॥ श्रीगणेशाय नमः ॥
॥ नवग्रह जपमन्त्राः ॥
॥ सूर्यः ॥
अथ सूर्यमन्त्रप्रारंभः
विनियोगः -
ॐ अस्य श्रीसूर्यमहामन्त्रस्य हिरण्यस्तूप ऋषिः ।
तृष्टुप् छन्दः । सूर्यो देवता । घृणिरिति बीजम् ।
सूर्य इति शक्तिः । आदित्य इति कीलकम् ।
सूर्यग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
सूर्याय अङ्गुष्ठाभ्यां नमः ।
तेजोमूर्तये तर्जनीभ्यां स्वाहा ।
वरदाय मध्यमाभ्यां वषट् ।
हंसाय अनामिकाभ्यां हुम् ।
शान्ताय कनिष्ठिकाभ्यां वौषट् ।
कर्मसाक्षिणे करतलकरपृष्ठाभ्यां फट् ।
हृदयादिन्यासः -
सूर्याय हृदयाय नमः ।
तेजोमूर्तये शिरसे स्वाहा ।
वरदाय शिखायै वषट् ।
हंसाय कवचाय हुम् ।
शान्ताय नेत्रत्रयाय वौषट् ।
कर्मसाक्षिणे अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् -
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् ।
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे ॥ १॥
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ २॥
द्विभुजं पद्महारं च वरदं मकुटान्वितम् ।
ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ॥ ३॥
पञ्चोपचार पूजा -
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः (यथाशक्ति जपेत्) -
ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सवितारथेनादेवो याति भुवनाविपश्यन् ॥
जापान्ते पुनः न्यासः -
सूर्याय हृदयाय नमः । तेजोमूर्तये शिरसे स्वाहा । वरदाय शिखायै वषट् ।
हंसाय कवचाय हुम् । शान्ताय नेत्रत्रयाय वौषट् । कर्मसाक्षिणे अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्विमोकः । (पुनः ध्यानम् और पञ्चोपचार पूजा करें)
इति श्रीसूर्यमहामन्त्रः ।
॥ चन्द्रः ॥
अथ सोममन्त्रप्रारंभः
विनियोगः -
ॐ अस्य श्रीसोममहामन्त्रस्य गौतम ऋषिः । गायत्री छन्दः ।
सोमो देवता । सां बीजम् । सीं शक्तिः । सूं कीलकम् ।
मम श्रीसोमग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
सोमाय अङ्गुष्ठाभ्यां नमः । निशाकराय तर्जनीभ्यां स्वाहा ।
क्षीरोदार्णवसंभवाय मध्यमाभ्यां वषट् । लक्ष्मीसहोदराय अनामिकाभ्यां हुम् ।
तारकेशाय कनिष्ठिकाभ्यां वौषट् । सुधामूर्तये करतलकरपृष्ठाभां फट् ।
हृदयादिन्यासः -
सोमाय हृदयाय नमः । निशाकराय शिरसे स्वाहा ।
क्षीरोदार्णवसंभवाय शिखायै वषट् । लक्ष्मीसहोदराय कवचाय हुम् ।
तारकेशाय नेत्रत्रयाय वौषट् । सुधामूर्तये अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ।
ध्यानम् -
गदाधरधरं देवं श्वेतवर्णं निशाकरम् ।
ध्यायेदमृतसंभूतं सर्वकामफलप्रदम् ॥
(लं हं यं रं वं सं... पञ्चोपचार पूजा करें)
मूलमन्त्रः (यथाशक्ति जपेत्) -
ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्णिमय् ।
भवा वाजस्य सङ्गथे ॥
(जापान्ते पुनः न्यासः, दिग्विमोकः, ध्यानम्, पञ्चोपचार पूजा च)
इति सोममन्त्रः ।
॥ अङ्गारकः (मङ्गल) ॥
अथ अङ्गारकमहामन्त्रप्रारंभः
विनियोगः -
ॐ अस्य श्रीअङ्गारकमहामन्त्रस्य विरूपाक्ष ऋषिः ।
गायत्री छन्दः । अङ्गारको देवता ।
मम श्रीअङ्गारकग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
अङ्गारकाय अङ्गुष्ठाभ्यां नमः । धरणीसुताय तर्जनीभ्यां नमः ।
रक्तवाससे मध्यमाभ्यां नमः । रक्तलोचनाय अनामिकाभ्यां नमः ।
शक्तिधराय कनिष्ठिकाभ्यां नमः । कर्मभावनाय करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -
अङ्गारकाय हृदयाय नमः । धरणीसुताय शिरसे स्वाहा ।
रक्तवाससे शिखायै वषट् । रक्तलोचनाय कवचाय हुम् ।
शक्तिधराय नेत्रत्रयाय वौषट् । कर्मभावनाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् -
रक्तमाल्यांबरधरं हेमरूपं चतुर्भुजम् ।
शक्तिरूपं गदापद्मं धारयन्तं करांबुजैः ॥
(पञ्चोपचार पूजा)
मूलमन्त्रः -
ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
अपां रेतांसि जिन्वति ॥
(जापान्ते पुनः न्यासः, दिग्विमोकः, ध्यानम् च)
इति अङ्गारकमहामन्त्रः ।
॥ बुधः ॥
अथ बुधमहामन्त्रप्रारंभः
विनियोगः -
ॐ अस्य श्रीबुधमहामन्त्रस्य मधुच्छन्द ऋषिः । तृष्टुप्छन्दः ।
बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः ।
करन्यासः -
बुधाय अङ्गुष्ठाभ्यां नमः । सौम्याय तर्जनीभ्यां नमः । सिंहारूढाय मध्यमाभ्यां नमः ।
चतुर्बाहवे अनामिकाभ्यां नमः । गदाधराय कनिष्ठिकाभ्यां नमः । सोमपुत्राय करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -
बुधाय हृदयाय नमः । सौम्याय शिरसे स्वाहा । सिंहारूढाय शिखायै वषट् ।
चतुर्बाहवे कवचाय हुम् । गदाधराय नेत्रत्रयाय वौषट् । सोमपुत्राय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् -
पीतांबरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः ।
चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात् ॥
(पञ्चोपचार पूजा)
मूलमन्त्रः -
ॐ उद्बुद्ध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते सँसृजेथामयं च ।
पुनः कृण्वँस्त्वा पितरं युवानमन्वाताँसीत्त्वयि तन्तुमेतम् ॥
(जापान्ते पुनः न्यासः, दिग्विमोकः, ध्यानम् च)
इति बुधमहामन्त्रः ।
॥ बृहस्पतिः ॥
अथ बृहस्पतिमन्त्रप्रारंभः
विनियोगः -
ॐ अस्य श्रीबृहस्पतिमहामन्त्रस्य गृत्स महर्षिः । जगतीछन्दः ।
बृहस्पतिर्देवता । बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
गुरवे अङ्गुष्ठाभ्यां नमः । वाक्पतये तर्जनीभ्यां नमः । गीर्वाणवन्दिताय मध्यमाभ्यां नमः ।
वरदाय अनामिकाभ्यां नमः । सुराचार्याय कनिष्ठिकाभ्यां नमः । कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -
गुरवे हृदयाय नमः । वाक्पतये शिरसे स्वाहा । गीर्वाणवन्दिताय शिखायै वषट् ।
वरदाय कवचाय हुम् । सुराचार्याय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् -
वराक्षमालिकादण्डकमण्डलुधरं विभुम् ।
पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम् ॥
(पञ्चोपचार पूजा)
मूलमन्त्रः -
ॐ बृहस्पते अतियदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु ।
यद्दीदयच्छव सर्त प्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥
(जापान्ते पुनः न्यासः, दिग्विमोकः, ध्यानम् च)
इति बृहस्पतिमन्त्रः ।
॥ शुक्रः ॥
अथ शुक्रमहामन्त्रप्रारंभः
विनियोगः -
ॐ अस्य श्रीशुक्रमहामन्त्रस्य भरद्वाज ऋषिः । त्रिष्टुप्छन्दः । शुक्रो देवता ।
मम श्रीशुक्रग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
दानवपूजिताय अङ्गुष्ठाभ्यां नमः । दैत्याचार्याय तर्जनीभ्यां नमः । वरदाय मध्यमाभ्यां नमः ।
श्वेतवस्त्राय अनामिकाभ्यां नमः । शुक्राय कनिष्ठिकाभ्यां नमः । कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -
दानवपूजिताय हृदयाय नमः । दैत्याचार्याय शिरसे स्वाहा । वरदाय शिखायै वषट् ।
श्वेतवस्त्राय कवचाय हुम् । शुक्राय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् -
जटिलं चाक्षसूत्रं च वरदण्डकमण्डलुम् ।
श्वेतवस्त्रोज्ज्वनं शुक्रं सर्वदानवपूजितम् ॥
(पञ्चोपचार पूजा)
मूलमन्त्रः -
ॐ प्रवः शुक्राय भानवे भरद्वँ हव्यम् मतिं चाग्नये सुपूतम् ।
यो दैव्यानि मानुषा जनूँष्यन्तर्विश्वानि विद्मना जिगाति ॥
(अथवा)
ॐ शुक्रं ते अन्यद् यजतन्ते अन्यद्विषुरूपे अहनीद्यौरिवासि ।
विश्वा हि माया अवसि स्वधा वो भद्रा ते पूषन्निहरातिरस्तु ॥
(जापान्ते पुनः न्यासः, दिग्विमोकः, ध्यानम् च)
इति शुक्रमहामन्त्रः ।
॥ शनैश्चरः ॥
अथ शनैश्चरमहामन्त्रप्रारंभः
विनियोगः -
ॐ अस्य श्रीशनैश्चरमहामन्त्रस्य उरुमित्र ऋषिः । गायत्रीछन्दः । शनैश्चरो देवता ।
मम श्रीशनैश्चरग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
शनैश्चराय अङ्गुष्ठाभ्यां नमः । मन्दगतये तर्जनीभ्यां नमः । अधोक्षजाय मध्यमाभ्यां नमः ।
सौरये अनामिकाभ्यां नमः । अभयङ्कराय कनिष्ठिकाभ्यां नमः । ऊर्ध्वरोम्णे करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -
शनैश्चराय हृदयाय नमः । मन्दगतये शिरसे स्वाहा । अधोक्षजाय शिखायै वषट् ।
सौरये कवचाय हुम् । अभयङ्कराय नेत्रत्रयाय वौषट् । ऊर्ध्वरोम्णे अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् -
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥
(पञ्चोपचार पूजा)
मूलमन्त्रः -
ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ॥
(जापान्ते पुनः न्यासः, दिग्विमोकः, ध्यानम् च)
इति शनैश्चरमहामन्त्रः ।
॥ राहुः ॥
अथ राहुमहामन्त्रप्रारंभः
विनियोगः -
ॐ अस्य श्रीराहुमहामन्त्रस्य वामदेव ऋषिः । गायत्रीछन्दः । राहुर्देवता ।
राहुप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
धूम्रवर्णाय अङ्गुष्ठाभ्यां नमः । कराळवदनाय तर्जनीभ्यां नमः । खण्डवराय मध्यमाभ्यां नमः ।
महाशूराय अनामिकाभ्यां नमः । त्रिशूलधराय कनिष्ठिकाभ्यां नमः । नीलसिंहासनस्थाय करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -
धूम्रवर्णाय हृदयाय नमः । कराळवदनाय शिरसे स्वाहा । खण्डवराय शिखायै वषट् ।
महाशूराय कवचाय हुम् । त्रिशूलधराय नेत्रत्रयाय वौषट् । नीलसिंहासनस्थाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् -
कराळवदनं खड्गचर्मशूलवरान्वितम् ।
नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये ॥
(पञ्चोपचार पूजा)
मूलमन्त्रः -
ॐ कयानश्चित्र आभुवदूती सदावृधस्सखा । कया शचिष्ठया वृता ॥
(जापान्ते पुनः न्यासः, दिग्विमोकः, ध्यानम् च)
इति राहुमहामन्त्रः ।
॥ केतुः ॥
अथ केतुमहामन्त्रप्रारंभः
विनियोगः -
ॐ अस्य श्रीकेतुमहामन्त्रस्य मयच्छन्द ऋषिः । गायत्री छन्दः । केतुर्देवता ।
मम श्रीकेतुग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
धूम्रवर्णय अङ्गुष्ठाभ्यां नमः । द्विबाहवे तर्जनीभ्यां नमः । केतवे मध्यमाभ्यां नमः ।
विकृताननाय अनामिकाभ्यां नमः । गृध्रासनाय कनिष्ठिकाभ्यां नमः । लंबकाय करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -
धूम्रवर्णाय हृदयाय नमः । द्विबाहवे शिरसे स्वाहा । केतवे शिखायै वषट् ।
विकृताननाय कवचाय हुम् । गृध्रासनाय नेत्रत्रयाय वौषट् । लंबकाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् -
धूम्रवर्णं द्विबाहुं च केतुं च विकृताननम् ।
गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये ॥
(पञ्चोपचार पूजा)
मूलमन्त्रः -
ॐ केतुं कृण्वन्न केतवे पेशो मर्या अपेशसे । स मुषद्भिरजायथाः ॥
(जापान्ते पुनः न्यासः, दिग्विमोकः, ध्यानम् च)
॥ इति नवग्रह जपमन्त्राः सम्पूर्णाः ॥
संबंधित मन्त्र एवं प्रयोग (Related Mantras)
नवग्रह जप मन्त्राः — वैदिक अनुष्ठान का पूर्ण विज्ञान
हिंदू धर्मशास्त्रों में मन्त्र जाप को केवल शब्दों का उच्चारण नहीं माना गया है, बल्कि इसे एक 'ऊर्जा विज्ञान' (Science of Energy) के रूप में स्थापित किया गया है। जब हम किसी ग्रह (जैसे शनि या राहु) की शांति के लिए मन्त्र जपते हैं, तो यदि वह केवल वाणी तक सीमित रहे, तो उसका पूर्ण फल प्राप्त नहीं होता।
यही कारण है कि वैदिक और तांत्रिक परंपराओं में 'पुरश्चरण' (Purashcharana) की व्यवस्था है। ऊपर दिए गए नवग्रह जप मन्त्राः उसी पुरश्चरण की सम्पूर्ण विधि हैं। इसमें विनियोग, करन्यास, हृदयादिन्यास, दिग्बन्ध, ध्यान, मानस पूजा और उसके बाद वैदिक श्रुति मन्त्र का जाप किया जाता है। यह विधि साधक के चारों ओर एक अभेद्य सुरक्षा कवच बना देती है।
विशेष तथ्य: इसमें दिए गए 'मूल मन्त्र' ऋग्वेद और यजुर्वेद की प्रामाणिक ऋचाएँ हैं (जैसे सूर्य का "आ सत्येन रजसा..." या शनि का "शं नो देवीरभिष्टय...")। वैदिक मन्त्रों का प्रभाव अत्यंत सात्विक और स्थायी होता है।
न्यास (Nyasa) और दिग्बन्ध (Digbandha) का रहस्य
इस विधि का सबसे महत्वपूर्ण अंग 'न्यास' है। 'न्यस्यते इति न्यासः' अर्थात स्थापित करना।
- करन्यास (Karanyasa): मन्त्र की ऊर्जा को अपने दोनों हाथों की अंगुलियों (अंगूठा, तर्जनी, मध्यमा, अनामिका, कनिष्ठा) और हथेलियों (करतल-करपृष्ठ) में स्थापित किया जाता है। इससे हाथ मन्त्रमय हो जाते हैं।
- हृदयादिन्यास (Hridayadi Nyasa): मन्त्र के छह अंगों को शरीर के मुख्य चक्रों—हृदय, सिर, शिखा (चोटी), कवच (दोनों कंधे), और नेत्रों में स्थापित किया जाता है। यह साधक को देव-तुल्य बना देता है (देवो भूत्वा देवं यजेत्)।
- दिग्बन्ध (Digbandha): "भूर्भुवःसुवरोमिति दिग्बन्धः" कहकर दसों दिशाओं को बांध दिया जाता है। इसका अर्थ है कि जब तक मैं यह जाप कर रहा हूँ, कोई भी आसुरी या विघ्नकारी शक्ति मेरे आस-पास प्रवेश न करे।
पञ्चोपचार मानस पूजा (Mental Worship)
ध्यान (Dhyanam) करने के बाद, बाह्य सामग्री (जैसे फूल, दीपक) न होने पर भी मानस पूजा (Mental Worship) की जाती है। इसमें पंचमहाभूतों के बीज मन्त्रों का प्रयोग होता है:
१. 'लं' (Lam) - पृथ्वी तत्व
पृथ्वी तत्व के बीज 'लं' का उच्चारण कर मानसिक रूप से देवता को गंध (चंदन) अर्पित किया जाता है।
२. 'हं' (Ham) - आकाश तत्व
आकाश तत्व के बीज 'हं' द्वारा देवता को मानसिक पुष्प (Flowers) अर्पित किए जाते हैं।
३. 'यं' (Yam) - वायु तत्व
वायु तत्व के बीज 'यं' द्वारा देवता को सुगंधित धूप (Incense) आघ्रापित (सुंघाई) जाती है।
४. 'रं' (Ram) - अग्नि तत्व
अग्नि तत्व के बीज 'रं' द्वारा देवता की आरती के लिए दीप (Lamp) दर्शाया जाता है।
५. 'वं' (Vam) - जल/अमृत तत्व
जल तत्व के बीज 'वं' द्वारा देवता को नैवेद्य/अमृत (Food offering) निवेदित किया जाता है।
६. 'सं' (Sam) - सर्वात्मने
'सं' बीज द्वारा शेष सभी उपचार (ताम्बूल, दक्षिणा आदि) मानसिक रूप से अर्पित कर दिए जाते हैं।
जाप विधि (Step-by-Step Ritual)
यदि आप किसी विशिष्ट ग्रह (जैसे शनि या राहु) की महादशा से पीड़ित हैं, तो इस पूर्ण विधि से जाप करें:
- स्नान और आसन: शुद्ध होकर पवित्र आसन (ऊन या कुशा) पर पूर्व या उत्तर की ओर मुख करके बैठें।
- विनियोग: दाहिने हाथ में जल लें, विनियोग मन्त्र पढ़ें और जल जमीन पर छोड़ दें।
- न्यास: करन्यास और हृदयादिन्यास करें। उंगलियों से अंगों का स्पर्श करते हुए मन्त्र बोलें (जैसे शिरसे स्वाहा में सिर छुएं)।
- दिग्बन्ध: 'भूर्भुवःसुवरोमिति दिग्बन्धः' कहते हुए अपने चारों ओर चुटकी बजाएं या जल छिड़कें।
- ध्यान और मानस पूजा: आँखें बंद कर ग्रह के स्वरूप (जैसे शनि का नीलाम्बर रूप) का ध्यान करें और 'लं हं यं...' बोलकर मानसिक पूजा करें।
- मूल मन्त्र जाप: अब रुद्राक्ष या ग्रह की विशिष्ट माला से वैदिक मूल मन्त्र का 108 बार (या संकल्पित संख्या में) जाप करें।
- दिग्विमोक: जाप पूर्ण होने पर 'दिग्विमोकः' कहकर बंधी हुई दिशाओं को खोलें और पुनः एक बार न्यास-ध्यान कर पूजा समर्पित करें।
FAQ — अक्सर पूछे जाने वाले प्रश्न
1. नवग्रह जप मन्त्र विधि क्या है?
यह नवग्रहों (सूर्य से केतु तक) की शांति और प्रसन्नता के लिए की जाने वाली एक पूर्ण वैदिक प्रक्रिया है। इसमें केवल मन्त्र नहीं जपा जाता, बल्कि विनियोग, न्यास (शरीर में ऊर्जा स्थापित करना), ध्यान और मानसिक पूजा के बाद वैदिक मन्त्र का जाप किया जाता है।
2. विनियोग (Viniyoga) कैसे किया जाता है?
विनियोग का अर्थ है 'उद्देश्य' या 'Application'। इसे पढ़ते समय दाहिने हाथ की हथेली में थोड़ा सा जल लें, मन्त्र (ॐ अस्य श्री... विनियोगः) पढ़ें और फिर उस जल को एक पात्र या जमीन पर छोड़ दें। यह संकल्प का एक रूप है।
3. न्यास (Nyasa) क्या होता है और यह क्यों जरूरी है?
न्यास का अर्थ है 'स्थापित करना'। करन्यास (अंगुलियों में) और हृदयादि अंगन्यास (शरीर के अंगों में) के द्वारा साधक मन्त्र की दिव्य ऊर्जा को अपने शरीर में स्थापित करता है। यह साधक को मन्त्र जपने के योग्य बनाता है और मन्त्र सिद्धि को तेज करता है।
4. 'लं, हं, यं, रं, वं, सं' का क्या अर्थ है?
ये पंचमहाभूतों (पृथ्वी, आकाश, वायु, अग्नि, जल) के तांत्रिक बीज मन्त्र हैं। 'लं' से गंध, 'हं' से पुष्प, 'यं' से धूप, 'रं' से दीप और 'वं' से नैवेद्य अर्पित करने की मानसिक पूजा (Manasa Puja) की जाती है। यह तब बहुत उपयोगी है जब आपके पास भौतिक पूजा सामग्री न हो।
5. दिग्बन्ध (Digbandha) और दिग्विमोक क्या है?
दिग्बन्ध का अर्थ है 'दिशाओं को बांधना', जिससे जाप के दौरान कोई नकारात्मक या आसुरी शक्ति पूजा में प्रवेश न कर सके। जाप सफलतापूर्वक समाप्त होने के बाद 'दिग्विमोक' (Unlock) करके उन दिशाओं को वापस खोल दिया जाता है।
6. क्या इन वैदिक मन्त्रों का जाप बिना दीक्षा के कर सकते हैं?
ये प्रामाणिक 'वैदिक' श्रुति मन्त्र हैं (जैसे- आ सत्येन..., शं नो देवीर...)। पूर्ण विधि-विधान (न्यास आदि) के साथ अनुष्ठान करने के लिए किसी योग्य गुरु या योग्य ब्राह्मण से मार्गदर्शन या संकल्प लेना श्रेयस्कर होता है। सामान्य शांति के लिए श्रवण भी फलदायी है।
7. इन मन्त्रों के जाप के लिए कौन सी माला श्रेष्ठ है?
नवग्रहों के सम्मिलित जाप के लिए 'रुद्राक्ष' की माला सर्वोत्तम है। यदि किसी विशिष्ट ग्रह का अनुष्ठान कर रहे हैं, तो सूर्य-मंगल के लिए लाल चंदन, चन्द्र-शुक्र के लिए स्फटिक, गुरु के लिए हल्दी और राहु-केतु के लिए चन्दन की माला का प्रयोग होता है।
8. नवग्रह पुरश्चरण क्या है?
किसी ग्रह के मन्त्र को उसकी निश्चित संख्या (जैसे सूर्य के 7000, शनि के 23000) में विधिपूर्वक जपना, फिर उस संख्या का दशांश (10%) हवन, तर्पण, मार्जन और ब्राह्मण भोजन कराना 'पुरश्चरण' कहलाता है। यह विधि मुख्य रूप से उसी पुरश्चरण के लिए है।
9. क्या महिलाएँ इस विधि से जाप कर सकती हैं?
शास्त्रों के अनुसार, वैदिक मन्त्रों (विशेषकर जिनमें वेद की ऋचाएँ हों) का सस्वर सकाम जाप करने के कुछ नियम हैं। महिलाएँ नवग्रहों के पौराणिक मन्त्रों या बीज मन्त्रों का जाप निर्बाध रूप से कर सकती हैं। इस पूर्ण वैदिक विधि के लिए गुरु आज्ञा उत्तम है।
10. इस विधि से जाप करने का सबसे बड़ा लाभ क्या है?
यह नवग्रह शांति का सबसे प्रामाणिक, प्राचीन और 'अकाट्य' उपाय है। जब महादशा, अंतर्दशा या गोचर में ग्रह अत्यधिक पीड़ा दे रहे हों और सामान्य उपाय काम न कर रहे हों, तब यह विधि साधक के चारों ओर एक अभेद्य रक्षा कवच बना देती है और ग्रह को शांत होने पर विवश कर देती है।
