Logoपवित्र ग्रंथ

Sri Shyamala Sahasranamavali – श्री श्यामला सहस्रनामावली

Sri Shyamala Sahasranamavali – श्री श्यामला सहस्रनामावली
॥ श्री श्यामला सहस्रनामावली ॥ ॐ सौभाग्यलक्ष्म्यै नमः । ॐ सौन्दर्यनिधये नमः । ॐ समरसप्रियायै नमः । ॐ सर्वकल्याणनिलयायै नमः । ॐ सर्वेश्यै नमः । ॐ सर्वमङ्गलायै नमः । ॐ सर्ववश्यकर्यै नमः । ॐ सर्वायै नमः । ॐ सर्वमङ्गलायै नमः । ॐ सर्वमङ्गलदायिन्यै नमः । ॐ सर्वविद्यादानदक्षायै नमः । ॐ सङ्गीतोपनिषत्प्रियायै नमः । ॐ सर्वभूतहृदावासायै नमः । ॐ सर्वगीर्वाणपूजितायै नमः । ॐ समृद्धायै नमः । ॐ सङ्गमुदितायै नमः । ॐ सर्वलोकैकसंश्रयायै नमः । ॐ सप्तकोटिमहामन्त्रस्वरूपायै नमः । ॐ सर्वसाक्षिण्यै नमः । ॐ सर्वाङ्गसुन्दर्यै नमः । ॐ सर्वगतायै नमः । ॐ सत्यस्वरूपिण्यै नमः । ॐ समायै नमः । ॐ समयसंवेद्यायै नमः । ॐ समयज्ञायै नमः । ॐ सदाशिवायै नमः । ॐ सङ्गीतरसिकायै नमः । ॐ सर्वकलामयशुकप्रियायै नमः । ॐ चन्दनालेपदिग्धाङ्ग्यै नमः । ॐ सच्चिदानन्दरूपिण्यै नमः । ॐ कदम्बवाटीनिलयायै नमः । ॐ कमलाकान्तसेवितायै नमः । ॐ कटाक्षोत्पन्नकन्दर्पायै नमः । ॐ कटाक्षितमहेश्वरायै नमः । ॐ कल्याण्यै नमः । ॐ कमलासेव्यायै नमः । ॐ कल्याणाचलवासिन्यै नमः । ॐ कान्तायै नमः । ॐ कन्दर्पजनन्यै नमः । ॐ करुणारससागरायै नमः । ॐ कलिदोषहरायै नमः । ॐ काम्यायै नमः । ॐ कामदायै नमः । ॐ कामवर्धिन्यै नमः । ॐ कदम्बकलिकोत्तंसायै नमः । ॐ कदम्बकुसुमप्रियायै नमः । ॐ कदम्बमूलरसिकायै नमः । ॐ कामाक्ष्यै नमः । ॐ कमलाननायै नमः । ॐ कम्बुकण्ठ्यै नमः । ॐ कलालापायै नमः । ॐ कमलासनपूजितायै नमः । ॐ कात्यायन्यै नमः । ॐ केलिपरायै नमः । ॐ कमलाक्षसहोदर्यै नमः । ॐ कमलाक्ष्यै नमः । ॐ कलारूपायै नमः । ॐ कोकाकारकुचद्वयायै नमः । ॐ कोकिलायै नमः । ॐ कोकिलारावायै नमः । ॐ कुमारजनन्यै नमः । ॐ शिवायै नमः । ॐ सर्वज्ञायै नमः । ॐ सन्ततोन्मत्तायै नमः । ॐ सर्वैश्वर्यप्रदायिन्यै नमः । ॐ सुधाप्रियायै नमः । ॐ सुराराध्यायै नमः । ॐ सुकेश्यै नमः । ॐ सुरसुन्दर्यै नमः । ॐ शोभनायै नमः । ॐ शुभदायै नमः । ॐ शुद्धायै नमः । ॐ शुद्धचित्तैकवासिन्यै नमः । ॐ वेदवेद्यायै नमः । ॐ वेदमय्यै नमः । ॐ विद्याधरगणार्चितायै नमः । ॐ वेदान्तसारायै नमः । ॐ विश्वेश्यै नमः । ॐ विश्वरूपायै नमः । ॐ विरूपिण्यै नमः । ॐ विरूपाक्षप्रियायै नमः । ॐ विद्यायै नमः । ॐ विन्ध्याचलनिवासिन्यै नमः । ॐ वीणावादविनोदज्ञायै नमः । ॐ वीणागानविशारदायै नमः । ॐ वीणावत्यै नमः । ॐ बिन्दुरूपायै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मरूपिण्यै नमः । ॐ पार्वत्यै नमः । ॐ परमायै नमः । ॐ अचिन्त्यायै नमः । ॐ परायै शक्त्यै नमः । ॐ परात्परायै नमः । ॐ परानन्दायै नमः । ॐ परेशान्यै नमः । ॐ परविद्यायै नमः । ॐ परापरायै नमः । ॐ भक्तप्रियायै नमः । ॐ भक्तिगम्यायै नमः । ॐ भक्तानां परमायै गत्यै नमः । ॥ १०० ॥ ॐ भव्यायै नमः । ॐ भवप्रियायै नमः । ॐ भीरवे नमः । ॐ भवसागरतारिण्यै नमः । ॐ भयघ्न्यै नमः । ॐ भावुकायै नमः । ॐ भव्यायै नमः । ॐ भामिन्यै नमः । ॐ भक्तपालिन्यै नमः । ॐ भेदशून्यायै नमः । ॐ भेदहन्त्र्यै नमः । ॐ भावनायै नमः । ॐ मुनिभावितायै नमः । ॐ मायायै नमः । ॐ महेश्वर्यै नमः । ॐ मान्याय नमः । ॐ मातङ्ग्यै नमः । ॐ मलयालयायै नमः । ॐ महनीयायै नमः । ॐ मदशालिन्यै नमः । ॐ मन्त्रिण्यै नमः । ॐ मन्त्रनायिकायै नमः । ॐ महानन्दायै नमः । ॐ मनोगम्यायै नमः । ॐ मतङ्गकुलमण्डनायै नमः । ॐ मनोज्ञायै नमः । ॐ मानिन्यै नमः । ॐ माध्वीसिन्धुमध्यकृतालयायै नमः । ॐ मधुप्रीतायै नमः । ॐ नीलकचायै नमः । ॐ माध्वीरसमदालसायै नमः । ॐ पूर्णचन्द्राभवदनायै नमः । ॐ पूर्णायै नमः । ॐ पुण्यफलप्रदायै नमः । ॐ पुलोमजार्चितायै नमः । ॐ पूज्यायै नमः । ॐ पुरुषार्थप्रदायिन्यै नमः । ॐ नारायण्यै नमः । ॐ नादरूपायै नमः । ॐ नादब्रह्मस्वरूपिण्यै नमः । ॐ नित्यायै नमः । ॐ नवनवाकारायै नमः । ॐ नित्यानन्दायै नमः । ॐ निराकुलायै नमः । ॐ निटिलाक्षप्रियायै नमः । ॐ नेत्र्यै नमः । ॐ नीलेन्दीवरलोचनायै नमः । ॐ तमालकोमलाकारायै नमः । ॐ तरुण्यै नमः । ॐ तनुमध्यमायै नमः । ॐ तटित्पिशङ्गवसनायै नमः । ॐ तटित्कोटिसमद्युतये नमः । ॐ मधुरायै नमः । ॐ मङ्गलायै नमः । ॐ मेध्यायै नमः । ॐ मधुपानप्रिया सख्यै नमः । ॐ चित्कलायै नमः । ॐ चारुवदनायै नमः । ॐ सुखरूपायै नमः । ॐ सुखप्रदायै नमः । ॐ कूटस्थायै नमः । ॐ कौलिन्यै नमः । ॐ कूर्मपीठस्थायै नमः । ॐ कुटिलालकायै नमः । ॐ शान्तायै नमः । ॐ शान्तिमत्यै नमः । ॐ शान्त्यै नमः । ॐ श्यामलायै नमः । ॐ श्यामलाकृत्यै नमः । ॐ शङ्खिन्यै नमः । ॐ शङ्कर्यै नमः । ॐ शैव्यै नमः । ॐ शङ्खकुण्डलमण्डितायै नमः । ॐ कुन्ददन्तायै नमः । ॐ कोमलाङ्ग्यै नमः । ॐ कुमार्यै नमः । ॐ कुलयोगिन्यै नमः । ॐ निगर्भयोगिनीसेव्यायै नमः । ॐ निरन्तररतिप्रियायै नमः । ॐ शिवदूत्यै नमः । ॐ शिवकर्यै नमः । ॐ जटिलायै नमः । ॐ जगदाश्रयायै नमः । ॐ शाम्भव्यै नमः । ॐ योगिनिलयायै नमः । ॐ परचैतन्यरूपिण्यै नमः । ॐ दहराकाशनिलयायै नमः । ॐ दण्डिनीपरिपूजितायै नमः । ॐ सम्पत्करीगजारूढायै नमः । ॐ सान्द्रानन्दायै नमः । ॐ सुरेश्वर्यै नमः । ॐ चम्पकोद्भासितकचायै नमः । ॐ चन्द्रशेखरवल्लभायै नमः । ॐ चारुरूपायै नमः । ॐ चारुदत्यै नमः । ॐ चन्द्रिकायै नमः । ॐ शम्भुमोहिन्यै नमः । ॐ विमलायै नमः । ॐ विदुष्यै नमः । ॐ वाण्यै नमः । ॥ २०० ॥ ॐ कमलायै नमः । ॐ कमलासनायै नमः । ॐ करुणापूर्णहृदयायै नमः । ॐ कामेश्यै नमः । ॐ कम्बुकन्धरायै नमः । ॐ राजराजेश्वर्यै नमः । ॐ राजमातङ्ग्यै नमः । ॐ राजवल्लभायै नमः । ॐ सचिवायै नमः । ॐ सचिवेशान्यै नमः । ॐ सचिवत्वप्रदायिन्यै नमः । ॐ पञ्चबाणार्चितायै नमः । ॐ बालायै नमः । ॐ पञ्चम्यै नमः । ॐ परदेवतायै नमः । ॐ उमायै नमः । ॐ महेश्वर्यै नमः । ॐ गौर्यै नमः । ॐ सङ्गीतज्ञायै नमः । ॐ सरस्वत्यै नमः । ॐ कविप्रियायै नमः । ॐ काव्यकलायै नमः । ॐ कलौ सिद्धिप्रदायिन्यै नमः । ॐ ललितामन्त्रिण्यै नमः । ॐ रम्यायै नमः । ॐ ललिताराज्यपालिन्यै नमः । ॐ ललितासेवनपरायै नमः । ॐ ललिताज्ञावशंवदायै नमः । ॐ ललिताकार्यचतुरायै नमः । ॐ ललिताभक्तपालिन्यै नमः । ॐ ललितार्धासनारूढायै नमः । ॐ लावण्यरसशेवधये नमः । ॐ रञ्जन्यै नमः । ॐ लालितशुकायै नमः । ॐ लसच्चूलीवरान्वितायै नमः । ॐ रागिण्यै नमः । ॐ रमण्यै नमः । ॐ रामायै नमः । ॐ रत्यै नमः । ॐ रतिसुखप्रदायै नमः । ॐ भोगदायै नमः । ॐ भोग्यदायै नमः । ॐ भूमिप्रदायै नमः । ॐ भूषणशालिन्यै नमः । ॐ पुण्यलभ्यायै नमः । ॐ पुण्यकीर्त्यै नमः । ॐ पुरन्दरपुरेश्वर्यै नमः । ॐ भूमानन्दायै नमः । ॐ भूतिकर्यै नमः । ॐ क्लीङ्कार्यै नमः । ॐ क्लिन्नरूपिण्यै नमः । ॐ भानुमण्डलमध्यस्थायै नमः । ॐ भामिन्यै नमः । ॐ भारत्यै नमः । ॐ धृत्यै नमः । ॐ नारायणार्चितायै नमः । ॐ नाथायै नमः । ॐ नादिन्यै नमः । ॐ नादरूपिण्यै नमः । ॐ पञ्चकोणस्थितायै नमः । ॐ लक्ष्म्यै नमः । ॐ पुराण्यै नमः । ॐ पुररूपिण्यै नमः । ॐ चक्रस्थितायै नमः । ॐ चक्ररूपायै नमः । ॐ चक्रिण्यै नमः । ॐ चक्रनायिकायै नमः । ॐ षट्चक्रमण्डलान्तःस्थायै नमः । ॐ ब्रह्मचक्रनिवासिन्यै नमः । ॐ अन्तरभ्यर्चनप्रीतायै नमः । ॐ बहिरर्चनलोलुपायै नमः । ॐ पञ्चाशत्पीठमध्यस्थायै नमः । ॐ मातृकावर्णरूपिण्यै नमः । ॐ महादेव्यै नमः । ॐ महाशक्त्यै नमः । ॐ महामायायै नमः । ॐ महामत्यै नमः । ॐ महारूपायै नमः । ॐ महादीप्त्यै नमः । ॐ महालावण्यशालिन्यै नमः । ॐ माहेन्द्र्यै नमः । ॐ मदिरादृप्तायै नमः । ॐ मदिरासिन्धुवासिन्यै नमः । ॐ मदिरामोदवदनायै नमः । ॐ मदिरापानमन्थरायै नमः । ॐ दुरितघ्न्यै नमः । ॐ दुःखहन्त्र्यै नमः । ॐ दूत्यै नमः । ॐ दूतरतिप्रियायै नमः । ॐ वीरसेव्यायै नमः । ॐ विघ्नहरायै नमः । ॐ योगिन्यै नमः । ॐ गणसेवितायै नमः । ॐ निजवीणारवानन्द-निमीलितविलोचनायै नमः । ॐ वज्रेश्वर्यै नमः । ॐ वश्यकर्यै नमः । ॐ सर्वचित्तविमोहिन्यै नमः । ॐ शबर्यै नमः । ॐ शम्बराराध्यायै नमः । ॐ शाम्बर्यै नमः । ॥ ३०० ॥ ॐ सामसंस्तुतायै नमः । ॐ त्रिपुरामन्त्रजपिन्यै नमः । ॐ त्रिपुरार्चनतत्परायै नमः । ॐ त्रिलोकेश्यै नमः । ॐ त्रयीमात्रे नमः । ॐ त्रिमूर्त्यै नमः । ॐ त्रिदिवेश्वर्यै नमः । ॐ ऐङ्कार्यै नमः । ॐ सर्वजनन्यै नमः । ॐ सौःकार्यै नमः । ॐ संविदीश्वर्यै नमः । ॐ बोधायै नमः । ॐ बोधकर्यै नमः । ॐ बोध्यायै नमः । ॐ बुधाराध्यायै नमः । ॐ पुरातन्यै नमः । ॐ भण्डसोदरसंहर्त्र्यै नमः । ॐ भण्डसैन्यविनाशिन्यै नमः । ॐ गेयचक्ररथारूढायै नमः । ॐ गुरुमूर्त्यै नमः । ॐ कुलाङ्गनायै नमः । ॐ गान्धर्वासशास्त्रमर्मज्ञायै नमः । ॐ गन्धर्वगणपूजितायै नमः । ॐ जगन्मात्रे नमः । ॐ जयकर्यै नमः । ॐ जनन्यै नमः । ॐ जनदेवतायै नमः । ॐ शिवाराध्यायै नमः । ॐ शिवार्धाङ्ग्यै नमः । ॐ शिञ्जन्मञ्जीरमण्डितायै नमः । ॐ सर्वात्मिकायै नमः । ॐ हृषीकेश्यै नमः । ॐ सर्वपापविनाशिन्यै नमः । ॐ सर्वरोगहरायै नमः । ॐ साध्यायै नमः । ॐ धर्मिण्यै नमः । ॐ धर्मरूपिण्यै नमः । ॐ आचारलभ्यायै नमः । ॐ स्वाचारायै नमः । ॐ खेचर्यै नमः । ॐ योनिरूपिण्यै नमः । ॐ पतिव्रतायै नमः । ॐ पाशहन्त्र्यै नमः । ॐ परमार्थस्वरूपिण्यै नमः । ॐ पण्डिता परिवाराढ्यायै नमः । ॐ पाषण्डमतभञ्जन्यै नमः । ॐ श्रीकर्यै नमः । ॐ श्रीमत्यै नमः । ॐ देव्यै नमः । ॐ बिन्दुनादस्वरूपिण्यै नमः । ॐ अपर्णायै नमः । ॐ हिमवत्पुत्र्यै नमः । ॐ दुर्गायै नमः । ॐ दुर्गतिहारिण्यै नमः । ॐ व्यालोलशङ्खताटङ्कायै नमः । ॐ विलसद्गण्डपालिकायै नमः । ॐ सुधामधुरसालापायै नमः । ॐ सिन्दूरतिलकोज्ज्वलायै नमः । ॐ अलक्तकारक्तपादायै नमः । ॐ नन्दनोद्यानवासिन्यै नमः । ॐ वासन्तकुसुमापीडायै नमः । ॐ वसन्तसमयप्रियायै नमः । ॐ ध्याननिष्ठायै नमः । ॐ ध्यानगम्यायै नमः । ॐ ध्येयायै नमः । ॐ ध्यानस्वरूपिण्यै नमः । ॐ दारिद्र्यहन्त्र्यै नमः । ॐ दौर्भाग्यशमन्यै नमः । ॐ दानवान्तकायै नमः । ॐ तीर्थरूपायै नमः । ॐ त्रिनयनायै नमः । ॐ तुरीयायै नमः । ॐ दोषवर्जितायै नमः । ॐ मेधाप्रदायिन्यै नमः । ॐ मेध्यायै नमः । ॐ मेदिन्यै नमः । ॐ मदशालिन्यै नमः । ॐ मधुकैटभसंहर्त्र्यै नमः । ॐ माधव्यै नमः । ॐ माधवप्रियायै नमः । ॐ महिलायै नमः । ॐ महिमासारायै नमः । ॐ शर्वाण्यै नमः । ॐ शर्मदायिन्यै नमः । ॐ रुद्राण्यै नमः । ॐ रुचिरायै नमः । ॐ रौद्र्यै नमः । ॐ रुक्मभूषणभूषितायै नमः । ॐ अम्बिकायै नमः । ॐ जगतां धात्र्यै नमः । ॐ जटिन्यै नमः । ॐ धूर्जटिप्रियायै नमः । ॐ सूक्ष्मस्वरूपिण्यै नमः । ॐ सौम्यायै नमः । ॐ सुरुचये नमः । ॐ सुरुचये नमः । ॐ सुरुचये नमः । ॐ सुरुचये नमः । ॐ सुरुचये नमः । ॐ सुरुचये नमः । ॐ सुरुचये नमः । ॐ सुरुचये नमः । ॐ सुरुचये नमः । ॐ सुलभायै नमः । ॐ शुभायै नमः । ॐ विपञ्चीकलनिक्वाण-विमोहितजगत्त्रयायै नमः । ॐ भैरवप्रेमनिलयायै नमः । ॐ भैरव्यै नमः । ॥ ४०० ॥ ॐ भासुराकृत्यै नमः । ॐ पुष्पिण्यै नमः । ॐ पुण्यनिलयायै नमः । ॐ पुण्यश्रवणकीर्तनायै नमः । ॐ कुरुकुल्लायै नमः । ॐ कुण्डलिन्यै नमः । ॐ वागीश्यै नमः । ॐ नकुलेश्वर्यै नमः । ॐ वामकेश्यै नमः । ॐ गिरिसुतायै नमः । ॐ वार्तालीपरिपूजितायै नमः । ॐ वारुणीमदरक्ताक्ष्यै नमः । ॐ वन्दारुवरदायिन्यै नमः । ॐ कटाक्षस्यन्दिकरुणायै नमः । ॐ कन्दर्पमदवर्धिन्यै नमः । ॐ दूर्वाश्यामायै नमः । ॐ दुष्टहन्त्र्यै नमः । ॐ दुष्टग्रहविभेदिन्यै नमः । ॐ सर्वशत्रुक्षयकर्यै नमः । ॐ सर्वसम्पत्प्रवर्धिन्यै नमः । ॐ कबरीशोभिकल्हारायै नमः । ॐ कलशिञ्जितमेखलायै नमः । ॐ मृणालीतुल्यदोर्वल्ल्यै नमः । ॐ मृडान्यै नमः । ॐ मृत्युवर्जितायै नमः । ॐ मृदुलायै नमः । ॐ मृत्युसंहर्त्र्यै नमः । ॐ मञ्जुलायै नमः । ॐ मञ्जुभाषिण्यै नमः । ॐ कर्पूरवीटीकबलायै नमः । ॐ कमनीयकपोलभुवे नमः । ॐ कर्पूरक्षोददिग्धाङ्ग्यै नमः । ॐ कर्त्र्यै नमः । ॐ कारणवर्जितायै नमः । ॐ अनादिनिधनायै नमः । ॐ धात्र्यै नमः । ॐ धात्रीधरकुलोद्भवायै नमः । ॐ स्तोत्रप्रियायै नमः । ॐ स्तुतिमय्यै नमः । ॐ मोहिन्यै नमः । ॐ मोहहारिण्यै नमः । ॐ जीवरूपायै नमः । ॐ जीवकार्यै नमः । ॐ जीवन्मुक्तिप्रदायिन्यै नमः । ॐ भद्रपीठस्थितायै नमः । ॐ भद्रायै नमः । ॐ भद्रदायै नमः । ॐ भर्गभामिन्यै नमः । ॐ भगानन्दायै नमः । ॐ भगमय्यै नमः । ॐ भगलिङ्गायै नमः । ॐ भगेश्वर्यै नमः । ॐ मत्तमातङ्गगमनायै नमः । ॐ मातङ्गकुलमञ्जर्यै नमः । ॐ राजहंसगत्यै नमः । ॐ राज्ञ्यै नमः । ॐ राजराजसमर्चितायै नमः । ॐ भवान्यै नमः । ॐ पावन्यै नमः । ॐ काल्यै नमः । ॐ दक्षिणायै नमः । ॐ दक्षकन्यकायै नमः । ॐ हव्यवाहायै नमः । ॐ हविर्भोक्त्र्यै नमः । ॐ हारिण्यै नमः । ॐ दुःखहारिण्यै नमः । ॐ संसारतारिण्यै नमः । ॐ सौम्यायै नमः । ॐ सर्वेश्यै नमः । ॐ समरप्रियायै नमः । ॐ स्वप्नवत्यै नमः । ॐ जागरिण्यै नमः । ॐ सुषुप्तायै नमः । ॐ विश्वरूपिण्यै नमः । ॐ तैजस्यै नमः । ॐ प्राज्ञकलनायै नमः । ॐ चेतनायै नमः । ॐ चेतनावत्यै नमः । ॐ चिन्मात्रायै नमः । ॐ चिद्घनायै नमः । ॐ चेत्यायै नमः । ॐ चिच्छायायै नमः । ॐ चित्स्वरूपिण्यै नमः । ॐ निवृत्तिरूपिण्यै नमः । ॐ शान्त्यै नमः । ॐ प्रतिष्ठायै नमः । ॐ नित्यरूपिण्यै नमः । ॐ विद्यारूपायै नमः । ॐ शान्त्यतीतायै नमः । ॐ कलापञ्चकरूपिण्यै नमः । ॐ ह्रीङ्कार्यै नमः । ॐ ह्रीमत्यै नमः । ॐ हृद्यायै नमः । ॐ ह्रीच्छायायै नमः । ॐ हरिवाहनायै नमः । ॐ मूलप्रकृत्यै नमः । ॐ अव्यक्तायै नमः । ॐ व्यक्ताव्यक्तविनोदिन्यै नमः । ॐ यज्ञरूपायै नमः । ॐ यज्ञभोक्त्र्यै नमः । ॥ ५०० ॥ ॐ यज्ञाङ्ग्यै नमः । ॐ यज्ञरूपिण्यै नमः । ॐ दीक्षितायै नमः । ॐ क्षमणायै नमः । ॐ क्षामायै नमः । ॐ क्षित्यै नमः । ॐ क्षान्त्यै नमः । ॐ श्रुत्यै नमः । ॐ स्मृत्यै नमः । ॐ एकस्यै नमः । ॐ अनेकस्यै नमः । ॐ कामकलायै नमः । ॐ कल्यायै नमः । ॐ कालस्वरूपिण्यै नमः । ॐ दक्षायै नमः । ॐ दाक्षायण्यै नमः । ॐ दीक्षायै नमः । ॐ दक्षयज्ञविनाशिन्यै नमः । ॐ गायत्र्यै नमः । ॐ गगनाकारायै नमः । ॐ गीर्देव्यै नमः । ॐ गरुडासनायै नमः । ॐ सावित्र्यै नमः । ॐ सकलाध्यक्षायै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्राह्मणप्रियायै नमः । ॐ जगन्नाथायै नमः । ॐ जगन्मूर्त्यै नमः । ॐ जगन्मृत्युनिवारिण्यै नमः । ॐ दृग्रूपायै नमः । ॐ दृश्यनिलयायै नमः । ॐ द्रष्ट्र्यै नमः । ॐ मन्त्र्यै नमः । ॐ चिरन्तन्यै नमः । ॐ विज्ञात्र्यै नमः । ॐ विपुलायै नमः । ॐ वेद्यायै नमः । ॐ वृद्धायै नमः । ॐ वर्षीयस्यै नमः । ॐ मह्यै नमः । ॐ आर्यायै नमः । ॐ कुहरिण्यै नमः । ॐ गुह्यायै नमः । ॐ गौर्यै नमः । ॐ गौतमपूजितायै नमः । ॐ नन्दिन्यै नमः । ॐ नलिन्यै नमः । ॐ नित्यायै नमः । ॐ नीत्यै नमः । ॐ नयविशारदायै नमः । ॐ गतागतज्ञायै नमः । ॐ गन्धर्व्यै नमः । ॐ गिरिजायै नमः । ॐ गर्वनाशिन्यै नमः । ॐ प्रियव्रतायै नमः । ॐ प्रमायै नमः । ॐ प्राणायै नमः । ॐ प्रमाणज्ञायै नमः । ॐ प्रियंवदायै नमः । ॐ अशरीरायै नमः । ॐ शरीरस्थायै नमः । ॐ नामरूपविवर्जितायै नमः । ॐ वर्णाश्रमविभागज्ञायै नमः । ॐ वर्णाश्रमविवर्जितायै नमः । ॐ नित्यमुक्तायै नमः । ॐ नित्यतृप्तायै नमः । ॐ निर्लेपायै नमः । ॐ निरवग्रहायै नमः । ॐ इच्छाज्ञानक्रियाशक्त्यै नमः । ॐ इन्दिरायै नमः । ॐ बन्धुराकृत्यै नमः । ॐ मनोरथप्रदायै नमः । ॐ मुख्यायै नमः । ॐ मानिन्यै नमः । ॐ मानवर्जितायै नमः । ॐ नीरागायै नमः । ॐ निरहङ्कारायै नमः । ॐ निर्नाशायै नमः । ॐ निरुपप्लवायै नमः । ॐ विचित्रायै नमः । ॐ चित्रचारित्रायै नमः । ॐ निष्कलायै नमः । ॐ निगमालयायै नमः । ॐ ब्रह्मविद्यायै नमः । ॐ ब्रह्मनाड्यै नमः । ॐ बन्धहन्त्र्यै नमः । ॐ बलिप्रियायै नमः । ॐ सुलक्षणायै नमः । ॐ लक्षणज्ञायै नमः । ॐ सुन्दरभ्रूलताञ्चितायै नमः । ॐ सुमित्रायै नमः । ॐ मालिन्यै नमः । ॐ सीमायै नमः । ॐ मुद्रिण्यै नमः । ॐ मुद्रिकाञ्चितायै नमः । ॐ रजस्वलायै नमः । ॐ रम्यमूर्त्यै नमः । ॐ जयायै नमः । ॐ जन्मविवर्जितायै नमः । ॐ पद्मालयायै नमः । ॥ ६०० ॥ ॐ पद्मपीठायै नमः । ॐ पद्मिन्यै नमः । ॐ पद्मवर्णिन्यै नमः । ॐ विश्वम्भरायै नमः । ॐ विश्वगर्भायै नमः । ॐ विश्वेश्यै नमः । ॐ विश्वतोमुख्यै नमः । ॐ अद्वितीयायै नमः । ॐ सहस्राक्ष्यै नमः । ॐ विराड्रूपायै नमः । ॐ विमोचिन्यै नमः । ॐ सूत्ररूपायै नमः । ॐ शास्त्रकर्यै नमः । ॐ शास्त्रज्ञायै नमः । ॐ शस्त्रधारिण्यै नमः । ॐ वेदविदे नमः । ॐ वेदकृते नमः । ॐ वेद्यायै नमः । ॐ वित्तज्ञायै नमः । ॐ वित्तशालिन्यै नमः । ॐ विशदायै नमः । ॐ वैष्णव्यै नमः । ॐ ब्राह्म्यै नमः । ॐ वैरिञ्च्यै नमः । ॐ वाक्प्रदायिन्यै नमः । ॐ व्याख्यात्र्यै नमः । ॐ वामनायै नमः । ॐ वृद्ध्यै नमः । ॐ विश्वनाथायै नमः । ॐ विशारदायै नमः । ॐ मुद्रेश्वर्यै नमः । ॐ मुण्डमालायै नमः । ॐ काल्यै नमः । ॐ कङ्कालरूपिण्यै नमः । ॐ महेश्वरप्रीतिकर्यै नमः । ॐ महेश्वरपतिव्रतायै नमः । ॐ ब्रह्माण्डमालिन्यै नमः । ॐ बुध्न्यायै नमः । ॐ मतङ्गमुनिपूजितायै नमः । ॐ ईश्वर्यै नमः । ॐ चण्डिकायै नमः । ॐ चण्ड्यै नमः । ॐ नियन्त्र्यै नमः । ॐ नियमस्थितायै नमः । ॐ सर्वान्तर्यामिण्यै नमः । ॐ सेव्यायै नमः । ॐ सन्तत्यै नमः । ॐ सन्ततिप्रदायै नमः । ॐ तमालपल्लवश्यामायै नमः । ॐ ताम्रोष्ठ्यै नमः । ॐ ताण्डवप्रियायै नमः । ॐ नाट्यलास्यकर्यै नमः । ॐ रम्भायै नमः । ॐ नटराजप्रियाङ्गनायै नमः । ॐ अनङ्गरूपायै नमः । ॐ अनङ्गश्रियै नमः । ॐ अनङ्गेश्यै नमः । ॐ वसुन्धरायै नमः । ॐ साम्राज्यदायिन्यै नमः । ॐ सिद्धायै नमः । ॐ सिद्धेश्यै नमः । ॐ सिद्धिदायिन्यै नमः । ॐ सिद्धमात्रै नमः । ॐ सिद्धपूज्यायै नमः । ॐ सिद्धार्थायै नमः । ॐ वसुदायिन्यै नमः । ॐ भक्तिमत्कल्पलतिकायै नमः । ॐ भक्तिदायै नमः । ॐ भक्तवत्सलायै नमः । ॐ पञ्चशक्त्यर्चितपदायै नमः । ॐ परमात्मस्वरूपिण्यै नमः । ॐ अज्ञानतिमिरज्योत्स्नायै नमः । ॐ नित्याह्लादायै नमः । ॐ निरञ्जनायै नमः । ॐ मुग्धायै नमः । ॐ मुग्धस्मितायै नमः । ॐ मैत्र्यै नमः । ॐ मुग्धकेश्यै नमः । ॐ मधुप्रियायै नमः । ॐ कलापिन्यै नमः । ॐ कामकलायै नमः । ॐ कामकेल्यै नमः । ॐ कलावत्यै नमः । ॐ अखण्डायै नमः । ॐ निरहङ्कारायै नमः । ॐ प्रधानपुरुषेश्वर्यै नमः । ॐ रहःपूज्यायै नमः । ॐ रहःकेल्यै नमः । ॐ रहःस्तुत्यायै नमः । ॐ हरप्रियायै नमः । ॐ शरण्यायै नमः । ॐ गहनायै नमः । ॐ गुह्यायै नमः । ॐ गुहान्तःस्थायै नमः । ॐ गुहप्रसवे नमः । ॐ स्वसंवेद्यायै नमः । ॐ स्वप्रकाशायै नमः । ॐ स्वात्मस्थायै नमः । ॐ स्वर्गदायिन्यै नमः । ॐ निष्प्रपञ्चायै नमः । ॥ ७०० ॥ ॐ निराधारायै नमः । ॐ नित्यानित्यस्वरूपिण्यै नमः । ॐ निर्मदायै नमः । ॐ नर्तक्यै नमः । ॐ कीर्त्यै नमः । ॐ निष्कामायै नमः । ॐ निष्कलायै नमः । ॐ कलायै नमः । ॐ अष्टमूर्त्यै नमः । ॐ अमोघायै नमः । ॐ उमायै नमः । ॐ नन्द्यादिगणपूजितायै नमः । ॐ यन्त्ररूपायै नमः । ॐ तन्त्ररूपायै नमः । ॐ मन्त्ररूपायै नमः । ॐ मनोन्मन्यै नमः । ॐ शिवकामेश्वर्यै नमः । ॐ देव्यै नमः । ॐ चिद्रूपायै नमः । ॐ चित्तरङ्गिण्यै नमः । ॐ चित्स्वरूपायै नमः । ॐ चित्प्रकाशायै नमः । ॐ चिन्मूर्त्यै नमः । ॐ चिन्मय्यै नमः । ॐ चित्यै नमः । ॐ मूर्खदूरायै नमः । ॐ मोहहन्त्र्यै नमः । ॐ मुख्यायै नमः । ॐ क्रोडमुखीसख्यै नमः । ॐ ज्ञानज्ञातृज्ञेयरूपायै नमः । ॐ व्योमाकारायै नमः । ॐ विलासिन्यै नमः । ॐ विमर्शरूपिण्यै नमः । ॐ वश्यायै नमः । ॐ विधानज्ञायै नमः । ॐ विजृम्भितायै नमः । ॐ केतकीकुसुमापीडायै नमः । ॐ कस्तूरीतिलकोज्ज्वलायै नमः । ॐ मृग्यायै नमः । ॐ मृगाक्ष्यै नमः । ॐ रसिकायै नमः । ॐ मृगनाभिसुगन्धिन्यै नमः । ॐ यक्षकर्दमलिप्ताङ्ग्यै नमः । ॐ यक्षिण्यै नमः । ॐ यक्षपूजितायै नमः । ॐ लसन्माणिक्यकटकायै नमः । ॐ केयूरोज्ज्वलदोर्लतायै नमः । ॐ सिन्दूरराजत्सीमन्तायै नमः । ॐ सुभ्रूवल्ल्यै नमः । ॐ सुनासिकायै नमः । ॐ कैवल्यदायै नमः । ॐ कान्तिमत्यै नमः । ॐ कठोरकुचमण्डलायै नमः । ॐ तलोदर्यै नमः । ॐ तमोहन्त्र्यै नमः । ॐ त्रयस्त्रिंशत्सुरात्मिकायै नमः । ॐ स्वयम्भुवे नमः । ॐ कुसुमामोदायै नमः । ॐ स्वयम्भुकुसुमप्रियायै नमः । ॐ स्वाध्यायिन्यै नमः । ॐ सुखाराध्यायै नमः । ॐ वीरश्रियै नमः । ॐ वीरपूजितायै नमः । ॐ द्राविण्यै नमः । ॐ विद्रुमाभोष्ठ्यै नमः । ॐ वेगिन्यै नमः । ॐ विष्णुवल्लभायै नमः । ॐ हालामदालसद्वाण्यै नमः । ॐ लोलायै नमः । ॐ लीलावत्यै नमः । ॐ रत्यै नमः । ॐ लोपामुद्रार्चितायै नमः । ॐ लक्ष्म्यै नमः । ॐ अहल्यापरिपूजितायै नमः । ॐ आब्रह्मकीटजनन्यै नमः । ॐ कैलासगिरिवासिन्यै नमः । ॐ निधीश्वर्यै नमः । ॐ निरातङ्कायै नमः । ॐ निष्कलङ्कायै नमः । ॐ जगन्मय्यै नमः । ॥ ८०० ॥ ॐ आदिलक्ष्म्यै नमः । ॐ अनन्तश्रियै नमः । ॐ अच्युतायै नमः । ॐ तत्त्वरूपिण्यै नमः । ॐ नामजात्यादिरहितायै नमः । ॐ नरनारायणार्चितायै नमः । ॐ गुह्योपनिषदुद्गीतायै नमः । ॐ लक्ष्मीवाणीनिषेवितायै नमः । ॐ मतङ्गवरदायै नमः । ॐ सिद्धायै नमः । ॐ महायोगीश्वर्यै नमः । ॐ गुरवे नमः । ॐ गुरुप्रियायै नमः । ॐ कुलाराध्यायै नमः । ॐ कुलसङ्केतपालिन्यै नमः । ॐ चिच्चन्द्रमण्डलान्तःस्थायै नमः । ॐ चिदाकाशस्वरूपिण्यै नमः । ॐ अनङ्गशास्त्रतत्त्वज्ञायै नमः । ॐ नानाविधरसप्रियायै नमः । ॐ निर्मलायै नमः । ॐ निरवद्याङ्ग्यै नमः । ॐ नीतिज्ञायै नमः । ॐ नीतिरूपिण्यै नमः । ॐ व्यापिन्यै नमः । ॐ विबुधश्रेष्ठायै नमः । ॐ कुलशैलकुमारिकायै नमः । ॐ विष्णुप्रसवे नमः । ॐ वीरमात्रै नमः । ॐ नासामणिविराजितायै नमः । ॐ नायिकानगरीसंस्थायै नमः । ॐ नित्यतुष्टायै नमः । ॐ नितम्बिन्यै नमः । ॐ पञ्चब्रह्ममय्यै नमः । ॐ प्राञ्च्यै नमः । ॐ ब्रह्मात्मैक्यस्वरूपिण्यै नमः । ॐ सर्वोपनिषदुद्गीतायै नमः । ॐ सर्वानुग्रहकारिण्यै नमः । ॐ पवित्रायै नमः । ॐ पावनायै नमः । ॐ पूतायै नमः । ॐ परमात्मस्वरूपिण्यै नमः । ॐ सूर्येन्दुवह्निनयनायै नमः । ॐ सूर्यमण्डलमध्यगायै नमः । ॐ गायत्र्यै नमः । ॐ गात्ररहितायै नमः । ॐ सुगुणायै नमः । ॐ गुणवर्जितायै नमः । ॐ रक्षाकर्यै नमः । ॐ रम्यरुपायै नमः । ॐ सात्त्विकायै नमः । ॐ सत्त्वदायिन्यै नमः । ॐ विश्वातीतायै नमः । ॐ व्योमरुपायै नमः । ॐ सदार्चनजपप्रियायै नमः । ॐ आत्मभुवे नमः । ॐ अजितायै नमः । ॐ जिष्णवे नमः । ॐ अजायै नमः । ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ सुधायै नमः । ॐ नन्दिताशेषभुवनायै नमः । ॐ नामसङ्कीर्तनप्रियायै नमः । ॐ गुरुमूर्त्यै नमः । ॐ गुरुमय्यै नमः । ॐ गुरुपादार्चनप्रियायै नमः । ॐ गोब्राह्मणात्मिकायै नमः । ॐ गुर्व्यै नमः । ॐ नीलकण्ठ्यै नमः । ॐ निरामयायै नमः । ॐ मानव्यै नमः । ॐ मन्त्रजनन्यै नमः । ॐ महाभैरवपूजितायै नमः । ॐ नित्योत्सवायै नमः । ॐ नित्यपुष्टायै नमः । ॐ श्यामायै नमः । ॐ यौवनशालिन्यै नमः । ॐ महनीयायै नमः । ॐ महामूर्त्यै नमः । ॐ महत्यै सौख्यसन्तत्यै नमः । ॥ ९०० ॥ ॐ पूर्णोदर्यै नमः । ॐ हविर्धात्र्यै नमः । ॐ गणाराध्यायै नमः । ॐ गणेश्वर्यै नमः । ॐ गायनायै नमः । ॐ गर्वरहितायै नमः । ॐ स्वेदबिन्दूल्लसन्मुख्यै नमः । ॐ तुङ्गस्तन्यै नमः । ॐ तुलाशून्यायै नमः । ॐ कन्यायै नमः । ॐ कमलवासिन्यै नमः । ॐ शृङ्गारिण्यै नमः । ॐ श्रियै नमः । ॐ श्रीविद्यायै नमः । ॐ श्रीप्रदायै नमः । ॐ श्रीनिवासिन्यै नमः । ॐ त्रैलोक्यसुन्दर्यै नमः । ॐ बालायै नमः । ॐ त्रैलोक्यजनन्यै नमः । ॐ सुधिये नमः । ॐ पञ्चक्लेशहरायै नमः । ॐ पाशधारिण्यै नमः । ॐ पशुमोचन्यै नमः । ॐ पाषण्डहन्त्र्यै नमः । ॐ पापघ्न्यै नमः । ॐ पार्थिवश्रीकर्यै नमः । ॐ धृत्यै नमः । ॐ निरपायायै नमः । ॐ दुरापायै नमः । ॐ यस्यै नमः । ॐ सुलभायै नमः । ॐ शोभनाकृत्यै नमः । ॐ महाबलायै नमः । ॐ भगवत्यै नमः । ॐ भवरोगनिवारिण्यै नमः । ॐ भैरवाष्टकसंसेव्यायै नमः । ॐ ब्राह्म्यादिपरिवारितायै नमः । ॐ वामादिशक्तिसहितायै नमः । ॐ वारुणीमदविह्वलायै नमः । ॐ वरिष्ठायै नमः । ॐ वश्यदायै नमः । ॐ वश्यायै नमः । ॐ भक्तार्तिदमनायै नमः । ॐ शिवायै नमः । ॐ वैराग्यजनन्यै नमः । ॐ ज्ञानदायिन्यै नमः । ॐ ज्ञानविग्रहायै नमः । ॐ सर्वदोषविनिर्मुक्तायै नमः । ॐ शङ्करार्धशरीरिण्यै नमः । ॐ सर्वेश्वरप्रियतमायै नमः । ॐ स्वयञ्ज्योतिः स्वरूपिण्यै नमः । ॐ क्षीरसागरमध्यस्थायै नमः । ॐ महाभुजगशायिन्यै नमः । ॐ कामधेन्वै नमः । ॐ बृहद्गर्भायै नमः । ॐ योगनिद्रायै नमः । ॐ युगन्धरायै नमः । ॐ महेन्द्रोपेन्द्रजनन्यै नमः । ॐ मातङ्गकुलसम्भवायै नमः । ॐ मतङ्गजातिसम्पूज्यायै नमः । ॐ मतङ्गकुलदेवतायै नमः । ॐ गुह्यविद्यायै नमः । ॐ वश्यविद्यायै नमः । ॐ सिद्धविद्यायै नमः । ॐ शिवाङ्गनायै नमः । ॐ सुमङ्गलायै नमः । ॐ रत्नगर्भायै नमः । ॐ सूर्यमात्रे नमः । ॐ सुधाशनायै नमः । ॐ खड्गमण्डलसम्पूज्यायै नमः । ॐ सालग्रामनिवासिन्यै नमः । ॐ दुर्जयायै नमः । ॐ दुष्टदमनायै नमः । ॐ दुर्निरीक्ष्यायै नमः । ॐ दुरत्ययायै नमः । ॐ शङ्खचक्रगदाहस्तायै नमः । ॐ विष्णुशक्त्यै नमः । ॐ विमोहिन्यै नमः । ॐ योगमात्रै नमः । ॐ योगगम्यायै नमः । ॐ योगनिष्ठायै नमः । ॐ सुधास्रवायै नमः । ॐ समाधिनिष्ठैः संवेद्यायै नमः । ॐ सर्वभेदविवर्जितायै नमः । ॐ साधारणायै नमः । ॐ सरोजाक्ष्यै नमः । ॐ सर्वज्ञायै नमः । ॐ सर्वसाक्षिण्यै नमः । ॐ महाशक्त्यै नमः । ॐ महोदारायै नमः । ॐ महामङ्गलदेवतायै नमः । ॐ कलौ कृतावतरणायै नमः । ॐ कलिकल्मषनाशिन्यै नमः । ॐ सर्वदायै नमः । ॐ सर्वजनन्यै नमः । ॐ निरीशायै नमः । ॐ सर्वतोमुख्यै नमः । ॐ सुगूढायै नमः । ॐ सर्वतोभद्रायै नमः । ॐ सुस्थितायै नमः । ॐ स्थाणुवल्लभायै नमः । ॐ चराचरजगद्रूपायै नमः । ॐ चेतनाचेतनाकृत्यै नमः । ॐ महेश्वरप्राणनाड्यै नमः । ॐ महाभैरवमोहिन्यै नमः । ॐ मञ्जुलायै नमः । ॐ यौवनोन्मत्तायै नमः । ॐ महापातकनाशिन्यै नमः । ॐ महानुभावायै नमः । ॐ माहेन्द्र्यै नमः । ॐ महामरकतप्रभायै नमः । ॐ सर्वशक्त्यासनायै नमः । ॐ शक्त्यै नमः । ॐ निराभासायै नमः । ॐ निरिन्द्रियायै नमः । ॐ समस्तदेवतामूर्त्यै नमः । ॐ समस्तसमयार्चितायै नमः । ॐ सुवर्चलायै नमः । ॐ वियन्मूर्त्यै नमः । ॐ पुष्कलायै नमः । ॐ नित्यपुष्पिण्यै नमः । ॐ नीलोत्पलदलश्यामायै नमः । ॐ महाप्रलयसाक्षिण्यै नमः । ॐ सङ्कल्पसिद्धायै नमः । ॐ सङ्गीतरसिकायै नमः । ॐ रसदायिन्यै नमः । ॐ अभिन्नायै नमः । ॐ ब्रह्मजनन्यै नमः । ॐ कालक्रमविवर्जितायै नमः । ॐ अजपायै नमः । ॐ जाड्यरहितायै नमः । ॐ प्रसन्नायै नमः । ॐ भगवत्प्रियायै नमः । ॐ इन्दिरायै नमः । ॐ जगतीकन्दायै नमः । ॐ सच्चिदानन्दकन्दल्यै नमः । ॐ श्रीचक्रनिलयायै नमः । ॐ देव्यै नमः । ॐ श्रीविद्यायै नमः । ॐ श्रीप्रदायिन्यै नमः । ॥ १००० ॥ ॥ इति श्री श्यामला सहस्रनामावली सम्पूर्णम् ॥

श्री श्यामला सहस्रनामावली — विस्तृत परिचय एवं दार्शनिक आधार (Introduction)

श्री श्यामला सहस्रनामावली (Sri Shyamala Sahasranamavali) सनातन धर्म के तांत्रिक और शाक्त साहित्य का एक अत्यंत प्रकाशमान रत्न है। यह नामावली दश महाविद्याओं में नवीं शक्ति, भगवती मातंगी के १००० पवित्र नामों का सिद्ध संकलन है। श्री विद्या उपासना पद्धति में भगवती श्यामला का स्थान सर्वोपरि है; वे माँ ललिता त्रिपुरसुन्दरी के ब्रह्मांडीय साम्राज्य की "मंत्रिणी" (Prime Minister) और मुख्य परामर्शदाता हैं। जहाँ ललिता इच्छा शक्ति का प्रतीक हैं, वहीं श्यामला "ज्ञान शक्ति" का प्रतिनिधित्व करती हैं। उनके नामों का अर्चन साधक के जीवन से बौद्धिक अंधकार, वाणी के दोष और अज्ञानता को मिटाकर उसे उच्च कोटि की प्रज्ञा और कलात्मक निपुणता प्रदान करता है।
भगवती श्यामला का स्वरूप मरकत मणि (Emerald) के समान गहरे हरे रंग का है, जो प्रकृति की उर्वरता, शीतलता और अनंत ज्ञान का सूचक है। उनके हाथों में वीणा इस सत्य का प्रतीक है कि यह संपूर्ण ब्रह्मांड "नाद ब्रह्म" (Cosmic Vibration) से निर्मित है। सहस्रनामावली के प्रत्येक नाम के पीछे एक सूक्ष्म मंत्र शक्ति और गंभीर दार्शनिक संदेश छिपा है। उदाहरण के लिए, "सङ्गीतोपनिषत्प्रियायै" नाम यह स्पष्ट करता है कि संगीत केवल मनोरंजन नहीं, बल्कि ब्रह्म तक पहुँचने का एक उपनिषद् (ज्ञान मार्ग) है। वहीं "सर्वकलामयशुकप्रियायै" नाम उनकी समस्त ६४ कलाओं पर आधिपत्य और ज्ञान को दोहराने की शक्ति को दर्शाता है। ये १००० नाम १००० दिव्य ऊर्जा केंद्रों के समान हैं जो साधक के अंतःकरण को निरंतर शोधित करते रहते हैं।
शास्त्रीय ग्रंथों और 'ब्रह्माण्ड पुराण' के 'ललिता उपाख्यान' के अनुसार, भगवती श्यामला का निवास "कदम्ब वन" (Kadamba Forest) में है। कदम्ब का वन प्रतीकात्मक रूप से हमारे मस्तिष्क के उस गहन शांत क्षेत्र को दर्शाता है जहाँ से अंतर्ज्ञान का प्रस्फुटन होता है। जब कोई भक्त पूर्ण एकाग्रता के साथ इन १००० नामों का सस्वर अर्चन करता है, तो उसके शरीर के "विशुद्धि चक्र" (Throat Chakra) और "आज्ञा चक्र" में सकारात्मक ऊर्जा का संचार होता है। यही कारण है कि श्री विद्या की साधना में श्यामला की उपासना को अनिवार्य माना गया है, क्योंकि उनके आशीर्वाद के बिना प्राप्त ज्ञान को शब्दबद्ध (Expression) करना असंभव है। वे ही "वैखरी" वाणी की अधिष्ठात्री हैं, जो हमारे विचारों को अर्थपूर्ण शब्दों में बदलती हैं।
वर्तमान कलयुग के इस कोलाहलपूर्ण समय में, जहाँ संवाद की कमी और मानसिक भ्रम सबसे बड़ी समस्याएँ हैं, वहाँ श्री श्यामला सहस्रनामावली का पाठ एक "अभेद कवच" के रूप में कार्य करता है। जब हम प्रत्येक नाम के साथ और अंत में नमः (अहंकार का विसर्जन) जोड़ते हैं, तो साधक का आभा मंडल (Aura) इतना ऊर्जावान हो जाता है कि कोई भी नकारात्मक शक्ति उसे प्रभावित नहीं कर पाती। यह नामावली वास्तव में व्यक्ति के व्यक्तित्व को 'राजसी' और 'प्रज्ञावान' बनाने वाली स्तुति है। माँ श्यामला की कृपा से साधक न केवल सांसारिक सफलता प्राप्त करता है, बल्कि उसे वह 'वाक् सिद्धि' भी प्राप्त होती है जिससे उसके द्वारा बोले गए शब्द सत्य होने लगते हैं। यह पाठ केवल भक्ति नहीं, बल्कि स्वयं को ब्रह्मांडीय संगीत के साथ लयबद्ध करने की एक महान साधना है।

विशिष्ट आध्यात्मिक महत्व एवं कला सिद्धि (Significance)

श्री श्यामला सहस्रनामावली का महत्व इसलिए सर्वोपरि है क्योंकि यह "वाक शक्ति" की पराकाष्ठा है। तंत्र शास्त्र में माँ श्यामला को 'उच्छिष्ट चण्डालिनी' के रूप में भी पूजा जाता है, जिसका अर्थ है वह सत्ता जो हर अवस्था (शुद्ध या अशुद्ध) में साधक पर कृपा करती है। नामावली में प्रयुक्त "नादब्रह्मस्वरूपिण्यै" और "मंत्रनायिकायै" जैसे नाम साधक को यह अनुभव कराते हैं कि शब्द और ध्वनि ही ईश्वर तक पहुँचने के सरलतम माध्यम हैं।
विशेष रूप से उन लोगों के लिए जो संगीत, लेखन, अभिनय, राजनीति या किसी भी ऐसे क्षेत्र में हैं जहाँ अभिव्यक्ति का महत्व है, यह पाठ संजीवनी समान है। माँ श्यामला की कृपा से जातक की बुद्धि कुशाग्र होती है और वह समाज में एक प्रभावशाली व्यक्तित्व के रूप में प्रतिष्ठित होता है।

फलश्रुति: नामावली पाठ के अभूतपूर्व लाभ (Benefits)

शास्त्रों और महाविद्या उपासकों के अनुभवों के आधार पर, श्री श्यामला सहस्रनामावली का पाठ निम्नलिखित लाभ प्रदान करता है:
  • वाक्-सिद्धि और प्रभावशाली संवाद: जातक की वाणी में आकर्षण पैदा होता है और लोग उसकी बातों को ध्यानपूर्वक सुनते हैं।
  • कला और संगीत में सफलता: "सङ्गीतरसिकायै" — संगीतकारों और कलाकारों के लिए यह पाठ उनकी कला में दिव्यता और पूर्णता लाता है।
  • बौद्धिक प्रखरता और एकाग्रता: यह पाठ छात्रों और बुद्धिजीवियों के लिए एकाग्रता बढ़ाने और जटिल विषयों को समझने में सहायक है।
  • सामाजिक सम्मान और वशीकरण: "राजराजेश्वर्यै" — समाज में प्रतिष्ठा बढ़ती है और साधक का व्यक्तित्व चुंबकीय हो जाता है।
  • नकारात्मक ऊर्जा और भ्रम का नाश: यह नामावली मानसिक अवसाद, चिंता और अज्ञानता के जालों को काटकर मन को शांति प्रदान करती है।

पाठ विधि एवं अर्चना विधान (Ritual Method)

भगवती श्यामला की उपासना अत्यंत प्रेमपूर्ण और कलात्मक होनी चाहिए। पूर्ण फल प्राप्ति हेतु निम्न विधि अपनाएँ:

साधना के मुख्य चरण:

  • समय: प्रातःकाल 'ब्रह्म मुहूर्त' सर्वश्रेष्ठ है। शुक्रवार और पंचमी तिथि को अर्चन करना विशेष फलदायी माना जाता है।
  • शुद्धि: स्नान के पश्चात हरे (Green) वस्त्र धारण करना माँ श्यामला को अत्यंत प्रिय है। मुख उत्तर या पूर्व की ओर रखें।
  • अर्चन सामग्री: प्रत्येक नाम के बाद 'नमः' बोलकर माँ को सुगंधित लाल पुष्प या बिल्वपत्र अर्पित करें। अनार या शहद से अर्पण करना भी शुभ है।
  • नैवेद्य: शहद, मीठे फल या कदम्ब के फल (उपलब्ध हों तो) का भोग लगाएँ।
  • यंत्र: यदि संभव हो, तो श्यामला यंत्र या श्री चक्र के सामने घी का दीपक जलाकर नामों का अर्चन करें।

विशेष प्रयोग:

  • वाणी शुद्धि के लिए: लगातार ४१ दिनों तक नित्य १००० नामों का पाठ करते हुए शहद का भोग लगाएँ और उसे प्रसाद रूप में ग्रहण करें।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्री श्यामला सहस्रनामावली का पाठ किस समय करना सर्वोत्तम है?

सूर्योदय के समय प्रातःकाल पाठ करना सर्वश्रेष्ठ है। कला की साधना करने वालों के लिए रात्रि का समय भी उपयुक्त माना जाता है।

2. भगवती श्यामला और मातंगी में क्या अंतर है?

तात्विक रूप से दोनों एक ही महाविद्या हैं। श्यामला उनका सौम्य और राजसी 'मंत्रिणी' स्वरूप है, जबकि मातंगी उनका उग्र महाविद्या स्वरूप है।

3. क्या इस नामावली का पाठ बिना गुरु दीक्षा के किया जा सकता है?

सहस्रनामावली एक भक्तिमयी स्तुति है, अतः इसे कोई भी शुद्ध भाव से पढ़ सकता है। हालाँकि, तांत्रिक साधना के लिए गुरु मार्गदर्शन अनिवार्य है।

4. १००० नामों से अर्चना करने के लिए क्या सामग्री अच्छी है?

माँ श्यामला को "सुगंध" और "लाल पुष्प" अत्यंत प्रिय हैं। गुलाब या लाल चम्पा के पुष्पों से अर्चन करना श्रेष्ठ है।

5. 'मंत्रिणी' नाम का क्या अर्थ है?

मंत्रिणी का अर्थ है "मंत्रों की स्वामिनी"। वे माँ ललिता त्रिपुरसुन्दरी की मुख्य सलाहकार हैं जो समस्त ब्रह्मांडीय शक्तियों का संचालन करती हैं।

6. क्या बच्चे भी इस नामावली का पाठ कर सकते हैं?

हाँ, विद्यार्थियों के लिए यह नामावली वरदान है। इससे उनकी स्मरण शक्ति और एकाग्रता में अभूतपूर्व वृद्धि होती है।

7. वाक्-सिद्धि प्राप्त करने के लिए कौन सा नाम विशेष है?

पूरी नामावली शक्तिशाली है, परन्तु "वाण्यै नमः" और "वाक्प्रदायिन्यै नमः" का ध्यान वाणी दोषों को दूर करने के लिए अचूक है।

8. पाठ के दौरान किस रंग के वस्त्र पहनना शुभ है?

भगवती श्यामला का प्रिय रंग गहरा हरा (Emerald Green) है। अतः हरे वस्त्र पहनकर पाठ करना अधिक फलदायी होता है।

9. क्या इस पाठ से संगीत में निपुणता मिल सकती है?

जी हाँ, माँ श्यामला संगीत की अधिष्ठात्री हैं। उनके नामों का जप करने से कंठ और वाद्य यंत्रों की साधना में पूर्णता आती है।

10. ॐ और नमः जोड़ने का क्या महत्व है?

ॐ बीज मंत्र है जो नाम को दिव्य शक्ति प्रदान करता है, और नमः हमारे अहंकार को माँ के चरणों में समर्पित करने का प्रतीक है।