॥ श्रीगणेशाय नमः ॥
॥ अथ वेदोक्तसबीजनवग्रहमन्त्रजपप्रयोगः ॥
१. सूर्यः (Sun)
अथ आदित्यमन्त्रः - विनियोगः
ॐ आकृष्णेति मन्त्रस्य हिरण्यस्तूपाङ्गिरस ऋषिस्त्रिष्टुप्छन्दः सूर्यो देवता सूर्यप्रीत्यर्थे जपे विनियोगः ॥
अथ देहाङ्गन्यासः
आकृष्णेन शिरसि । रजसा ललाटे । वर्तमानो मुखे । निवेशयन् हृदये । अमृतं नाभौ । मर्त्यं च कट्याम् । हिरण्ययेन सविता ऊर्व्वोः । रथेना जान्वोः । देवो याति जङ्घयोः । भुवनानि पश्यन् पादयोः ॥
अथ करन्यासः एवं हृदयादिन्यासः
आकृष्णेन रजसा अङ्गुष्ठाभ्यां नमः / हृदयाय नमः ।
वर्तमानो निवेशयन् तर्जनीभ्यां नमः / शिरसे स्वाहा ।
अमृतं मर्त्यं च मध्यमाभ्यां नमः / शिखायै वषट् ।
हिरण्ययेन अनामिकाभ्यां नमः / कवचाय हुँ ।
सविता रथेना कनिष्ठिकाभ्यां नमः / नेत्रत्रयाय वौषट् ।
देवो याति भुवनानि पश्यन् करतलकरपृष्ठाभ्यां नमः / अस्त्राय फट् ।
अथ ध्यानं एवं सूर्यगायत्री
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहनः ।
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥
ॐ आदित्याय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ १॥
॥ सबीज जपमन्त्रः ॥
ॐ ह्राँ ह्रीं ह्रौं सः ॐ भूर्भुवः स्वः -
ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतम्मर्त्यञ्च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
ॐ स्वः भुवः भूः ॐ सः ह्रौं ह्रीं ह्राँ ॐ सूर्याय नमः ॥ १॥
अनुष्ठान एवं दान
जपसङ्ख्या ७०००। जपान्ते अर्कसमित्-तिल-पायस-घृतैर्द्दशांशहोमः।
दान: माणिक्यगोधूमसवत्सधेनुः कौसुम्भवासो गुडहेम ताम्रम् । आरक्तकं चन्दनमम्बुजञ्च वदन्ति दानं हि प्रदीप्तधाम्ने ॥
२. चन्द्रः (Moon)
विनियोगः
इमन्देवेतिमन्त्रस्य गौतम ऋषिः, सोमो देवता, विराट् छन्दः, सोमप्रीत्यर्थे जपे विनियोगः ।
देहाङ्गन्यासः
इमं देवा शिरसि । असपत्नꣳ ललाटे । सुवध्वं नासिकायाम् । महते क्षत्राय मुखे । महते ज्येष्ट्याय हृदये । महते जानराज्याय उदरे । इन्द्रस्येन्द्रियाय नाभौ । इमममुष्य कट्याम् । पुत्रममुष्यै मेढ्रे । पुत्रमस्यै ऊर्वोः । विशऽएष वो जान्वोः । मीराजा जङ्घयोः । सोमोऽस्माकं गुल्फयोः । ब्राह्मणानाꣳ राजा पादयोः ।
अथ ध्यानं एवं चन्द्रगायत्री
श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः ।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः ॥
ॐ अत्रिपुत्राय विद्महे सागरोद्भवाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥
॥ सबीज जपमन्त्रः ॥
ॐ श्राँ श्रीं श्रौं सः ॐ भूर्भुवः स्वः -
ॐ इमन्देवाऽअसपत्नꣳ सुवध्वम्महते क्षत्राय महते ज्येष्ठ्याय महते जानराज्ज्यायेन्द्रस्येन्द्रियाय । इमममुष्य पुत्रममुष्यै पुत्रमस्यै विशऽएष वोऽमीराजा सोमोस्माकम्ब्राह्मणानाꣳ राजा ॥
ॐ स्वः भुवः भूः ॐ सः श्रौं श्रीं श्राँ ॐ सोमाय नमः ॥
अनुष्ठान एवं दान
जपसङ्ख्या ११०००। पलाशसमित् दशांशहोमः।
दान: सद्वंशपात्रस्थिततन्दुलाश्च कर्पूरमुक्ताफलशुभ्रवस्त्रम् । युगोपयुक्तं वृषभश्च रौप्यं चन्द्राय दद्याद् घृतपूर्णकुम्भम् ॥
३. भौमः (Mars)
विनियोगः
अग्निर्मूद्धेति मन्त्रस्य विरूपाङ्गिरस ऋषिः, अग्निर्देवता, गायत्री छन्दः, भौमप्रीत्यर्थे जपे विनियोगः।
देहाङ्गन्यासः
अग्निः शिरसि । मूर्द्धा ललाटे । दिवः मुखे । ककुत् हृदये । पतिः उदरे । पृथिव्या नाभौ । अयं कट्याम् । अपाꣳ जान्वोः । रेताꣳ सि गुल्फयोः । जिन्वति पादयोः ।
अथ ध्यानं एवं भौमगायत्री
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगतो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली सदायमस्मद्वरदः प्रसन्नः ॥
ॐ क्षितिपुत्राय विद्महे लोहिताङ्गाय धीमहि तन्नो भौमः प्रचोदयात् ॥
॥ सबीज जपमन्त्रः ॥
ॐ क्राँ क्रीं क्रौं सः भूर्भुवः स्वः -
ॐ अग्निर्म्मूर्द्धा दिवः ककुत्पतिः पृथिव्याऽअयम् । अपाꣳ रेताꣳ सि जिन्न्वति ॥
ॐ स्वः भवः भूः ॐ सः क्रौं क्रीं क्राँ ॐ भौमाय नमः ॥
अनुष्ठान एवं दान
जपसङ्ख्या १००००। खदिरसमित् दशांशहोमः।
दान: प्रवालगोधूममसूरिकाश्च वृषोऽरुणश्चापि गुडः सुवर्णम् । आरक्तवस्त्रं करवीरपुष्पं ताम्रं च भौमाय वदन्ति दानम् ॥
४. बुधः (Mercury)
विनियोगः
उद्बुध्यस्वेति मन्त्रस्य परमेष्ठी प्रजापति ऋषिः त्रिष्टुप्छन्दः, बुधो देवता, बुधप्रीत्यर्थे जपे विनियोगः ।
देहाङ्गन्यासः
उद्बुध्यस्वेति शिरसि । अग्ने प्रति ललाटे । जागृहि त्वं मुखे । इष्टापूर्ते हृदये । सꣳ सृजेथामयञ्च नाभौ । अस्मिन्त्सधस्थे कट्याम् । अद्ध्युत्तरस्मिन् ऊर्वोः । विश्वे देवा जान्वोः । यजमानश्च गल्फयोः । सीदत पादयोः ॥
अथ ध्यानं एवं बुधगायत्री
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च हारी ।
चर्मासिधृक् सोमसुतो गदाभृत् सिंहाधिरूढो वरदो बुधश्च ॥
ॐ चन्द्रपुत्राय विद्महे रोहिणीप्रियाय धीमहि तन्नो बुधः प्रचोदयात् ॥
॥ सबीज जपमन्त्रः ॥
ॐ ब्राँ ब्रीं ब्रौं सः भूर्भुवः स्वः -
ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते सꣳ सृजेथामयञ्च अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन्न्विश्वे देवा यजमानश्च सीदत ॥
ॐ स्वः भुवः भूः ॐ सः ब्रौं ब्रीं ब्राँ ॐ सौम्याय नमः ॥
अनुष्ठान एवं दान
जपसङ्ख्या ४०००। अपामार्गसमित् दशांशहोमः।
दान: चैलं च नीलं कलधौतकांस्यं मुद्राज्यगारुत्मतसर्वपुष्यम् । दासी च दन्तो द्विरदस्य नूनं वदन्ति दानं बिधुनन्दनाय ॥
५. बृहस्पतिः (Jupiter)
विनियोगः
बृहस्पतेति मन्त्रस्य गृत्समद ऋषिः, अनुष्टुप्छन्दः, ब्रह्मा देवता, बृहस्पतिप्रीत्यर्थे जपे विनियोगाः
देहाङ्गन्यासः
बृहस्पते शिरसि । अतियदर्य्यो ललाटे । अर्हाद्युमत् मुखे । विभाति क्रतुमत् हृदये । जनेषु नाभौ । यद्दीदयत् कट्याम् । शवसऋतप्रजात ऊर्वोः । तदस्मासु द्रविणं जान्वोः । धेहि गुल्फयोः । चित्रं पादयोः ।
अथ ध्यानं एवं गुरुगायत्री
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशान्तः ।
तथाऽक्षसूत्रं च कमण्डलुञ्च दण्डञ्च बिभ्रद्वरदोऽस्तु मह्यम् ॥
ॐ अङ्गिरोजाताय विद्महे वाचस्पतये धीमहि तन्नो गुरुः प्रचोदयात् ॥
॥ सबीज जपमन्त्रः ॥
ॐ ह्राँ ह्रीं ह्रौं सः भूर्भुवः स्वः -
ॐ बृहस्पतेऽअतियदर्य्योऽअर्हाद्युमद्विभाति क्रतुमज्जनेषु यद्दीदयच्छवसऽऋत प्रजात तदस्मासु द्रविणन्धेहि चित्रम् ॥
ॐ स्वः भवः भूः ॐ सः ह्रौं ह्रीं ह्राँ ॐ बृहस्पतये नमः ॥
अनुष्ठान एवं दान
जपसङ्ख्या १९०००। अश्वत्थसमित् दशांशहोमः।
दान: शर्करा च रजनीतुरङ्गमः पीतधान्यमपि पीतमम्बरम् । पुष्पराजलवणे च काञ्चनं प्रीतये सुरगुरोः प्रदीयताम् ॥
६. शुक्रः (Venus)
विनियोगः
अन्नात्परिस्रुतेति मन्त्रस्य प्रजापतिऋषिः, अनुष्टुप् छन्दः, शुक्रो देवता, शुक्रप्रीत्यर्थे जपे विनियोगः।
देहाङ्गन्यासः
अन्नात्परिस्रुतः शिरसि । रसं ब्रह्मणा ललाटे । व्यपिबत्क्षत्रं मुखे । पयः सोमं हृदये । प्रजापतिः नाभौ । ऋतेन सत्यं कट्याम् । इन्द्रियं विपानꣳ गुदे । शुक्रं वृषणे । अन्धस ऊर्वोः इन्द्रस्येन्द्रियं जानुनोः । इदं पयः गुल्फयोः । अमृतं मधु पादयोः।
अथ ध्यानं एवं भृगुगायत्री
श्वेताम्बरः श्वेतवपुः किरीटी चतुर्भुजो दैत्यगरुः प्रशान्तः ।
तथाऽक्षसूत्रञ्च कमण्डलुञ्च दण्डञ्च बिभ्रद्वरदोऽस्तु मह्यम् ॥
ॐ भृगुवंशजाताय विद्महे श्वेतवाहनाय धीमहि तन्नः कविः प्रचोदयात् ॥
॥ सबीज जपमन्त्रः ॥
ॐ द्राँ द्रीं द्रौं सः भूर्भुवः स्वः -
ॐ अन्नात् परिस्रुतो रसम्ब्रह्मणा व्यपिबत्क्षत्रम्पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपानर्ठं शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदम्पयो मृतम्मधु ॥
ॐ स्वः भुवः भूः ॐ सः द्रौं द्रीं द्राँ ॐ शुक्राय नमः ॥
अनुष्ठान एवं दान
जपसङ्ख्या १६०००। औदुम्बरसमित् दशांशहोमः।
दान: चित्राम्बरं शुभ्रतुरङ्गमश्च धेनुश्च वज्रं रजतं सुवर्णम् । सुतण्डुलानुत्तमगन्धयुक्तान् वदन्ति दानं भृगुनन्दनाय ॥
७. शनिः (Saturn)
विनियोगः
शन्नो देवीति मन्त्रस्य सिन्धुद्वीप ऋषिः, गायत्रीछन्दः आपो देवता, शनिप्रीत्यर्थे जपे विनियोगः ।
देहाङ्गन्यासः
शन्नो शिरसि । देवीः ललाटे । अभिष्टय मुखे । आपो कण्ठे । भवन्तु हृदये । पीतये नाभौ । शं कट्याम् । योः ऊर्वोः । अभि जान्वोः । स्रवन्तु गुल्फयीः । नः पादयोः ।
अथ ध्यानं एवं शनिगायत्री
नीलाम्बरः शूलधरः किरीटी गृघ्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तः सदाऽस्तु मह्यं वरदोऽल्पगामी ॥
ॐ कृण्णाङ्गाय विद्महे रविपुत्राय धीमहि तन्नः सौरिः प्रचोदयात् ॥
॥ सबीज जपमन्त्रः ॥
खाँ खीं खौं सः ॐ भूर्भुवः स्वः -
ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये शंय्योरभिस्रवन्तु नः ॥
ॐ स्वः भुवः भूः ॐ सः खौं खीं खाँ ॐ शनैश्चराय नमः ॥
अनुष्ठान एवं दान
जपसङ्ख्या २३०००। शमीसमित् दशांशहोमः।
दान: माषांश्च तैलं विमलेन्द्रनीलं तिलाः कुलित्था महिषी च लोहम् । कृष्णा च धेनुः प्रवदन्ति नूनं दुष्टाय दानं रविनन्दनाय ॥
८. राहुः (Rahu)
विनियोगः
कया नश्चित्रेति मन्त्रस्य वामदेव ऋषिः, गायत्री छन्दः, राहुर्देवताः, राहुप्रीत्यर्थे जपे विनियोगः ॥
देहाङ्गन्यासः
कया शिरसि । न ललाटे । चित्र मुखे । आ कण्ठे । भुव हृदये । दूती नाभौ । सदा कट्याम् । वृधः मेढ्रे । सखा ऊर्व्वो । कया जान्वोः । शचिष्ठया गुल्फयोः । वृता पादयोः ॥
अथ ध्यानं एवं राहुगायत्री
नीलाम्बरो नीलवपुः किरीटी करालवक्त्रः करवाल शूली ।
चतुर्भुजश्चक्रधरश्च राहुः सिंहाधिरूढो वरदोऽस्तु मह्यम् ॥
नीलवर्णाय विद्महे सैहिकेयाय धीमहि तन्नो राहुः प्रचोदयात् ॥
॥ सबीज जपमन्त्रः ॥
ॐ भ्राँ भ्रीं भ्रौं सः ॐ भूर्भुवः स्वः -
ॐ कया नश्चित्रऽआभुवदूती सदावृधः सखा । कया शचिष्ठया व्वृता ॥
ॐ स्वः भुवः भूः ॐ सः भ्रौं भ्रीं भ्राँ ॐ राहवे नमः ॥
अनुष्ठान एवं दान
जपसङ्ख्या १८०००। दुर्वासमित् दशांशहोमः।
दान: गोमेदरत्नं च तुरङ्गमश्च सुनीलचैलामलकम्बलञ्च । तिलाश्च तैलं खलु लोहमिश्रं स्वर्भानवे दानमिदं प्रदेयम् ॥
९. केतुः (Ketu)
विनियोगः
केतुं कृण्वन्निति मन्त्रस्य मधुच्छन्द ऋषिः, गायत्रीच्छन्दः, केतुर्देवता, केतुप्रीत्यर्थे जपे विनियोगः ।
देहाङ्गन्यासः
केतुं शिरसि । कृण्वन् ललाटे । अकेतवे मुखे । पेशो हृदये । मर्या नाभौ । अपेशसे कट्याम् । सं ऊर्व्वो । उषद्भिः जान्वोः । अजायथाः पादयोः ।
अथ ध्यानं एवं केतुगायत्री
धूम्रो द्विबाहुर्वरदो गदाधरो गृध्रासनस्थो विकृताननश्च ।
किरीटकेयूरविभूषितो यः सदाऽस्तु मे केतुगणः प्रशान्तः ॥
ॐ धूम्राय विद्महे कपोतवाहनाय धीमहि तन्नः केतुः प्रचोदयात् ॥
॥ सबीज जपमन्त्रः ॥
ॐ प्राँ प्रीं प्रौं सः ॐ भूर्भुवः स्वः -
ॐ केतुङ् कृण्वन्नकेतवे पेशो मर्य्याऽअपेशसे । समुषद्भिरजायथाः ॥
ॐ स्वः, भुवः, भूः, ॐ सः प्रौं प्रीं प्राँ ॐ केतवे नमः ॥
अनुष्ठान एवं दान
जपसङ्ख्या १७०००। कुशसमित् दशांशहोमः।
दान: वैडूर्यरत्नं सतिलं च तैलं सुकम्बलं चापि मदो मृगस्य । शस्त्रं च केतोः परितोषहेतोश्छागस्य दानं कथितं मुनीन्द्रैः ॥
॥ इति वेदोक्तसबीजनवग्रहमन्त्रजपप्रयोगः सम्पूर्णः ॥
संबंधित मन्त्र एवं प्रयोग (Related Texts)
वेदोक्त सबीज नवग्रह मन्त्र — वेद और तन्त्र का महा-संगम
हिंदू कर्मकांड और ज्योतिष शास्त्र में ग्रह शांति के अनगिनत उपाय हैं, परंतु "वेदोक्त सबीज नवग्रह मन्त्र जप प्रयोग" को उन सबका 'मुकुटमणि' (Crown Jewel) माना जाता है। यह एक अत्यंत दुर्लभ और शक्तिशाली विधान है क्योंकि इसमें वैदिक श्रुतियों (वेदों के मन्त्र) और तांत्रिक बीजाक्षरों का पूर्ण वैज्ञानिक समन्वय (Fusion) किया गया है।
सामान्यतः पंडित केवल वेदों की ऋचाओं (जैसे "आकृष्णेन रजसा...") का पाठ करते हैं। लेकिन जब किसी व्यक्ति की कुण्डली में कालसर्प दोष, गुरु चाण्डाल योग, या मारकेश की दशा अत्यंत उग्र हो, तब केवल वैदिक मन्त्र धीरे-धीरे प्रभाव करते हैं। ऐसे गंभीर समय में वैदिक मन्त्र को तांत्रिक बीजों (ह्रां ह्रीं ह्रौं) के साथ "सम्पुटित" (Locked) कर दिया जाता है। इस सम्पुटीकरण से मन्त्र की शक्ति लेज़र-बीम (Laser beam) की तरह अचूक और त्वरित हो जाती है।
सम्पुट का विज्ञान (Science of Samput): मन्त्र के आरंभ में "ॐ ह्राँ ह्रीं ह्रौं सः ॐ भूर्भुवः स्वः" लगाकर ऊर्जा का आह्वाहन किया जाता है, बीच में वैदिक ऋचा बोली जाती है, और अंत में "ॐ स्वः भुवः भूः ॐ सः ह्रौं ह्रीं ह्राँ" बोलकर उस ऊर्जा को ब्रह्मांड में प्रेषित (Seal) कर दिया जाता है। इसे ही सबीज या सम्पुटित मन्त्र कहते हैं।
देहाङ्ग न्यास: शरीर को मन्त्रमय बनाना
इस प्रयोग की एक और विशेषता 'देहाङ्ग न्यास' (Dehanga Nyasa) है। 'न्यस्यते इति न्यासः' अर्थात स्थापित करना।
मन्त्र का जाप करने से पहले, साधक वैदिक मन्त्र के अलग-अलग शब्दों को अपने शरीर के विभिन्न अंगों में स्थापित करता है। उदाहरण के लिए, सूर्य के मन्त्र में: "आकृष्णेन शिरसि" (मन्त्र का पहला शब्द 'आकृष्णेन' सिर पर स्थापित करें), "अमृतं नाभौ" (अमृतं शब्द नाभि पर स्थापित करें)।
ऐसा करने से साधक का भौतिक (हाड़-मांस का) शरीर समाप्त होकर एक 'वाङ्मय शरीर' (Body of Sound/Mantra) बन जाता है। तन्त्र का स्पष्ट नियम है— "देवो भूत्वा देवं यजेत्" (देवता बनकर ही देवता की पूजा करनी चाहिए)। देहांग न्यास साधक को देवता के स्तर तक उठा देता है।
पुरश्चरण विधि — जप, हवन, और दान (The Complete Ritual)
यह केवल मन्त्र-संग्रह नहीं है, बल्कि यह एक 'पुरश्चरण' (Purashcharana) का पूर्ण मैनुअल है। पुरश्चरण का अर्थ है मन्त्र को सिद्ध करने की 5 चरणों वाली प्रक्रिया।
| ग्रह (Planet) | जप संख्या (Count) | हवन समिधा (Homa Wood) | विशिष्ट दान सामग्री (Dana) |
|---|---|---|---|
| सूर्य (Sun) | 7,000 | अर्क (मदार) | माणिक्य, गेहूं, तांबा, लाल वस्त्र, गाय |
| चन्द्र (Moon) | 11,000 | पलाश (Palasha) | चावल, सफेद वस्त्र, चांदी, कर्पूर, मोती |
| मंगल (Mars) | 10,000 | खदिर (खैर/Khadira) | मूंगा, मसूर दाल, लाल बैल, गुड़, तांबा |
| बुध (Mercury) | 4,000 | अपामार्ग (Apamarga) | पन्ना (Emerald), मूंग, स्वर्ण, हाथी दांत |
| गुरु (Jupiter) | 19,000 | अश्वत्थ (पीपल/Peepal) | पुखराज, पीला धान्य, हल्दी, चीनी, सोना |
| शुक्र (Venus) | 16,000 | औदुम्बर (गूलर) | हीरा/जरकन, श्वेत घोड़ा, चांदी, सुगंध |
| शनि (Saturn) | 23,000 | शमी (Shami) | नीलम, उड़द, तेल, लोहा, काली गाय/भैंस |
| राहु (Rahu) | 18,000 | दूर्वा (Durva Grass) | गोमेद रत्न, तिल, लोहा, कंबल, घोड़ा |
| केतु (Ketu) | 17,000 | कुशा (Kusha Grass) | लहसुनिया, तिल का तेल, कस्तूरी, अस्त्र |
दशांश नियम: मन्त्र जपने के बाद, जपी गई संख्या का 10% (दशांश) हवन किया जाता है (हवन सामग्री में तिल, खीर, घी और विशिष्ट समिधा होनी चाहिए)। फिर हवन का 10% तर्पण, तर्पण का 10% मार्जन, और मार्जन का 10% ब्राह्मण भोजन कराया जाता है। इसके पश्चात ऊपर दी गई वस्तुओं का दान (Dana) करने से अनुष्ठान सफल होता है।
FAQ — अक्सर पूछे जाने वाले प्रश्न
1. वेदोक्त सबीज मन्त्र क्या होता है?
'वेदोक्त' का अर्थ है वेदों (ऋग्वेद/यजुर्वेद) में वर्णित मन्त्र और 'सबीज' का अर्थ है 'बीज मन्त्रों के साथ'। जब शुद्ध वैदिक मन्त्रों के आगे और पीछे तांत्रिक बीजाक्षरों (जैसे ह्रां ह्रीं) और व्याहृतियों को जोड़कर जपा जाता है, तो उसे वेदोक्त सबीज मन्त्र कहते हैं। यह सबसे शक्तिशाली रूप है।
2. मन्त्रों में 'सम्पुट' (Samput) का क्या रहस्य है?
सम्पुट का अर्थ है 'कवर करना' या 'लॉक करना'। इन मन्त्रों में वैदिक ऋचा के पहले 'ॐ ह्रां ह्रीं ह्रौं सः ॐ भूर्भुवः स्वः' और अंत में उसी का उल्टा 'ॐ स्वः भुवः भूः ॐ सः ह्रौं ह्रीं ह्रां' लगाया गया है। यह तांत्रिक सम्पुट मन्त्र की ऊर्जा को बिखेरने नहीं देता और त्वरित (Fast) फल देता है।
3. देहाङ्ग न्यास (Dehanga Nyasa) क्या होता है?
देहाङ्ग न्यास वह प्रक्रिया है जिसमें वैदिक मन्त्र के अलग-अलग शब्दों को साधक अपने शरीर के विभिन्न अंगों (जैसे सिर, ललाट, हृदय, नाभि, घुटने) पर स्पर्श कर स्थापित करता है। इससे साधक का भौतिक शरीर 'मन्त्रमय' और देव-तुल्य हो जाता है, जिससे मन्त्र शीघ्र सिद्ध होता है।
4. नवग्रहों की जप संख्या और हवन का क्या नियम है?
प्रत्येक ग्रह की एक निश्चित संख्या है (जैसे सूर्य 7000, चन्द्र 11000, शनि 23000)। अनुष्ठान पूर्ण होने पर जपी गई कुल संख्या का दशांश (10%) संबंधित ग्रह की समिधा (लकड़ी), तिल, पायस (खीर) और घी से हवन किया जाना अनिवार्य है।
5. मन्त्र से पहले ग्रह गायत्री (Graha Gayatri) का प्रयोग क्यों किया गया है?
गायत्री मन्त्र उस विशिष्ट देवता की चेतना (Consciousness) को जाग्रत करता है। मूल सबीज मन्त्र जपने से पहले ग्रह की गायत्री (जैसे सूर्य की 'आदित्याय विद्महे...') का पाठ करने से देवता साधक की प्रार्थना को शीघ्र स्वीकार करने के लिए उन्मुख हो जाते हैं।
6. नवग्रहों की हवन समिधाएँ क्या हैं?
शास्त्रों के अनुसार: सूर्य के लिए अर्क (मदार), चन्द्र के लिए पलाश, मंगल के लिए खदिर (खैर), बुध के लिए अपामार्ग, गुरु के लिए अश्वत्थ (पीपल), शुक्र के लिए उदुम्बर (गूलर), शनि के लिए शमी, राहु के लिए दूर्वा, और केतु के लिए कुशा की समिधा का प्रयोग हवन में होता है।
7. दान द्रव्याणि (Dana Dravyani) का क्या महत्व है?
अनुष्ठान के अंत में ग्रह दोष को पूरी तरह 'विसर्जित' (Release) करने के लिए विशिष्ट वस्तुओं का दान किया जाता है। जैसे सूर्य के लिए माणिक्य, गेहूं और तांबा; शनि के लिए तिल, लोहा और काली गाय का दान बताया गया है। दान के बिना अनुष्ठान पूर्ण नहीं माना जाता।
8. क्या कोई भी सामान्य व्यक्ति इस सबीज मन्त्र का जाप कर सकता है?
चूँकि यह अत्यंत उग्र और शक्ति-संपन्न 'सम्पुटित वैदिक विधान' है (जिसमें स्वर और बीजों का जटिल संयोजन है), इसलिए इसका पूर्ण अनुष्ठान किसी योग्य ब्राह्मण या गुरु के निर्देशन में (सत्-संकल्प के साथ) करना ही श्रेयस्कर होता है।
9. राहु और केतु की शांति के लिए इसमें क्या विशेष है?
राहु के लिए 'कया नश्चित्र' और केतु के लिए 'केतुं कृण्वन्' नामक वैदिक मन्त्रों का तांत्रिक बीजों (भ्रां भ्रीं और प्रां प्रीं) के साथ सम्पुटीकरण किया गया है। यह संयोजन कालसर्प दोष या राहु महादशा में उत्पन्न होने वाली सबसे भयानक बाधाओं को भी नष्ट कर देता है।
10. तर्पण और मार्जन क्या है?
पुरश्चरण के 5 अंग होते हैं: 1. जप, 2. हवन (जप का 10%), 3. तर्पण (हवन का 10% जल देवताओं को देना), 4. मार्जन (तर्पण का 10% कुश के द्वारा स्वयं पर जल छिड़कना), 5. ब्राह्मण भोजन (मार्जन का 10%)। इस ग्रन्थ में यह पूर्ण और प्रामाणिक विधि बताई गई है।
