणारूढाय नमः ।
ॐ श्वेतवाहनसख्यवते नमः ।
ॐ नकुलाभयदाय नमः ।
ॐ माद्रीसहदेवाभिवन्दिताय नमः ।
ॐ कृष्णाशपथसन्धात्रे नमः ।
ॐ कुन्तीस्तुतिरताय नमः ।
ॐ दमिने नमः ।
ॐ नारदादिमुनिस्तुत्याय नमः ।
ॐ नित्यकर्मपरायणाय नमः ।
ॐ दर्शिताव्यक्तरूपाय नमः ।
ॐ वीणानादप्रमोदिताय नमः ।
ॐ षट्कोटितीर्थचर्यावते नमः ।
ॐ देवतीर्थकृताश्रमाय नमः ।
ॐ बिल्वामलजलस्नायिने नमः ।
ॐ सरस्वत्यम्बुसेविताय नमः ।
॥ ९०० ॥
ॐ तुम्बुरूदकसंस्पर्शजनचित्ततमोपहाय नमः ।
ॐ मत्स्यवामनकूर्मादितीर्थराजाय नमः ।
ॐ पुराणभृते नमः ।
ॐ चक्रध्येयपदाम्भोजाय नमः ।
ॐ शङ्खपूजितपादुकाय नमः ।
ॐ रामतीर्थविहारिणे नमः ।
ॐ बलभद्रप्रतिष्ठिताय नमः ।
ॐ जामदग्न्यसरस्तीर्थजलसेचनतर्पिताय नमः ।
ॐ पापापहारिकीलालसुस्नाताघविनाशनाय नमः ।
ॐ नभोगङ्गाभिषिक्ताय नमः ।
ॐ नागतीर्थाभिषेकवते नमः ।
ॐ कुमारधारातीर्थस्थाय नमः ।
ॐ वटुवेषाय नमः ।
ॐ सुमेखलाय नमः ।
ॐ वृद्धस्यसुकुमारत्व प्रदाय नमः ।
ॐ सौन्दर्यवते नमः ।
ॐ सुखिने नमः ।
ॐ प्रियंवदाय नमः ।
ॐ महाकुक्षये नमः ।
ॐ इक्ष्वाकुकुलनन्दनाय नमः ।
ॐ नीलगोक्षीरधाराभुवे नमः ।
ॐ वराहाचलनायकाय नमः ।
ॐ भरद्वाजप्रतिष्ठावते नमः ।
ॐ बृहस्पतिविभाविताय नमः ।
ॐ अञ्जनाकृतपूजावते नमः ।
ॐ आञ्जनेयकरार्चिताय नमः ।
ॐ अञ्जनाद्रिनिवासाय नमः ।
ॐ मुञ्जकेशाय नमः ।
ॐ पुरन्दराय नमः ।
ॐ किन्नरद्वन्द्वसम्बन्धिबन्धमोक्षप्रदायकाय नमः ।
ॐ वैखानसमखारम्भाय नमः ।
ॐ वृषज्ञेयाय नमः ।
ॐ वृषाचलाय नमः ।
ॐ वृषकायप्रभेत्त्रे नमः ।
ॐ क्रीडनाचारसम्भ्रमाय नमः ।
ॐ सौवर्चलेयविन्यस्तराज्याय नमः ।
ॐ नारायणप्रियाय नमः ।
ॐ दुर्मेधोभञ्जकाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ ब्रह्मोत्सवमहोत्सुकाय नमः ।
ॐ भद्रासुरशिरश्छेत्रे नमः ।
ॐ भद्रक्षेत्रिणे नमः ।
ॐ सुभद्रवते नमः ।
ॐ मृगयाक्षीणसन्नाहाय नमः ।
ॐ शङ्खराजन्यतुष्टिदाय नमः ।
ॐ स्थाणुस्थाय नमः ।
ॐ वैनतेयाङ्गभाविताय नमः ।
ॐ अशरीरवते नमः ।
ॐ भोगीन्द्रभोगसंस्थानाय नमः ।
ॐ ब्रह्मादिगणसेविताय नमः ।
ॐ सहस्रार्कच्छटाभास्वद्विमानान्तःस्थिताय नमः ।
ॐ गुणिने नमः ।
ॐ विष्वक्सेनकृतस्तोत्राय नमः ।
ॐ सनन्दनपरीवृताय नमः ।
ॐ जाह्नव्यादिनदीसेव्याय नमः ।
ॐ सुरेशाद्यभिवन्दिताय नमः ।
ॐ सुराङ्गनानृत्यपराय नमः ।
ॐ गन्धर्वोद्गायनप्रियाय नमः ।
ॐ राकेन्दुसङ्काशनखाय नमः ।
ॐ कोमलाङ्घ्रिसरोरुहाय नमः ।
ॐ कोमलाङ्घ्रिसरोरुहाय नमः ।
ॐ कच्छपप्रपदाय नमः ।
ॐ कुन्दगुल्फकाय नमः ।
ॐ स्वच्छकूर्पराय नमः ।
ॐ मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलाय नमः ।
ॐ प्रोल्लसच्छुरिकाभास्वत्कटिदेशाय नमः ।
ॐ शुभङ्कराय नमः ।
ॐ अनन्तपद्मजस्थाननाभये नमः ।
ॐ मौक्तिकमालिकाय नमः ।
ॐ मन्दारचाम्पेयमालिने नमः ।
ॐ रत्नाभरणसम्भृताय नमः ।
ॐ लम्बयज्ञोपवीतिने नमः ।
ॐ चन्द्रश्रीखण्डलेपवते नमः ।
ॐ वरदाय नमः ।
ॐ अभयदाय नमः ।
ॐ चक्रिणे नमः ।
ॐ शङ्खिने नमः ।
ॐ कौस्तुभदीप्तिमते नमः ।
ॐ श्रीवत्साङ्कितवक्षस्काय नमः ।
ॐ लक्ष्मीसंश्रितहृत्तटाय नमः ।
ॐ नीलोत्पलनिभाकाराय नमः ।
ॐ शोणाम्भोजसमाननाय नमः ।
ॐ कोटिमन्मथलावण्याय नमः ।
ॐ चन्द्रिकास्मितपूरिताय नमः ।
ॐ सुधास्वच्छोर्ध्वपुण्ड्राय नमः ।
ॐ कस्तूरीतिलकाञ्चिताय नमः ।
ॐ पुण्डरीकेक्षणाय नमः ।
ॐ स्वच्छाय नमः ।
ॐ मौलिशोभाविराजिताय नमः ।
ॐ पद्मस्थाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ सोममण्डलगाय नमः ।
ॐ बुधाय नमः ।
ॐ वह्निमण्डलगाय नमः ।
ॐ सूर्याय नमः ।
ॐ सूर्यमण्डलसंस्थिताय नमः ।
ॐ श्रीपतये नमः ।
ॐ भूमिजानये नमः ।
ॐ विमलाद्यभिसंवृताय नमः ।
ॐ जगत्कुटुम्बजनित्रे नमः ।
ॐ रक्षकाय नमः ।
ॐ कामितप्रदाय नमः ।
ॐ अवस्थात्रययन्त्रे नमः ।
ॐ विश्वतेजस्स्वरूपवते नमः ।
ॐ ज्ञप्तये नमः ।
ॐ ज्ञेयाय नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानातीताय नमः ।
ॐ सुरातिगाय नमः ।
ॐ ब्रह्माण्डान्तर्बहिर्व्याप्ताय नमः ।
ॐ वेङ्कटाद्रिगदाधराय नमः ।
॥ १००० ॥
॥ इति श्री वेङ्कटेश्वर सहस्रनामावलिः सम्पूर्णम् ॥
संलिखित ग्रंथ
श्री वेङ्कटेश्वर सहस्रनामावलिः — विस्तृत परिचय एवं कलयुग महिमा (Introduction)
श्री वेङ्कटेश्वर सहस्रनामावलिः (Sri Venkateshwara Sahasranamavali) भगवान विष्णु के सर्वाधिक जाग्रत और कल्याणकारी अवतार, भगवान वेंकटेश्वर के १००० पवित्र नामों का सिद्ध संकलन है। आंध्र प्रदेश के तिरुमाला पर्वत (सप्तगिरि) पर विराजमान भगवान वेंकटेश्वर को कलयुग का "प्रत्यक्ष देव" माना जाता है। "वेङ्कट" शब्द का अर्थ स्वयं में एक महान मंत्र है — "वेम" का अर्थ है पाप और "कट" का अर्थ है नष्ट करना। अतः, भगवान वेंकटेश्वर वह सत्ता हैं जो शरणागत भक्तों के अनंत जन्मों के पापों को क्षण भर में भस्म कर देते हैं। इस सहस्रनामावली का पाठ साधक के जीवन में आध्यात्मिक प्रकाश और भौतिक समृद्धि दोनों का मार्ग प्रशस्त करता है।
पौराणिक कथाओं के अनुसार, कलयुग के बढ़ते प्रभाव को देखते हुए जब ऋषियों ने विचार किया कि किस देवता की उपासना से शीघ्र फल प्राप्त होगा, तब महर्षि भृगु ने त्रिदेवों की परीक्षा ली और अंततः भगवान विष्णु को शांत और क्षमाशील पाया। भगवान विष्णु ने कलयुग के उद्धार के लिए तिरुमाला पहाड़ियों पर "श्रीनिवास" के रूप में अवतार लिया। इस सहस्रनामावली के प्रत्येक नाम में भगवान के उस अवतार की लीला, उनकी शक्ति और उनकी भक्तवत्सलता का वर्णन मिलता है। जैसे "शेषाद्रिनिलयाय" (शेषनाग रूपी पर्वत पर निवास करने वाले) और "अशेषभक्तदुःखप्रणाशनाय" (भक्तों के सभी दुखों को जड़ से मिटाने वाले)। ये १००० नाम वास्तव में १००० दिव्य बीज हैं जो साधक के अंतर्मन को शोधित करते हैं।
भगवान वेंकटेश्वर का स्वरूप अत्यंत वैभवशाली है, जो लक्ष्मी (श्री) के साथ उनके अटूट संबंध को दर्शाता है। इसी कारण उनकी उपासना से दरिद्रता का समूल नाश होता है और साधक को "अष्टलक्ष्मी" की कृपा प्राप्त होती है। सहस्रनामावली का अर्चन करते समय जब हम प्रत्येक नाम के आरंभ में ॐ और अंत में "नमः" जोड़ते हैं, तो वह एक पूर्ण मंत्र बन जाता है। तिरुपति मंदिर में नित्य होने वाले 'सहस्र कलशाभिषेक' और 'अर्चन' का आधार यही १००० नाम हैं। इन नामों का सस्वर पाठ करने से न केवल मानसिक तनाव दूर होता है, बल्कि जातक के आभा मंडल (Aura) में सकारात्मक ऊर्जा का संचार होता है, जो उसे बाहरी बाधाओं से सुरक्षित रखता है।
वर्तमान समय में, जहाँ मनुष्य आर्थिक तंगी, पारिवारिक कलह और अज्ञात भयों से ग्रस्त है, वहाँ श्री वेङ्कटेश्वर सहस्रनामावलिः एक "दैवीय वरदान" सिद्ध होती है। भगवान बालाजी की "वरद मुद्रा" यह संदेश देती है कि जो भी उनके नामों का आश्रय लेगा, वह कभी रिक्त हस्त नहीं रहेगा। यह पाठ केवल श्रद्धा का विषय नहीं है, बल्कि यह स्वयं को ब्रह्मांडीय चेतना (Cosmic Consciousness) के साथ जोड़ने और कलयुग के प्रतिकूल प्रभावों से मुक्त होने का एक वैज्ञानिक और आध्यात्मिक मार्ग है। इन नामों का निरंतर अर्चन साधक को 'श्रीनिवास' के चरणों में स्थान दिलाकर उसे जन्म-मरण के बंधन से मुक्त कर देता है।
विशिष्ट आध्यात्मिक महत्व एवं संकल्प सिद्धि (Significance)
वेंकटेश्वर सहस्रनामावली का महत्व इसलिए सर्वोपरि है क्योंकि इसे "कलयुग का तारक मंत्र" माना गया है। शास्त्रों में उल्लेख है कि जिस प्रकार सतयुग में तपस्या, त्रेता में यज्ञ और द्वापर में पूजा का महत्व था, वैसे ही कलयुग में केवल "नाम संकीर्तन" ही जीव का उद्धार कर सकता है। तिरुमाला की पहाड़ियाँ साक्षात् वैकुंठ का पृथ्वी पर अवतरण हैं, और इन १००० नामों का जप वैकुंठ के द्वार खोलने की कुंजी है।
विशेष रूप से शनिवार (Saturday), जो बालाजी का अत्यंत प्रिय दिन है, इस नामावली का पाठ करना अमोघ फलदायी है। यह पाठ उन लोगों के लिए अनिवार्य माना गया है जो भारी ऋण (Debt), कानूनी बाधाओं या शत्रुओं के कुचक्रों से घिरे हुए हैं। प्रत्येक नाम भगवान की एक विशेष शक्ति को साधक के भीतर प्रवाहित करता है।
फलश्रुति: नामावली पाठ के अभूतपूर्व लाभ (Benefits)
शास्त्रों और भक्तों के अनुभवों के अनुसार, श्री वेङ्कटेश्वर सहस्रनामावली के अर्चन से निम्नलिखित फल प्राप्त होते हैं:
- अक्षय लक्ष्मी प्राप्ति: भगवान श्रीनिवास समृद्धि के स्वामी हैं। उनके नामों के जप से घर में धन-धान्य की कभी कमी नहीं रहती और दरिद्रता दूर होती है।
- ऋण और संकट मुक्ति: यह पाठ जातक को आर्थिक कर्जों और जीवन के भीषण संकटों से बाहर निकालने में एक 'दिव्य नौका' की तरह कार्य करता है।
- पाप मुक्ति और आत्मशुद्धि: "वेङ्कट" स्वरूप का ध्यान संचित पापों को जलाकर चित्त को निर्मल और शांत बनाता है।
- मानसिक शांति और आत्मविश्वास: अवसाद (Depression) और अज्ञात भयों से मुक्ति मिलती है, जिससे साधक में नई ऊर्जा और संकल्प शक्ति का संचार होता है।
- मोक्ष की प्राप्ति: जो भक्त निष्काम भाव से इन १००० नामों का जप करते हैं, उन्हें अंततः भगवान के परम पद (बैकुंठ) की प्राप्ति होती है।
पाठ विधि एवं अर्चना विधान (Ritual Method)
भगवान वेंकटेश्वर की उपासना में पवित्रता और श्रद्धा का विशेष महत्व है। पूर्ण लाभ हेतु निम्नलिखित विधि अपनाएँ:
साधना के नियम:
- समय: प्रातःकाल 'ब्रह्म मुहूर्त' सर्वश्रेष्ठ है। शनिवार और एकादशी के दिन अर्चन करना विशेष फलदायी है।
- शुद्धि: स्नान के पश्चात पीले या श्वेत वस्त्र धारण करें। मुख पूर्व या उत्तर दिशा की ओर रखें।
- सामग्री: १००० नामों के साथ १००० तुलसी दल (Basil leaves) या पीले पुष्पों से भगवान के चित्र या मूर्ति पर अर्पण करें।
- नैवेद्य: गुड़, मिश्री, या लड्डू का भोग लगाएँ। बालाजी को लड्डू अत्यंत प्रिय है।
- दीप: गाय के शुद्ध घी का दीपक जलाएँ और पूजा के दौरान "गोविंदा-गोविंदा" का मानसिक जप करें।
विशेष मनोकामना हेतु:
- शीघ्र कार्य सिद्धि के लिए: लगातार ४१ शनिवार तक श्रद्धापूर्वक सहस्रनामावली का अर्चन करें।
अक्सर पूछे जाने वाले प्रश्न (FAQ)
1. श्री वेङ्कटेश्वर सहस्रनामावली का पाठ किस समय करना चाहिए?
सूर्योदय के समय प्रातःकाल पाठ करना सर्वश्रेष्ठ है। यदि समय न हो, तो संध्या वंदन के समय भी इसका पाठ किया जा सकता है।
2. क्या इस नामावली का पाठ घर में किया जा सकता है?
हाँ, घर के पवित्र पूजा स्थान पर भगवान वेंकटेश्वर के चित्र के सामने बैठकर यह पाठ किया जा सकता है।
3. १००० नामों से अर्चना करने के लिए क्या सामग्री सबसे अच्छी है?
भगवान विष्णु और वेंकटेश्वर को "तुलसी दल" अत्यंत प्रिय है। १००० तुलसी पत्रों से अर्चन करना महापुण्यकारी माना जाता है।
4. 'वेङ्कट' शब्द का वास्तविक अर्थ क्या है?
'वेम' का अर्थ है पाप और 'कट' का अर्थ है दहन। जो देव अपने भक्तों के पापों को भस्म कर दे, वही 'वेङ्कट' है।
5. क्या बिना संस्कृत जाने केवल पाठ सुनने से लाभ मिलता है?
हाँ, ईश्वरीय नामों की ध्वनि तरंगें (Sound Vibrations) अत्यंत शक्तिशाली होती हैं। श्रद्धापूर्वक सुनने मात्र से भी मानसिक शांति प्राप्त होती है।
6. शनिवार के दिन पाठ करने का क्या महत्व है?
शनिवार भगवान वेंकटेश्वर का प्रिय दिन है। इस दिन पाठ करने से शनि ग्रह के दोष शांत होते हैं और बालाजी की विशेष कृपा मिलती है।
7. क्या स्त्रियाँ श्री वेङ्कटेश्वर सहस्रनामावली का पाठ कर सकती हैं?
निश्चित रूप से। भगवत भक्ति में कोई भेदभाव नहीं है। स्त्रियाँ पूर्ण पवित्रता और श्रद्धा के साथ इन १००० नामों का जप कर सकती हैं।
8. पाठ के दौरान ॐ और नमः क्यों जोड़ा जाता है?
ॐ ब्रह्मांड की मूल ध्वनि है और नमः पूर्ण समर्पण का भाव। इनके जुड़ने से नाम एक शक्तिशाली सिद्ध मंत्र बन जाता है।
9. क्या इस पाठ से कर्ज (Loan) से मुक्ति मिल सकती है?
जी हाँ, बालाजी को 'ऋणमोचन' माना गया है। श्रद्धापूर्वक नामों का अर्चन करने से आर्थिक बाधाएँ दूर होती हैं और कर्ज से मुक्ति का मार्ग खुलता है।
10. 'श्रीनिवास' नाम की क्या महिमा है?
इसका अर्थ है — "वह जिनके हृदय में लक्ष्मी (श्री) का सदैव निवास है"। यह नाम सौभाग्य और ऐश्वर्य का प्रतीक है।