Shri Chandika Navakshari Trishati – श्रीचण्डिका नवाक्षरी त्रिशती

॥ श्रीचण्डिका नवाक्षरी त्रिशती ॥
ॐ ऐङ्कारपीठमध्यस्थायै नमः ।
ॐ ऐङ्कारासनसुस्थितायै नमः ।
ॐ ऐङ्कारजपसन्तुष्टायै नमः ।
ॐ ऐङ्कारजपसौख्यदायै नमः ।
ॐ ऐङ्कारमोहनपरायै नमः ।
ॐ ऐङ्काराभरणोज्ज्वलायै नमः ।
ॐ ऐङ्काररूपायै नमः ।
ॐ ऐङ्कार्यै नमः ।
ॐ ऐङ्कारवरवर्णिन्यै नमः ।
ॐ ऐङ्कारकल्पवृक्षस्थायै नमः ।
ओं ऐङ्काराम्बुजलोचनायै नमः ।
ॐ ऐङ्कारवाच्यायै नमः ।
ॐ ऐङ्कारपूज्यायै नमः ।
ॐ ऐङ्कारपङ्कजायै नमः ।
ॐ ऐङ्कारकाननावासायै नमः ।
ॐ ऐङ्कारगिरिरूपिण्यै नमः ।
ॐ ऐङ्कारकन्दरासिंह्यै नमः ।
ॐ ऐङ्काराक्षरशोभितायै नमः ।
ॐ ऐङ्काराब्जसमासीनायै नमः ।
ॐ ऐङ्कारमुख्यमण्डलायै नमः ।
ॐ ऐङ्कारारण्यहरिण्यै नमः ।
ॐ ऐङ्कारामृतवर्षिण्यै नमः ।
ॐ ऐङ्कारकमलावासायै नमः ।
ॐ ऐङ्कारोद्यानवासिन्यै नमः ।
ॐ ऐङ्कारवन्दितपदायै नमः ।
ॐ ऐङ्कारवरदायिन्यै नमः ।
ॐ ऐङ्कारामृतसन्धात्र्यै नमः ।
ॐ ऐङ्कारामृतपायिन्यै नमः ।
ॐ ऐङ्कारारण्यसञ्चारायै नमः ।
ॐ ऐङ्काराश्रयविराजितायै नमः ।
ॐ ऐङ्कारमन्त्रसञ्जप्यायै नमः ।
ॐ ऐङ्कारजपसिद्धिदायै नमः ।
ॐ ऐङ्कारनन्दनोद्यानकुसुमोज्ज्वलमूर्धजायै नमः ।
ॐ ह्रीङ्कारमन्त्रसमवासायै नमः ।
ॐ ह्रीङ्कारकुसुमशोभितायै नमः ।
ॐ ह्रीङ्काररूपायै नमः ।
ॐ ह्रीङ्कार्यै नमः ।
ॐ ह्रीङ्काराम्बुजमध्यगायै नमः ।
ॐ ह्रीङ्कारपूजनप्रीतायै नमः ।
ॐ ह्रीङ्काराक्षररूपिण्यै नमः ।
ॐ ह्रीङ्काराक्षरसञ्जप्यायै नमः ।
ॐ ह्रीङ्कारारण्यवल्लर्यै नमः ।
ॐ ह्रीङ्कारमणिभूषाढ्यायै नमः ।
ॐ ह्रीङ्कारारामशोभितायै नमः ।
ॐ ह्रीङ्कारजपसुप्रीतायै नमः ।
ॐ ह्रीङ्कारकमलोज्ज्वलायै नमः ।
ॐ ह्रीङ्कारशिखिसंरूढायै नमः ।
ॐ ह्रीङ्कारानन्ददायिन्यै नमः ।
ॐ ह्रीङ्कारगिरिसम्भूतायै नमः ।
ॐ ह्रीङ्कारगिरिवासिन्यै नमः ।
ॐ ह्रीङ्कारोद्यानपीठस्थायै नमः ।
ॐ ह्रीङ्कारवरदायिन्यै नमः ।
ॐ ह्रीङ्काररञ्जनपरायै नमः ।
ॐ ह्रीङ्कारादर्शबिम्बितायै नमः ।
ॐ ह्रीङ्काररोद्यानसंशोभायै नमः ।
ॐ ह्रीङ्कारारण्यवासिन्यै नमः ।
ॐ ह्रीङ्कारविलसद्रूपायै नमः ।
ॐ ह्रीङ्कारादित्यभास्वरायै नमः ।
ॐ ह्रीङ्कारेन्दुकलाधर्यै नमः ।
ॐ ह्रीङ्कारशशिमण्डलायै नमः ।
ॐ ह्रीङ्कारनादरसिकायै नमः ।
ॐ ह्रीङ्कारास्वादभृङ्गिकायै नमः ।
ॐ ह्रीङ्कारवापिकाहंस्यै नमः ।
ॐ ह्रीङ्कारालापकोकिलायै नमः ।
ॐ ह्रीङ्कारोज्ज्वलसर्वाङ्ग्यै नमः ।
ॐ ह्रीङ्कारमधुमत्तायै नमः ।
ॐ क्लीङ्कारपद्मनिलयायै नमः ।
ॐ क्लीङ्कारहृदयस्थितायै नमः ।
ॐ क्लीङ्कारबिम्बसंशोभायै नमः ।
ॐ क्लीङ्काराह्लादचन्द्रिकायै नमः ।
ॐ क्लीङ्कारानन्दसन्धात्र्यै नमः ।
ॐ क्लीङ्कारमणिमण्डपायै नमः ।
ॐ क्लीङ्कारपीठमध्यस्थायै नमः ।
ॐ क्लीङ्कारपारसौख्यदायै नमः ।
ॐ क्लीङ्कारसौधमध्यस्थायै नमः ।
ॐ क्लीङ्कारतिलकोज्ज्वलायै नमः ।
ॐ क्लीङ्कारामोदहृदयायै नमः ।
ॐ क्लीङ्कारविजयप्रदायै नमः ।
ॐ क्लीङ्कारबीजसर्वस्वायै नमः ।
ॐ क्लींस्थितायै नमः ।
ॐ क्लीन्निवासिन्यै नमः ।
ॐ क्लीङ्कारसाधकपरायै नमः ।
ॐ क्लीङ्कारकलुषापहायै नमः ।
ॐ क्लीङ्कारपुष्टिसन्धात्र्यै नमः ।
ॐ क्लीङ्कारकमलासनायै नमः ।
ॐ क्लीङ्कारपद्मसंवासायै नमः ।
ॐ क्लीङ्कारमधुपायिन्यै नमः ।
ॐ क्लीङ्कारचापहस्ताढ्यायै नमः ।
ॐ क्लीङ्कारेषुसुबाहुकायै नमः ।
ॐ क्लीङ्कारकुसुममध्यस्थायै नमः ।
ॐ क्लीङ्कारकुसुमशोभितायै नमः ।
ॐ क्लीङ्कारमधुरालापायै नमः ।
ॐ क्लीङ्काराङ्कुशशोभितायै नमः ।
ॐ क्लीङ्कारपद्महस्ताढ्यायै नमः ।
ॐ क्लीङ्कारमधुवापिकायै नमः ।
ॐ क्लीङ्कारहतदैत्यौघायै नमः ।
ॐ क्लीङ्कारोत्पलमालिकायै नमः ।
ॐ क्लीङ्कारानलसन्दग्धदुष्टदैत्यसमूहिकायै नमः ।
ॐ क्लीङ्कारनन्दनोद्यानमणिमण्डपशोभितायै नमः ।
ॐ चापबाणलसद्धस्तायै नमः ।
ॐ चारुचन्द्रकलाधरायै नमः ।
ॐ चाम्पेयकुसुमप्रीतायै नमः ।
ॐ चारुनूपुरशोभितायै नमः ।
ॐ चारुरूपायै नमः ।
ॐ चारुहासायै नमः ।
ॐ चराचरनिवासिन्यै नमः ।
ॐ चातुर्वर्ण्यसमाराध्यायै नमः ।
ॐ चारुशुभ्रसुशोभितायै नमः ।
ॐ चारुकुसुमाकारनासादण्डविराजितायै नमः ।
ॐ चामरद्वयसंवीज्यलक्ष्मीवाणीसुशोभितायै नमः ।
ॐ चारुदन्तायै नमः ।
ॐ चारुजिह्वायै नमः ।
ॐ चारुकुण्डलशोभितायै नमः ।
ॐ चारुदेहायै नमः ।
ॐ चारुकण्ठायै नमः ।
ॐ चारुहस्तायै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ चारुपादायै नमः ।
ॐ चारुजङ्घायै नमः ।
ॐ चारुवक्षोजयुग्मायै नमः ।
ॐ चारुवक्षायै नमः ।
ॐ चारुनासायै नमः ।
ॐ चारुजघनोज्ज्वलायै नमः ।
ॐ चारुपृष्ठायै नमः ।
ॐ चारुकट्यै नमः ।
ॐ चारुपार्श्वद्वयोज्ज्वलायै नमः ।
ॐ चारुनेत्रायै नमः ।
ॐ चारुकर्णायै नमः ।
ॐ चारुनेत्रललाटिकायै नमः ।
ॐ चारुकेश्यै नमः ।
ॐ चारुमूर्त्यै नमः ।
ॐ चारुसर्वाङ्घसुन्दर्यै नमः ।
ॐ मुण्डसेनामहासङ्घनादविमोहितायै नमः ।
ॐ मुण्डसेनामहावेगगर्जनस्तम्भकारिण्यै नमः ।
ॐ मुण्डसेनापतीसङ्घज्याशब्दपरिमोहितायै नमः ।
ॐ मुण्डसेनापतीव्रातविनाशनसमुत्सुकायै नमः ।
ॐ मुण्डासुरचमूसङ्घघण्टाजयघोषमूर्छितायै नमः ।
ॐ मुण्डासुरचमूघोषस्वशब्दविनिवारिण्यै नमः ।
ॐ मुण्डजल्पवशोत्साहदैत्यसैन्यसमुत्सुकायै नमः ।
ॐ मुण्डासुरवधोद्युक्तखड्गहस्तसुशोभितायै नमः ।
ॐ मुण्डासुरमहायुद्धसंस्तम्भितमहासुरायै नमः ।
ॐ मुण्डदूषितशक्त्यौघदैत्यसङ्घविदारितायै नमः ।
ॐ मुण्डकोपप्रज्वलितभीतदेवसमुत्सुकायै नमः ।
ॐ मुण्डासुरमहायुद्धदेववाद्यसुघोषितायै नमः ।
ॐ मुण्डासुरवधोत्साहदेवदुन्दुभिघोषितायै नमः ।
ॐ मुण्डासुरमहायुद्धपटहानद्धदैत्यगायै नमः ।
ॐ मुण्डासुरशिरोगृह्यखड्गपातनिकृन्तन्यै नमः ।
ॐ मुण्डासुरशिरोगृह्यहस्तकन्दुकक्रीडनोत्सुकायै नमः ।
ॐ मुण्डासुरशिरोहस्तसन्तुष्टसुरसैनिकायै नमः ।
ॐ मुण्डासुरहतप्राप्तदैत्यसङ्घप्ररोचिन्यै नमः ।
ॐ मुण्डासुरशिरोहस्तविभ्रामितदिगम्बरायै नमः ।
ॐ मुण्डासुरशिरोहस्तदैत्यसङ्घविभीषितायै नमः ।
ॐ मुण्डासुरशिरस्रावरक्तवस्त्रसमुज्ज्वलायै नमः ।
ॐ मुण्ड मुण्ड सुसन्दृष्ट दैत्यसैन्यपलायितायै नमः ।
ॐ मुण्डमालालसत्कण्ठलम्बजिह्वासुनर्तन्यै नमः ।
ॐ मुण्डवस्त्रपरीधानसुशोभितशरीरिण्यै नमः ।
ॐ मुण्डदैत्यवधोत्साहमुनिसङ्घसमुत्सुकायै नमः ।
ॐ मुण्डदैत्यवधोत्साहदेवसंस्तुतवैभवायै नमः ।
ॐ मुण्डदैत्यशिरछेत्र्यै नमः ।
ॐ मुण्डिन्यै नमः ।
ॐ मुण्डरूपिण्यै नमः ।
ॐ मुण्ड्यै नमः ।
ॐ मुण्डमथन्यै नमः ।
ॐ मुण्डोज्ज्वलसुशोभितायै नमः ।
ॐ मुण्डासुरवधोत्पन्नदेवऋषिगणतोषितायै नमः ।
ॐ डमरोत्कटसन्नद्धायै नमः ।
ॐ डाकिनीगणसेवितायै नमः ।
ॐ डमर्वङ्कुशहस्ताढ्यायै नमः ।
ॐ डाकिनीगणपूजितायै नमः ।
ॐ डम्बरयुक्तजनोत्साहायै नमः ।
ॐ डम्बरयुक्तविगर्हितायै नमः ।
ॐ डाडिमीकुसुमसङ्काशायै नमः ।
ॐ डाडिमीफलसुप्रियायै नमः ।
ॐ डकारशोभितमनवे नमः ।
ॐ डम्बिकायै नमः ।
ॐ डामरोत्सुकायै नमः ।
ॐ डामर्यै नमः ।
ॐ डम्बरहितायै नमः ।
ॐ डम्बाडम्बसमुत्सुकायै नमः ।
ॐ डमरुवाद्यसुसंप्रीत्यै नमः ।
ॐ डमरुहस्तसखीजनायै नमः ।
ॐ डमरोत्कटसन्नादायै नमः ।
ॐ डमरुध्वनिसङ्कुलायै नमः ।
ॐ डमरुध्वनिसंस्तम्भितदैत्यसङ्घविराजितायै नमः ।
ॐ डकारविलसन्मन्त्रायै नमः ।
ॐ डकारपरमार्थदायै नमः ।
ॐ डकारमन्त्रसर्वस्वायै नमः ।
ॐ डकारहतकिल्बिषायै नमः ।
ॐ डकारहतदैत्यौघायै नमः ।
ॐ डकारगिरिसुप्रियायै नमः ।
ॐ डकाराक्षरसुप्रीतायै नमः ।
ॐ डकारामोददायिन्यै नमः ।
ॐ डम्बासुरसुसंहन्त्र्यै नमः ।
ॐ डम्बाडम्बविवर्जितायै नमः ।
ॐ डकारहतपापौघायै नमः ।
ॐ डकारपरसौख्यदायै नमः ।
ॐ डकारपूजनप्रीतायै नमः ।
ॐ डकारोज्ज्वलमध्यगायै नमः ।
ॐ यैङ्काराक्षरसम्पूज्यायै नमः ।
ॐ यैङ्काराक्षरशोभितायै नमः ।
ॐ यैङ्कारक्षरशोभितमनसे नमः ।
ॐ यैङ्कारतरुवासिन्यै नमः ।
ॐ यैङ्कारगिरिसम्भवायै नमः ।
ॐ यैङ्कारगुहसंस्थितायै नमः ।
ॐ यैङ्कारसिंहसंवाहायै नमः ।
ॐ यैङ्काराक्षरसुस्थिरायै नमः ।
ॐ यैङ्काराक्षरसुप्रीतायै नमः ।
ॐ यैङ्कारमनुमध्यगायै नमः ।
ॐ यैङ्कारमनुमध्यस्थायै नमः ।
ॐ यैङ्काराक्षरसुप्रियायै नमः ।
ॐ यैङ्कारविलसन्मन्त्रायै नमः ।
ॐ यैङ्काराक्षरभासुरायै नमः ।
ॐ यैङ्कारगजसंरूढायै नमः ।
ॐ यैङ्कारतुरगोज्ज्वलायै नमः ।
ॐ यैङ्कारविलसद्योगायै नमः ।
ॐ यैङ्काराह्लादकारिण्यै नमः ।
ॐ यैङ्काररथसंरूढायै नमः ।
ॐ यैङ्कारसुखसुप्तिकायै नमः ।
ॐ यैङ्काराक्षररूपिण्यै नमः ।
ॐ यैङ्कारपरमानन्दायै नमः ।
ॐ यैङ्कारपरमाक्षरायै नमः ।
ॐ यैङ्कारानन्दहृदयायै नमः ।
ॐ यैङ्कारपरसौख्यदायै नमः ।
ॐ यैङ्कारसुखसंसुप्तायै नमः ।
ॐ यैङ्कारायै नमः ।
ॐ यैङ्काररूपिण्यै नमः ।
ॐ यैङ्कारज्ञानसम्पन्नायै नमः ।
ॐ यैङ्कारपररूपिण्यै नमः ।
ॐ यैङ्कारसम्पदापत्यै नमः ।
ॐ यैङ्कारफलदायिन्यै नमः ।
ॐ यैङ्कारजपसौख्यदायै नमः ।
ॐ विज्ञानजनसन्तुष्टायै नमः ।
ॐ विज्ञानजनपूजितायै नमः ।
ॐ विज्ञानजनसुप्रीतायै नमः ।
ॐ विज्ञानजनसौख्यदायै नमः ।
ॐ विज्ञानपरमानन्ददायै नमः ।
ॐ विज्ञानजनतोषिण्यै नमः ।
ॐ विज्ञानानन्दसुखितायै नमः ।
ॐ विज्ञानतत्त्वसन्दर्शायै नमः ।
ॐ विज्ञानानन्दरूपिण्यै नमः ।
ॐ विज्ञानवादसुप्रीतायै नमः ।
ॐ विज्ञानार्थविदां वरायै नमः ।
ॐ विज्ञानवादमध्यस्थायै नमः ।
ॐ विज्ञानघनरूपिण्यै नमः ।
ॐ विज्ञानज्ञानसन्धात्र्यै नमः ।
ॐ विज्ञानसुखदायिन्यै नमः ।
ॐ विज्ञानार्थविवादकारणानन्दविग्रहायै नमः ।
ॐ विज्ञानतत्त्वपदार्थजनसन्देहनाशिन्यै नमः ।
ॐ विज्ञानज्ञानविदितायै नमः ।
ॐ विज्ञानारण्यवासिन्यै नमः ।
ॐ विज्ञानासवसुप्रीतायै नमः ।
ॐ विज्ञानमधुपायिन्यै नमः ।
ॐ विज्ञानामृतसंवासायै नमः ।
ॐ विज्ञानामृतपायिन्यै नमः ।
ॐ विज्ञानामृताब्धिमध्यस्थायै नमः ।
ॐ विज्ञानाब्धिसमाह्लादायै नमः ।
ॐ विज्ञानाब्धिचन्द्रमसे नमः ।
ॐ विज्ञानमन्दिरावासायै नमः ।
ॐ विज्ञानमधुभृङ्गिकायै नमः ।
ॐ विज्ञानरथसंरूढायै नमः ।
ॐ विज्ञानतुरगोज्ज्वलायै नमः ।
ॐ विज्ञानहृदयानन्दसत्स्वरूपप्रदेशिन्यै नमः ।
ॐ विज्ञानानन्दसम्योगप्रबोधनपटीयस्यै नमः ।
ॐ विज्ञानमण्डपान्तस्थसुपूजितपदद्वयायै नमः ।
ॐ चेतनायै नमः ।
ॐ चेतनारूपायै नमः ।
ॐ चेतनारूपधारिण्यै नमः ।
ॐ चेकाराक्षरसम्पूज्यायै नमः ।
ॐ चेकाराक्षरमूर्धजायै नमः ।
ॐ चेकारशोभितमनवे नमः ।
ॐ चेकाराक्षरशोभितायै नमः ।
ॐ चेकारसिद्धनैर्मल्यायै नमः ।
ॐ चेकाराक्षरसौख्यदायै नमः ।
ॐ चेकिताशेषभुवनायै नमः ।
ॐ चेकारानन्दायिन्यै नमः ।
ॐ चेरदेशकृतावासायै नमः ।
ॐ चेरदेशसुरक्षितायै नमः ।
ॐ चेकाराक्षरसंशोभायै नमः ।
ॐ चेरेश्वरसुरक्षितायै नमः ।
ॐ चेकारान्त्यसुशोभितायै नमः ।
ॐ चेकाराक्षरसञ्जप्यायै नमः ।
ॐ चेकाराक्षरसम्युतायै नमः ।
ॐ चेकाराक्षरमन्त्राद्यजपसन्तोषदायिन्यै नमः ।
ॐ चेदिराज्यकृतद्वेषायै नमः ।
ॐ चेदिराजावमानितायै नमः ।
ॐ चेदिराजसंहन्त्र्यै नमः ।
ॐ चेदिराजभयप्रदायै नमः ।
ॐ चेदिराजसमुन्मूलनाशनोत्सुकविग्रहायै नमः ।
ॐ चेदिराजप्रमोत्पन्नसमुत्सुकविराजितायै नमः ।
ॐ चेदिराजवधोत्साहायै नमः ।
ॐ चेदिराजवधप्रियायै नमः ।
ॐ चेदिराजशिरोहन्त्र्यै नमः ।
ॐ चेदिजनसुरक्षितायै नमः ।
ॐ चेतनाचेतनयै नमः ।
ॐ चेनोज्ज्वलरूपिण्यै नमः ।
ॐ चेरचोळादिदेशस्थराजचोरविनाशिन्यै नमः ।
ॐ ऐं ह्रीं क्लीं शोभायै नमः ।
ॐ चामुण्डायै सुपूजितायै नमः ।
ॐ विच्छे विशेषतत्त्वार्थज्ञानज्ञेयस्वरूपिण्यै नमः ।
ॐ महाकाली-महालक्ष्मी-महासरस्वतीस्वरूपिण्यै चण्डिकापरमेश्वर्यै नमः ।
ॐ श्रीदुर्गापरमेश्वर्यै नमः ।
॥ इति श्रीचण्डिका नवाक्षरी त्रिशती नामावलिः समाप्ता ॥
संलिखित ग्रंथ (Related Content)
श्रीचण्डिका नवाक्षरी त्रिशती: नवार्ण मंत्र का विस्तार (Expansion of Navarna Mantra)
सनातन धर्म के शाक्त संप्रदाय में नवार्ण मंत्र (ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे) को सर्वोच्च स्थान प्राप्त है। इसे देवी का 'महामंत्र' और 'तारक मंत्र' कहा जाता है। श्रीचण्डिका नवाक्षरी त्रिशती इसी चमत्कारी मंत्र की एक अद्भुत व्याख्या है। इसमें नवार्ण मंत्र के प्रत्येक बीज (अक्षर) का विस्तार करके 300 से अधिक नामों की रचना की गई है। यह नाम केवल शब्द नहीं, बल्कि उस बीज मंत्र की अंतर्निहित शक्ति के विस्फोट हैं।
बीजाक्षरों का क्रम:
- ऐं (Aim): यह वाग्बीज है, जो महासरस्वती का प्रतीक है। त्रिशती के आरम्भ में 'ऐङ्कारपीठमध्यस्थायै', 'ऐङ्काररूपायै' जैसे नामों से ज्ञान और वाणी की देवी की स्तुति की गई है।
- ह्रीं (Hreem): यह माया बीज है, जो महालक्ष्मी का प्रतीक है। 'ह्रीङ्कारमन्त्रसमवासायै', 'ह्रीङ्कारकमलोज्ज्वलायै' जैसे नाम ऐश्वर्य और पालन शक्ति को जाग्रत करते हैं।
- क्लीं (Kleem): यह कामराज बीज है, जो महाकाली का प्रतीक है। 'क्लीङ्कारपद्मनिलयायै', 'क्लीङ्कारविजयप्रदायै' जैसे नाम शत्रुओं का नाश और इच्छा पूर्ति करते हैं।
- चामुण्डायै (Chamundayai): यहाँ 'च', 'मु', 'ण', 'ड', 'य', 'ै' अक्षरों के विस्तार से (जैसे 'चारुचन्द्रकलाधरायै', 'मुण्डमथन्यै') देवी के चामुण्डा स्वरूप का उग्र और सौम्य वर्णन है।
- विच्चे (Vichche): अंत में 'वि', 'च्चे' अक्षरों से (जैसे 'विज्ञानजनसन्तुष्टायै', 'चेतनायै') ज्ञान और चेतना के परम तत्व का बोध कराया गया है।
त्रिशती का तांत्रिक और यौगिक महत्व (Tantric & Yogic Significance)
यह त्रिशती साधक को स्थूल पूजा से सूक्ष्म साधना की ओर ले जाती है। इसमें बीजाक्षरों के साथ देवी का तादात्म्य स्थापित किया गया है।
- चण्ड-मुण्ड वध का रहस्य: 'मुण्डसेनामहासङ्घनादविमोहितायै' और 'मुण्डदैत्यशिरछेत्र्यै' जैसे नाम केवल पौराणिक कथा नहीं, बल्कि हमारे भीतर के 'प्रवृत्ति' (चण्ड) और 'निवृत्ति' (मुण्ड) रूपी द्वंद्वों के नाश का प्रतीक हैं। देवी इन विक्षेपों को काटकर चित्त को शांत करती हैं।
- डमरू और नाद ब्रह्म: 'डमरोत्कटसन्नद्धायै' और 'डमरुध्वनिसङ्कुलायै' नाम देवी को नाद-ब्रह्म (Sound Vibrations) के रूप में स्थापित करते हैं। यह ध्वनि शत्रुओं को स्तम्भित करती है और साधक की चेतना को ऊर्ध्वगामी बनाती है।
- विज्ञान और चेतना: अंत के नामों में देवी को 'विज्ञानपरमानन्ददायै' और 'चेतनाचेतनयै' कहा गया है। यह अद्वैत वेदांत का सिद्धांत है—देवी ही वह परम चेतना (Consciousness) हैं जो जड़ और चेतन दोनों में व्याप्त हैं।
- त्रिगुणात्मक शक्ति: 297वें नाम 'ऐं ह्रीं क्लीं शोभायै नमः' में तीनों शक्तियों का एकीकरण है। यह त्रिशती सत्व, रज और तम—तीनों गुणों को संतुलित कर साधक को गुणातीत अवस्था (मोक्ष) की ओर ले जाती है।
फलश्रुति: पाठ से प्राप्त होने वाले सिद्ध लाभ (Benefits of Recitation)
नवार्ण मंत्र से अभिमंत्रित इस त्रिशती का पाठ करने से साधक को तत्काल और चमत्कारिक लाभ प्राप्त होते हैं:
- मंत्र सिद्धि: जो साधक नवार्ण मंत्र का जप करते हैं, उनके लिए यह त्रिशती 'संजीवनी' है। इसके पाठ से मंत्र चैतन्य (जाग्रत) हो जाता है और जप का फल अनंत गुना बढ़ जाता है।
- वाकसिद्धि और विद्या: 'ऐं' कार के नामों (जैसे 'ऐङ्कारवाच्यायै') के प्रभाव से जड़ बुद्धि व्यक्ति भी महाज्ञानी बन जाता है और उसकी वाणी सिद्ध हो जाती है।
- शत्रु और बाधा नाश: 'क्लीं' और 'चामुण्डा' के नामों (जैसे 'क्लीङ्कारहतदैत्यौघायै', 'मुण्डमथन्यै') से बड़े से बड़े शत्रु, तांत्रिक अभिचार और ग्रह बाधाएं तत्काल नष्ट हो जाती हैं।
- अखंड धन और ऐश्वर्य: 'ह्रीं' कार के नामों (जैसे 'ह्रीङ्कारमणिभूषाढ्यायै') से दरिद्रता का नाश होता है और साधक को कुबेर तुल्य संपदा प्राप्त होती है।
- आत्म-ज्ञान और मोक्ष: 'विच्चे' के नामों (जैसे 'विशेषतत्त्वार्थज्ञानज्ञेयस्वरूपिण्यै') से साधक को आत्म-साक्षात्कार होता है और वह जन्म-मृत्यु के चक्र से मुक्त हो जाता है।
पाठ विधि एवं अनुष्ठान के नियम (Ritual Method & Guidelines)
चूँकि यह नामावली नवार्ण मंत्र पर आधारित है, इसलिए इसकी विधि अत्यंत पवित्र और महत्वपूर्ण है।
दैनिक पाठ विधि:
प्रातः स्नानादि के पश्चात लाल आसन पर पूर्व या उत्तर की ओर मुख करके बैठें। माँ चण्डिका का चित्र या यंत्र स्थापित करें। सबसे पहले गणेश जी और गुरु का ध्यान करें। इसके बाद नवार्ण मंत्र (ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे) की कम से कम एक माला (108 बार) जप करें। जप पूर्ण होने के बाद इस त्रिशती के नामों का पाठ करें।
अर्चन (हवन/पुष्प अर्पण):
विशेष कामना पूर्ति के लिए प्रत्येक नाम के साथ लौंग, कपूर, लाल पुष्प या कुमकुम देवी के चरणों में अर्पित करें। यदि हवन कर रहे हैं, तो प्रत्येक नाम के अंत में 'स्वाहा' लगाकर आहुति दें (जैसे—ॐ ऐङ्कारपीठमध्यस्थायै स्वाहा)।
विशिष्ट मुहूर्त:
नवरात्रि (विशेषकर महानिशा/अष्टमी), चतुर्दशी (विशेषकर काली चौदस), और मंगलवार के दिन इसका अनुष्ठान सर्वसिद्धिदाायक होता है। ग्रहण काल में इसका पाठ करने से मंत्र तत्काल सिद्ध हो जाता है।
अक्सर पूछे जाने वाले प्रश्न (FAQ)
1. यह 'नवाक्षरी त्रिशती' क्या है?
यह माँ चण्डिका के 300 नामों का संग्रह है जो उनके प्रसिद्ध 'नवार्ण मंत्र' (9 अक्षरों वाले मंत्र) के प्रत्येक अक्षर (ऐं, ह्रीं, क्लीं...) पर आधारित है। यह मंत्र का विस्तृत रूप है।
2. नवार्ण मंत्र के तीन बीज (ऐं, ह्रीं, क्लीं) किसका प्रतीक हैं?
'ऐं' महासरस्वती (ज्ञान), 'ह्रीं' महालक्ष्मी (धन/ऐश्वर्य), और 'क्लीं' महाकाली (शक्ति/शत्रु नाश) का प्रतीक है। यह त्रिशती इन तीनों शक्तियों को एक साथ जाग्रत करती है।
3. क्या इस पाठ से पहले नवार्ण मंत्र का जप जरूरी है?
जी हाँ। यह त्रिशती नवार्ण मंत्र का ही अंग है। इसलिए पाठ शुरू करने से पहले कम से कम 108 बार नवार्ण मंत्र का जप करना अत्यंत आवश्यक और फलदायी माना गया है।
4. 'चामुण्डायै' शब्द के नामों का क्या महत्व है?
चामुण्डा देवी ने चण्ड और मुण्ड असुरों का वध किया था। इस त्रिशती में 'च' और 'मु' वर्ग के नाम (जैसे 'मुण्डमथन्यै') हमारे भीतर के अहंकार और द्वेष का नाश करते हैं।
5. क्या यह पाठ दुर्गा सप्तशती के पाठ के साथ किया जा सकता है?
बिल्कुल। दुर्गा सप्तशती के पाठ के बाद या कवच, अर्गला, कीलक के बाद इस त्रिशती का पाठ करने से सप्तशती का फल पूर्णता को प्राप्त होता है।
6. 'विच्चे' का क्या अर्थ है?
'विच्चे' का अर्थ है 'खोलना' या 'मुक्त करना'। यह साधक के ज्ञान चक्षु खोलता है और उसे अज्ञान के बंधन से मुक्त करता है। त्रिशती के अंतिम नाम इसी ज्ञान का बोध कराते हैं।
7. क्या किसी विशेष माला का प्रयोग करना चाहिए?
नवार्ण मंत्र और इस त्रिशती के जप के लिए रुद्राक्ष या स्फटिक की माला सर्वोत्तम है। यदि कामना धन की हो, तो कमलगट्टे की माला का प्रयोग करें।
8. 'चेदिराज' का उल्लेख क्यों है?
चेदिराज (शिशुपाल) भगवान कृष्ण का विरोधी था। यहाँ 'चेदिराज' का प्रतीकात्मक अर्थ 'शत्रु राजा' या 'अहंकार' है। देवी इन शत्रुओं के भय और प्रभाव को नष्ट (संहन्त्र्यै) करती हैं।
9. क्या स्त्रियाँ इसका पाठ कर सकती हैं?
हाँ, माँ जगदम्बा की उपासना का अधिकार सभी संतानों को है। स्त्रियाँ पूर्ण पवित्रता और भक्ति भाव से इसका पाठ कर सकती हैं।
10. 'चारु' शब्द का बार-बार प्रयोग (श्लोक 101-132) क्यों है?
'चारु' का अर्थ है अत्यंत सुंदर। 'च' अक्षर से शुरू होने वाले इन नामों में देवी के नख-शिख (पैरों से सिर तक) सौंदर्य का वर्णन है, जो साधक को देवी के सगुण रूप के ध्यान में मदद करता है।