Logoपवित्र ग्रंथ

Sri Vishnu Panjara Stotram (Brahmanda Purane) – श्री विष्णु पञ्जर स्तोत्रम् – १ (ब्रह्माण्डपुराणे)

Sri Vishnu Panjara Stotram (Brahmanda Purane) – श्री विष्णु पञ्जर स्तोत्रम् – १ (ब्रह्माण्डपुराणे)
विनियोगः – अस्य श्रीविष्णुपञ्जरस्तोत्रमन्त्रस्य नारद ऋषिः अनुष्टुप् छन्दः श्रीविष्णुः परमात्मा देवता अहं बीजं सोऽहं शक्तिः ओं ह्रीं कीलकं मम सर्वदेहरक्षणार्थं जपे विनियोगः ॥ ऋष्यादिन्यासः – नारद ऋषये नमः मुखे । श्रीविष्णुपरमात्मदेवतायै नमः हृदये । अहं बीजं गुह्ये । सोऽहं शक्तिः पादयोः । ओं ह्रीं कीलकं पादाग्रे । ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति मन्त्रः । करन्यासः – ओं ह्रां अङ्गुष्ठाभ्यां नमः । ओं ह्रीं तर्जनीभ्यां नमः । ओं ह्रूं मध्यमाभ्यां नमः । ओं ह्रैं अनामिकाभ्यां नमः । ओं ह्रौं कनिष्ठिकाभ्यां नमः । ओं ह्रः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः – ओं ह्रां हृदयाय नमः । ओं ह्रीं शिरसे स्वाहा । ओं ह्रूं शिखायै वषट् । ओं ह्रैं कवचाय हुम् । ओं ह्रौं नेत्रत्रयाय वौषट् । ओं ह्रः अस्त्राय फट् । अहम्बीजप्राणायामं मन्त्रत्रयेण कुर्यात् । अथ ध्यानम् । परं परस्मात् प्रकृतेरनादि- -मेकं निविष्टं बहुधा गुहायाम् । सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥ १ ॥ अथ पञ्जर स्तोत्रम् । ओम् ॥ विष्णुपञ्जरकं दिव्यं सर्वदुष्टनिवारणम् । उग्रतेजो महावीर्यं सर्वशत्रुनिकृन्तनम् ॥ २ ॥ त्रिपुरं दहमानस्य हरस्य ब्रह्मणोदितम् । तदहं सम्प्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ ३ ॥ पादौ रक्षतु गोविन्दो जङ्घे चैव त्रिविक्रमः । ऊरू मे केशवः पातु कटिं चैव जनार्दनः ॥ ४ ॥ नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः । उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥ ५ ॥ वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः । बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥ ६ ॥ कण्ठं रक्षतु वाराहः कृष्णश्च मुखमण्डलम् । माधवः कर्णमूले तु हृषीकेशश्च नासिके ॥ ७ ॥ नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः । कपोलौ केशवो रक्षेद्वैकुण्ठः सर्वतोदिशम् ॥ ८ ॥ श्रीवत्साङ्कश्च सर्वेषामङ्गानां रक्षको भवेत् । पूर्वस्यां पुण्डरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ ९ ॥ दक्षिणे नारसिंहश्च नैरृत्यां माधवोऽवतु । पुरुषोत्तमो मे वारुण्यां वायव्यां च जनार्दनः ॥ १० ॥ गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः । आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ ११ ॥ सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपञ्जरः । विष्णुपञ्जरविष्टोऽहं विचरामि महीतले ॥ १२ ॥ राजद्वारेऽपथे घोरे सङ्ग्रामे शत्रुसङ्कटे । नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥ १३ ॥ डाकिनीप्रेतभूतेषु भयं तस्य न जायते । रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ १४ ॥ रक्षन्तु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः । जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥ १५ ॥ अटव्यां नारसिंहश्च सर्वतः पातु केशवः । दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चन्द्रमाः ॥ १६ ॥ पन्थानं दुर्गमं रक्षे सर्वमेव जनार्दनः । रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥ १७ ॥ स्त्रीहन्ता बालघाती च सुरापो वृषलीपतिः । मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥ १८ ॥ अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ १९ ॥ आपदो हरते नित्यं विष्णुस्तोत्रार्थसम्पदा । यस्त्विदं पठते स्तोत्रं विष्णुपञ्जरमुत्तमम् ॥ २० ॥ मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । गोसहस्रफलं तस्य वाजपेयशतस्य च ॥ २१ ॥ अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः । सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥ २२ ॥ जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ २३ ॥ इति श्रीब्रह्माण्डपुराणे इन्द्रनारदसंवादे श्री विष्णु पञ्जर स्तोत्रम् ॥

श्री विष्णु पञ्जर स्तोत्रम् – १ (ब्रह्माण्डपुराणे) - परिचय

श्री विष्णु पञ्जर स्तोत्रम् – १ (ब्रह्माण्डपुराणे) भगवान विष्णु की स्तुति में गाया जाने वाला एक अद्भुत और सिद्ध स्तोत्र है। भक्तजन अपनी मनोकामनाओं की पूर्ति और भगवत कृपा प्राप्ति के लिए श्रद्धापूर्वक इसका पाठ करते हैं।

पाठ के लाभ (Benefits)

  • मानसिक शांति: इसके नियमित पाठ से मन को शांति और स्थिरता मिलती है।
  • पाप नाश: शास्त्रानुसार भगवान के स्तोत्रों का गान जाने-अनजाने में किए गए पापों का शमन करता है।
  • सकारात्मक ऊर्जा: घर और वातावरण में सकारात्मक ऊर्जा का संचार होता है।
  • भगवान की कृपा: भगवान विष्णु और माता लक्ष्मी की कृपा बनी रहती है।

पाठ विधि (Recitation Method)

  • समय: प्रातःकाल (ब्रह्म मुहूर्त) या संध्या का समय पाठ के लिए सर्वोत्तम माना गया है।
  • पवित्रता: स्नान आदि से निवृत्त होकर, स्वच्छ वस्त्र धारण करके ही पाठ करें।
  • आसन: पूजा स्थान पर कुश या ऊनी आसन पर बैठकर पाठ करना चाहिए।
  • एकाग्रता: भगवान विष्णु के स्वरूप का ध्यान करते हुए एकाग्र चित्त से पाठ करें।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. श्री विष्णु पञ्जर स्तोत्रम् – १ (ब्रह्माण्डपुराणे) का पाठ कब करना चाहिए?

इसका पाठ प्रतिदिन प्रातःकाल या सायंकाल के समय किया जा सकता है। एकादशी या गुरुवार के दिन इसका विशेष महत्व है।

2. क्या इसका पाठ कोई भी कर सकता है?

हाँ, भगवान की भक्ति में कोई भी, स्त्री या पुरुष, इसका पाठ श्रद्धापूर्वक कर सकता है।

3. क्या संस्कृत न जानने वाले भी इसे पढ़ सकते हैं?

हाँ, यदि संस्कृत पढ़ने में कठिनाई हो तो आप इसे धीरे-धीरे पढ़ सकते हैं या केवल श्रवण (सुनना) भी कर सकते हैं। भाव मुख्य है।

4. श्री विष्णु पञ्जर स्तोत्रम् – १ (ब्रह्माण्डपुराणे) के पाठ से क्या फल मिलता है?

इसके पाठ से जीवन में सुख-शांति, समृद्धि और आरोग्य की प्राप्ति होती है तथा भगवान नारायण की भक्ति दृढ़ होती है।