Logoपवित्र ग्रंथ

श्रीहनुमत्कवचम् (आनन्द रामायण) - मनोकामना सिद्धि और सुरक्षा का अमोघ उपाय

Shri Hanumat Kavacham (Anand Ramayana)

श्रीहनुमत्कवचम् (आनन्द रामायण) - मनोकामना सिद्धि और सुरक्षा का अमोघ उपाय
॥ श्रीहनुमत्कवचम् (आनन्दरामायणे) ॥ ॥ श्रीरामदास उवाच ॥ एकदा सुखमासीनं शङ्करं लोकशङ्करम् । पप्रच्छ गिरिजाकान्तं कर्पूरधवलं शिवम् ॥ १॥ ॥ पार्वत्युवाच ॥ भगवन् देवदेवेश लोकनाथ जगत्प्रभो । शोकाकुलानां लोकानां केन रक्षा भवेद्ध्रुवम् ॥ २॥ सङ्ग्रामे सङ्कटे घोरे भूतप्रेतादिके भये । दुःखदावाग्निसन्तप्तचेतसां दुःखभागिनाम् ॥ ३॥ ॥ श्रीशिव उवाच ॥ शृणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया । विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ॥ ४॥ कवचं कपिनाथस्य वायुपुत्रस्य धीमतः । गुह्यं तत्ते प्रवक्ष्यामि विशेषाच्छृणु सुन्दरि ॥ ५॥ उद्यदादित्यसङ्काशमुदारभुजविक्रमम् । कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ६॥ श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ ७॥ हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः । रामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ ८॥ उदधिक्रमणश्चैव सीताशोकविनाशनः । लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ ९॥ एवं द्वादश नामानि कपीन्द्रस्य महात्मनः । स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ॥ १०॥ तस्य सर्वभयं नास्ति रणे च विजयी भवेत् । राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥ ११॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्म्यजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राजलिराञ्जनेयम् ॥ १२॥ ॐ नमो हनुमते सर्वग्रहान् भूतभविष्यद्वर्तमानान् समीपस्थान् सर्वकालदुष्टबुद्धीनुच्चाटय परबलान् क्षोभय मम सर्वकार्याणि साधय साधय । ॐ ह्रां ह्रौं हुं फट । घे घे घे ॐ शिवसिद्धम् । ॐ ह्रां ॐ ह्रीं ॐ ह्रूं ॐ ह्रैं ॐ ह्रौं ॐ ह्रःस्वाहा । परकृतयन्त्रमन्त्रतन्त्रपरापकारभूतप्रेतपिशाचदृष्टिसव विघ्नदुर्जनचेष्टाकुविद्यासर्वोग्रभयानि निवारय निवारय बन्ध बन्ध, लुण्ठ लुण्ठ विलुञ्च विलुञ्च किलि किलि किलि सर्वकुयन्त्राणि दुष्टवाचं ॐ फट स्वाहा । ॐ अस्य श्रीहनुमत्कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः । श्रीहनुमान् परमात्मा देवता । अनुष्टुप्छन्दः । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः । लक्ष्मणप्राणदातेति कीलकम् । रामदूतायेत्यस्त्रम् । हनुमान् देवता इति कवचम् । पिङ्गाक्षोऽमितविक्रम इति मन्त्रः । श्रीरामचन्द्रप्रेरणया रामचन्द्रप्रीत्यर्थं मम सकलकामनासिद्धयर्थं जपे विनियोगः । ॥ अथ अङ्गुलिन्यासः ॥ ॐ ह्रां अञ्जनासुताय अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः । ॐ ह्रूं रामदूताय मध्यमाभ्यां नमः । ॐ ह्रैं वायुपुत्राय अनामिकाभ्यां नमः । ॐ ह्रौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः । ॐ ह्रः ब्रह्मास्त्रनिवारणाय करतलकरपृष्ठाभ्यां नमः ॥ ॥ अङ्गन्यासः ॥ ॐ ह्रां अञ्जनासुताय हृदयाय नमः । ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा । ॐ ह्रूं रामदूताय शिखायै वषट् । ॐ ह्रैं वायुपुत्राय कवचाय हुं । ॐ ह्रौं अग्निगर्भाय नेत्रत्रयाय वौषट् । ॐ ह्रः ब्रह्मास्त्रनिवारणाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ॥ अथ ध्यानम् ॥ ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापपहं देवेन्द्रप्रमुखं प्रशस्तयशसं देदीप्यमानं रुचा । सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ १॥ उद्यन्मार्ताण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं मौञ्जीयज्ञोपवीताभरणरुचिशिखं शोभितं कुण्डलाङ्कम् । भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं ध्यायेदेवं विधेमं प्लगकुलपतिं गोष्पदीभूतवार्धिम् ॥ २॥ वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डलमण्डितम् । निगूढमुपसङ्गम्य पारावारपराक्रमम् ॥ ३॥ स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् । कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजे ॥ ४॥ सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुम् । उद्यद्दक्षिणदोर्दण्डं हनुमन्तं विचिन्तयेत् ॥ ५॥ ॥ अथ मन्त्रः ॥ ॐ नमो हनुमते शोभिताननाय यशोऽलङ्कृताय अञ्जनीगर्भसम्भूताय रामलक्ष्मणानन्दकाय कपिसैन्यप्रकाशनपर्वतोत्पाटनाय सुग्रीवसाह्यकरणपरोच्चाटनकुमारब्रह्मचर्यगम्भीरशब्दोदाय ह्रीं सर्वदुष्टग्रहनिवारणाय स्वाहा । ॐ नमो हनुमते एहि एहि एहि सर्वग्रहभूतानां शाकिनीडाकिनीनां विषमदुष्टानां सर्वेषामाकर्षयाकर्षय । मर्दय मर्दय । छेदय छेदय । मर्त्यान् मारय मारय । शोषय शोषय । प्रज्वल प्रज्वल । भूतमण्डलपिशाचमण्डलनिरसनाय । भूतज्वर-प्रेतज्वर-चातुर्थिकज्वर-ब्रह्मराक्षस-पिशाचछेदनक्रिया- विष्णुज्वर-महेशज्वरान् छिन्धि छिन्धि । भिन्धि भिन्धि । अक्षिशूले शिरोऽभ्यन्तरे ह्यक्षिशूले गुल्मशूले पित्तशूले ब्रह्मराक्षसकुलप्रबलनागकुलविषं निर्विषं कुरु झटितिझटिति । ॐ ह्रीं फट् घे घे स्वाहा । ॐ नमो हनुमते पवनपुत्र वैश्वानरमुख पापदृष्टिहनुमतेको आज्ञाफुरे स्वाहा । स्वगृहे द्वारे पट्टके तिष्ठ तिष्ठेति तत्र रोगभयं राजकुलभयं नास्ति, तस्योच्चारणमात्रेण सर्वे ज्वरा नश्यन्ति । ॐ ह्रां ह्रीं ह्रूं फट् घे घे स्वाहा । ॥ श्रीरामचन्द्र उवाच ॥ हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । पातु प्रतीच्यां रक्षोघ्नः पातु सागरपारगः ॥ १॥ उदीच्यामूर्ध्वतः पातु केसरीप्रियनन्दनः । अधस्तु विष्णुभक्तस्तु पातु मध्यं च पावनिः ॥ २॥ लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् । सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥ ३॥ भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् । नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ४॥ कपोले कर्णमूले च पातु श्रीरामकिङ्करः । नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥ वाचं रुद्रप्रियः पातु जिह्वां पिङ्गललोचनः ॥ ५॥ पातु देवः फाल्गुनेष्टः चिबुकं दैत्यदर्पहा । पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥ ६॥ भुजौ पातु महातेजाः करौ च चरणायुधः । नखान् नखायुधः पातु कुक्षौ पातु कपीश्वरः ॥ ७॥ वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः । लङ्काविभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥ ८॥ नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः ॥ ९॥ ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः । जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः । अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥ १०॥ अङ्गान्यमितसत्त्वाढ्यः पातु पादाङ्गुलींस्तथा । सर्वाङ्गानि महाशूरः पातु रोमाणि चात्मवित् ॥ ११॥ हनुमत्कवचं यस्तु पठेद्विद्वान् विचक्षणः । स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥ १२॥ त्रिकालमेककालं वा पठेन्मासत्रयं नरः । सर्वान् रिपून् क्षणाज्जित्वा स पुमान् श्रियमाप्नुयात् ॥ १३॥ मध्यरात्रौ जले स्थित्वा सप्तवारं पठेद्यदि । क्षयापस्मारकुष्ठादि तापत्रयनिवारणम् ॥ १४॥ अश्वत्थमूलेऽर्कवारे स्थित्वा पठति यः पुमान् । अचलां श्रियमाप्नोति सङ्ग्रामे विजयं तथा ॥ १५॥ बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगताम् । सुदार्ढ्यं वाक्स्फुरत्वं च हनुमत्स्मरणाद्भवेत् ॥ १६॥ मारणं वैरिणां सद्यः शरणं सर्वसम्पदाम् । शोकस्य हरणे दक्षं वन्दे तं रणदारुणम् ॥ १७॥ लिखित्वा पूजयेद्यस्तु सर्वत्र विजयी भवेत् । यः करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात् ॥ १८॥ स्थित्वा तु बन्धने यस्तु जपं कारयति द्विजैः । तत्क्षणान्मुक्तिमाप्नोति निगडात्तु तथैव च ॥ १९॥ ॥ ईश्वर उवाच ॥ भान्विन्दोश्चरणारविन्दयुगलं कौपीनमौञ्जीधरं काञ्चिश्रेणिधरं दुकूलवसनं यज्ञोपवीताजिनम् । हस्ताभ्यां धृतपुस्तकं च विलसद्धारावलिं कुण्डलं यश्चालं विशिखं प्रसन्नवदनं श्रीवायुपुत्रं भजे ॥ २०॥ यो वारान्निधिमल्पपल्बलमिवोल्लङ्घ्य प्रतापान्वितो वैदेहीघनशोकतापहरणो वैकुण्ठभक्तप्रियः । अक्षाद्यार्जितराक्षसेश्वरमहादोषहारी रणे सोऽयं वानरपुङ्गवोऽवतु सदा योऽस्मान्समीरात्मजः ॥ २१॥ वज्राङ्गं पिङ्गनेत्रं कनकमयलसत्कुण्डलाक्रान्तगण्डं दम्भोलिस्तम्भसारं प्रहरणसुवशीभूतरक्षोऽधिनाथम् । उद्यल्लाङ्गूलसप्तप्रचलचलधरं भीममूर्तिं कपीन्द्रं ध्यायेत्तं रामचन्द्रं भ्रमरदृढकरं सत्त्वसारं प्रसन्नम् ॥ २२॥ वज्राङ्गं पिङ्गनेत्रं कनकमयलसत्कुण्डलैः शोभनीयं सर्वापीड्यादिनाथं करतलविधृतं पूर्णकुम्भं दृढं वा । भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं ध्यायेदेवं विधेमं प्लगकुलपतिं गोष्पदीभूतवार्धिम् ॥ २३॥ वामे करे वैरिभयं वहन्तं शैलं परं शृङ्खलहारकण्ठम् । दधानमाच्छाद्य सुपर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ २४॥ पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमण्डलम् । दिव्यदेहकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ २५॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् । २६॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ २७॥ विवादे दिव्यकाले च द्यूते राजकुले रणे । दशवारं पठेद्रात्रौ मिताहारो जितेन्द्रियः ॥ २८॥ विजयं लभते लोके मानवेषु नरेषु च । भूते प्रेते महादुर्गेऽरण्ये सागरसम्प्लवे । २९॥ सिंहव्याघ्रभये चोग्रे शरशस्त्रास्त्रपातने । शृङ्खलाबन्धने चैव कारागृहनियन्त्रणे ॥ ३०॥ कोपे स्तम्भे वह्निचक्रे क्षेत्रे घोरे सुदारुणे । शोके महारणे चैव ब्रह्मग्रहनिवारणम् ॥ ३१॥ सर्वदा तु पठेन्नित्यं जयमाप्नोति निश्चितम् । भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ॥ ३२॥ त्रिगन्धिना वा मष्या वा विलिख्य धारयेन्नरः । पञ्चसप्तत्रिलोहैर्वा गोपितः सर्वतः शुभम् ॥ ३३॥ करे कट्यां बाहुमूले कण्ठे शिरसि धारितम् । सर्वान्कामानवाप्नोति सत्यं श्रीरामभाषितम् ॥ ३४॥ अपराजित नमस्तेऽस्तु नमस्ते रामपूजित । प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा ॥ ३५॥ इत्युक्त्वा यो व्रजेद्ग्रामं देशं तीर्थान्तरं रणम् । आगमिष्यति शीघ्रं स क्षेमरूपो गृहं पुनः ॥ ३६॥ इति वदति विशेषाद्राघवे राक्षसेन्द्रः प्रमुदितवरचित्तो रावणस्यानुजो हि । रघुवरपदपद्मं वन्दयामास भूयः कुलसहितकृतार्थः शर्मदं मन्यमानः ॥ ३७॥ तं वेदशास्त्रपरिनिष्टितशुद्धबुद्धिं शर्मप्रदं सुरमुनीन्द्रनुतं कपीन्द्रम् । कृष्णत्वचं कनकपिङ्गजटाकलापं व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥ ३८॥ य इदं प्रातरुत्थाय पठेत कवचं सदा । आयुरारोग्यसन्तानैस्तस्य स्तव्यः स्तवो भवेत् ॥ ३९॥ एवं गिरीन्द्रजे श्रीमद्धनुमत्कवचं शुभम् । त्वया पृष्टं मया प्रीत्या विस्तराद्विनिवेदितम् ॥ ४०॥ ॥ श्रीरामदास उवाच ॥ एवं शिवमुखाच्छ्रुत्वा पार्वती कवचं शुभम् । हनूमतः सदा भक्त्या पपाठ तन्मनाः सदा ॥ ४१॥ एवं शिष्य त्वयाऽप्यत्र यथा पृष्टं तथा मया । हनुमत्कवचं चेदं तवाग्रे विनिवेदितम् ॥ ४२॥ इदं पूर्वं पठित्वा तु रामस्य कवचं ततः । पठनीयं नरैर्भक्त्या नैकमेव पठेत्कदा ॥ ४३॥ हनुमत्कवचं चात्र श्रीरामकवचं विना । ये पठन्ति नराश्चात्र पठनं तद्वृथा भवेत् ॥ ४४॥ तस्मात्सर्वैः पठनीयं सर्वदा कवचद्वयम् । रामस्य वायुपुत्रस्य सद्भक्तैश्च विशेषतः ॥ ४५॥ ॥ इति श्रीशतकोटिरामचरितान्तर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे त्रयोदशसर्गातर्गतं श्रीहनुमत्कवचं सम्पूर्णम् ॥

श्री हनुमत् कवच (आनन्द रामायण): भगवान शिव का आशीर्वाद

आनन्द रामायण (Anand Ramayana) के मनोहर काण्ड में वर्णित यह श्री हनुमत् कवच एक दिव्य और दुर्लभ स्तोत्र है। स्वयं भगवान शिव ने माता पार्वती के प्रश्न पूछने पर ("शोकाकुलानां लोकानां केन रक्षा भवेद्ध्रुवम्" - शोक से व्याकुल लोगों की रक्षा कैसे हो?) इस कवच का उपदेश दिया। यह कवच मूल रूप से भगवान राम ने विभीषण को प्रेमपूर्वक प्रदान किया था।

क्या बनाता है इस कवच को विशेष?

अन्य कवचों की तुलना में यह कवच अपनी विस्तृत "फलश्रुति" और विशिष्ट "पठन विधि" के लिए जाना जाता है:

  • १. भगवान राम के नाम: पाठ के आरंभ में ही हनुमान जी के १२ नाम (हनुमान, अञ्जनासूनु, वायुपुत्र, रामेष्ट आदि) दिए गए हैं, जो अपने आप में एक सिद्ध रक्षा मंत्र हैं।

  • २. विशिष्ट रोग निवारण: यह एकमात्र कवच है जो स्पष्ट रूप से कहता है कि "मध्यरात्रौ जले स्थित्वा" (आधी रात को पानी में खड़े होकर) ७ बार पाठ करने से क्षय (TB), कुष्ठ और अपस्मार (Epilepsy) जैसे रोग ठीक होते हैं।

  • ३. कारागार मुक्ति: यदि कोई बन्धन में हो या जेल में हो ("शृङ्खलाबन्धने"), तो इसका पाठ उसे तत्काल मुक्ति दिलाता है।

षट्-कवच पठन विधि (अनिवार्य नियम)

⚠️ विशेष सावधानी

इस कवच के अंत में भगवान शिव एक अत्यंत महत्वपूर्ण नियम बताते हैं: "हनुमत्कवचं चात्र श्रीरामकवचं विना... पठनं तद्वृथा भवेत्।"

अर्थात, श्री राम कवच के बिना केवल हनुमान कवच पढ़ने से पूर्ण फल नहीं मिलता। सर्वोत्तम विधि "षट्-कवच" (Six Kavachams) का पाठ है:

  1. श्री हनुमान कवच
  2. श्री लक्ष्मण कवच
  3. श्री सीता कवच
  4. श्री राम कवच
  5. श्री भरत कवच
  6. श्री शत्रुघ्न कवच

वैकल्पिक विधि: यदि ६ कवच नहीं पढ़ सकते, तो कम से कम (हनुमान + राम) या (हनुमान + सीता + राम) या (हनुमान + लक्ष्मण + सीता + राम) के संयोजनों का पाठ करें।

पाठ के सिद्ध प्रयोग

शत्रु विजय के लिए

"सर्वान् रिपून् क्षणाज्जित्वा" - युद्ध, कोर्ट-कचहरी या विवाद में विजय के लिए इसका पाठ अमोघ अस्त्र है।

धन और संपत्ति के लिए

"अश्वत्थमूलेऽर्कवारे" - रविवार को पीपल के पेड़ के नीचे बैठकर पाठ करने से "अचलां श्रियमाप्नोति" (स्थिर लक्ष्मी) प्राप्त होती है।

सर्व-कार्य सिद्धि

यात्रा पर जाने से पहले ("प्रस्थानं च करिष्यामि") इसका पाठ करने से व्यक्ति सुरक्षित घर लौटता है।

लेखन यन्त्र

इसे लाल वस्त्र या भोजपत्र पर अष्टगंध या स्याही से लिखकर ताबीज (यन्त्र) बनाकर पहनने से सर्वत्र विजय मिलती है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

Q1. यह हनुमत् कवच किस ग्रंथ से लिया गया है?

यह कवच ‘आनन्द रामायण’ के मनोहर काण्ड के १३वें सर्ग से लिया गया है। इसे भगवान शिव ने माता पार्वती को सुनाया था।

Q2. इस कवच के पाठ का विशेष लाभ क्या है?

इस कवच के पाठ से "सर्वान् रिपून् क्षणान् जित्वा" (शत्रुओं पर तुरंत विजय), "अचलां श्रियमाप्नोति" (स्थिर धन-लक्ष्मी), और "बुद्धिर्बलं यशो धैर्यं" की प्राप्ति होती है।

Q3. जल में खड़े होकर पाठ करने का क्या महत्व है?

यदि कोई व्यक्ति मध्यरात्रि में जल में खड़े होकर ("मध्यरात्रौ जले स्थित्वा") इस कवच का ७ बार पाठ करता है, तो क्षय, अपस्मार (मिरगी) और कुष्ठ जैसे रोग और तीनों प्रकार के ताप दूर हो जाते हैं।

Q4. अश्वत्थ (पीपल) के पेड़ के नीचे पाठ करने से क्या फल मिलता है?

रविवार को पीपल के पेड़ के मूल में ("अश्वत्थमूलेऽर्कवारे") स्थित होकर पाठ करने से अचल संपत्ति और युद्ध/मुकदमे में विजय प्राप्त होती है।

Q5. षट्-कवच (छह कवच) पठन का क्या नियम है?

ग्रंथ में हनुमान, लक्ष्मण, सीता, राम, भरत, और शत्रुघ्न - इन छहों कवचों को एक साथ पढ़ने का विधान है। यदि असमर्थ हों, तो कम से कम हनुमान और राम कवच का पाठ अवश्य करना चाहिए।

Q6. क्या केवल हनुमान कवच पढ़ना पर्याप्त है?

भगवान शिव स्पष्ट कहते हैं: "हनुमत्कवचं चात्र श्रीरामकवचं विना... पठनं तद्वृथा भवेत्।" अर्थात राम कवच के बिना हनुमान कवच का पाठ व्यर्थ हो सकता है। इसलिए दोनों का पाठ करना सर्वोत्तम है।

Q7. इस कवच में "द्वादश नाम" का क्या महत्व है?

इसमें भगवान राम द्वारा हनुमान जी के १२ नाम (हनुमान, अञ्जनासूनु, वायुपुत्र आदि) बताए गए हैं। यात्रा या सोते समय इनका स्मरण करने से "सर्वभयं नास्ति" (कोई भय नहीं रहता)।

Q8. क्या इसे लिखकर धारण किया जा सकता है?

हाँ, इसे भोजपत्र या वस्त्र पर लिखकर ताबीज (यन्त्र) के रूप में गले, बांह या कमर में धारण करने से सभी कामनाएं पूर्ण होती हैं ("सर्वान्कामानवाप्नोति")।

Q9. इसका पाठ कितनी बार करना चाहिए?

नित्य १ बार पाठ सामान्य रक्षा के लिए, ७ बार रोग निवारण के लिए (जल में), और १० बार ("दशवारं") विशेष विजय और संकट निवारण के लिए रात्रि में पाठ करने का विधान है।

Q10. इस कवच के ऋषि और देवता कौन हैं?

इस कवच के ऋषि श्री रामचन्द्र हैं, छन्द अनुष्टुप् है, और देवता श्री हनुमान (परमात्मा) हैं। इसका विनियोग रामचन्द्र जी की प्रीति और मनोकामना सिद्धि के लिए होता है।