Logoपवित्र ग्रंथ

Sri Sita Sahasranama Stotram – श्री सीता सहस्रनाम स्तोत्रम्

Sri Sita Sahasranama Stotram – श्री सीता सहस्रनाम स्तोत्रम्
॥ श्री सीता सहस्रनाम स्तोत्रम् ॥ ॥ ध्यानम् ॥ सकलकुशलदात्रीं भक्तिमुक्तिप्रदात्रीं त्रिभुवनजनयित्रीं दुष्टधीनाशयित्रीम् । जनकधरणिपुत्रीं दर्पिदर्पप्रहन्त्रीं हरिहरविधिकर्त्रीं नौमि सद्भक्तभर्त्रीम् ॥ ॥ स्तोत्रम् ॥ ब्रह्मणो वचनं श्रुत्वा रामः कमललोचनः । प्रोन्मील्य शनकैरक्षी वेपमानो महाभुजः ॥ १ ॥ प्रणम्य शिरसा भूमौ तेजसा चापि विह्वलः । भीतः कृताञ्जलिपुटः प्रोवाच परमेश्वरीम् ॥ २ ॥ का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वां महादेवि यथावद्ब्रूहि पृच्छते ॥ ३ ॥ रामस्य वचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार रघुव्याघ्रं योगिनामभयप्रदा ॥ ४ ॥ मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् । अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ५ ॥ अहं वै सर्वभावानामात्मा सर्वान्तरा शिवा । शाश्वती सर्वविज्ञाना सर्वमूर्तिप्रवर्तिका ॥ ६ ॥ अनन्तानन्तमहिमा संसारार्णवतारिणी । दिव्यं ददामि ते चक्षुः पश्य मे पदमैश्वरम् ॥ ७ ॥ इत्युक्त्वा विररामैषा रामोऽपश्यच्च तत्पदम् । कोटिसूर्यप्रतीकाशं विष्वक्तेजोनिराकुलम् ॥ ८ ॥ ज्वालावलीसहस्राढ्यं कालानलशतोपमम् । दंष्ट्राकरालं दुर्धर्षं जटामण्डलमण्डितम् ॥ ९ ॥ त्रिशूलवरहस्तं च घोररूपं भयावहम् । प्रशाम्यत्सौम्यवदनमनन्तैश्वर्यसम्युतम् ॥ १० ॥ चन्द्रावयवलक्ष्माढ्यं चन्द्रकोटिसमप्रभम् । किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ॥ ११ ॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । शङ्खचक्रकरं काम्यं त्रिनेत्रं कृत्तिवाससम् ॥ १२ ॥ अन्तःस्थं चाण्डबाह्यस्थं बाह्याभ्यन्तरतः परम् । सर्वशक्तिमयं शान्तं सर्वाकारं सनातनम् ॥ १३ ॥ ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैरीड्यमानपदाम्बुजम् । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ १४ ॥ सर्वमावृत्य तिष्ठन्तं ददर्श पदमैश्वरम् । दृष्ट्वा च तादृशं रूपं दिव्यं माहेश्वरं पदम् ॥ १५ ॥ तयैव च समाविष्टः स रामो हृतमानसः । आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ॥ १६ ॥ नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् । सीतोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ १७ ॥ अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगोचरा ॥ १८ ॥ एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी शक्ता महादेवी निरञ्जना ॥ १९ ॥ काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । जानकी मिथिलानन्दा राक्षसान्तविधायिनी ॥ २० ॥ रावणान्तकरी रम्या रामवक्षःस्थलालया । उमा सर्वात्मिका विद्या ज्योतीरूपाऽयुताक्षरी ॥ २१ ॥ शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योममयी व्योमाधाराऽच्युता लता ॥ २२ ॥ अनादिनिधना योषा कारणात्मा कलाकुला । नन्दप्रथमजा नाभिरमृतस्यान्तसंश्रया ॥ २३ ॥ प्राणेश्वरप्रिया मातामही महिषवाहिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ २४ ॥ सर्वशक्तिः कला काष्ठा ज्योत्स्नेन्दोर्महिमास्पदा । सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ २५ ॥ अनादिरव्यक्तगुणा महानन्दा सनातनी । आकाशयोनिर्योगस्था सर्वयोगेश्वरेश्वरी ॥ २६ ॥ शवासना चितान्तःस्था महेशी वृषवाहना । बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ॥ २७ ॥ महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ २८ ॥ संसारसारा दुर्वारा दुर्निरीक्ष्या दुरासदा । प्राणशक्तिः प्राणविद्या योगिनी परमा कला ॥ २९ ॥ महाविभूतिर्दुर्धर्षा मूलप्रकृतिसम्भवा । अनाद्यनन्तविभवा परात्मा पुरुषो बली ॥ ३० ॥ सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया । शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ ३१ ॥ प्रधानपुरुषातीता प्रधानपुरुषात्मिका । पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥ ३२ ॥ भूतान्तरात्मा कूटस्था महापुरुषसञ्ज्ञिता । जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥ ३३ ॥ व्यापिनी चानवच्छिन्ना प्रधाना सुप्रवेशिनी । क्षेत्रज्ञा शक्तिरव्यक्तलक्षणा मलवर्जिता ॥ ३४ ॥ अनादिमायासम्भिन्ना त्रितत्त्वा प्रकृतिर्गुणा । महामाया समुत्पन्ना तामसी पौरुषं ध्रुवा ॥ ३५ ॥ व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका । स्वकार्या कार्यजननी ब्रह्मास्या ब्रह्मसंश्रया ॥ ३६ ॥ व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी । वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ॥ ३७ ॥ जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी । सुखदा शुभदा सत्या शुभा सङ्क्षोभकारिणी ॥ ३८ ॥ अपां योनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा । ईश्वराणी च शर्वाणी शङ्करार्धशरीरिणी ॥ ३९ ॥ भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका । माहेश्वरी समुत्पन्ना भुक्तिमुक्तिफलप्रदा ॥ ४० ॥ सर्वेश्वरी सर्ववर्णा नित्या मुदितमानसा । ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी ॥ ४१ ॥ ईश्वरार्धासनगता रघूत्तमपतिव्रता । सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ॥ ४२ ॥ पार्वती हिमवत्पुत्री परमानन्ददायिनी । गुणाढ्या योगदा योग्या ज्ञानमूर्तिविकासिनी ॥ ४३ ॥ सावित्री कमला लक्ष्मीः श्रीरनन्तोरसिस्थिता । सरोजनिलया शुभ्रा योगनिद्रा सुदर्शना ॥ ४४ ॥ सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला । वासवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ॥ ४५ ॥ वागीश्वरी सर्वविद्या महाविद्या सुशोभना । गुह्यविद्याऽऽत्मविद्या च सर्वविद्याऽऽत्मभाविता ॥ ४६ ॥ स्वाहा विश्वम्भरी सिद्धिः स्वधा मेधा धृतिः श्रुतिः । नाभिः सुनाभिः सुकृतिर्माधवी नरवाहिनी ॥ ४७ ॥ पूज्या विभावरी सौम्या भगिनी भोगदायिनी । शोभा वंशकरी लीला मानिनी परमेष्ठिनी ॥ ४८ ॥ त्रैलोक्यसुन्दर्य रम्या सुन्दरी कामचारिणी । महानुभावमध्यस्था महामहिषमर्दिनी ॥ ४९ ॥ पद्ममाला पापहरा विचित्रमुकुटानना । कान्ता चित्राम्बरधरा दिव्याभरणभूषिता ॥ ५० ॥ हंसाख्या व्योमनिलया जगत्सृष्टिविवर्धिनी । निर्यन्त्रा मन्त्रवाहस्था नन्दिनी भद्रकालिका ॥ ५१ ॥ आदित्यवर्णा कौमारी मयूरवरवाहिनी । वृषासनगता गौरी महाकाली सुरार्चिता ॥ ५२ ॥ अदितिर्नियता रौद्री पद्मगर्भा विवाहना । विरूपाक्षी लेलिहाना महासुरविनाशिनी ॥ ५३ ॥ महाफलाऽनवद्याङ्गी कामपूरा विभावरी । विचित्ररत्नमुकुटा प्रणतर्धिविवर्धिनी ॥ ५४ ॥ कौशिकी कर्षिणी रात्रिस्त्रिदशार्तिविनाशिनी । विरूपा च सुरूपा च भीमा मोक्षप्रदायिनी ॥ ५५ ॥ भक्तार्तिनाशिनी भव्या भवभावविनाशिनी । निर्गुणा नित्यविभवा निःसारा निरपत्रपा ॥ ५६ ॥ यशस्विनी सामगीतिर्भवाङ्गनिलयालया । दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ॥ ५७ ॥ सर्वातिशायिनी विद्या सर्वशक्तिप्रदायिनी । सर्वेश्वरप्रिया तार्क्षी समुद्रान्तरवासिनी ॥ ५८ ॥ अकलङ्का निराधारा नित्यसिद्धा निरामया । कामधेनुर्वेदगर्भा धीमती मोहनाशिनी ॥ ५९ ॥ निःसङ्कल्पा निरातङ्का विनया विनयप्रदा । ज्वालामालासहस्राढ्या देवदेवी मनोन्मनी ॥ ६० ॥ उर्वी गुर्वी गुरुः श्रेष्ठा सगुणा षड्गुणात्मिका । महाभगवती भव्या वसुदेवसमुद्भवा ॥ ६१ ॥ महेन्द्रोपेन्द्रभगिनी भक्तिगम्यपरायणा । ज्ञान ज्ञेया जरातीता वेदान्तविषया गतिः ॥ ६२ ॥ दक्षिणा दहना बाह्या सर्वभूतनमस्कृता । योगमाया विभावज्ञा महामोहा महीयसी ॥ ६३ ॥ सत्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रया मतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ ६४ ॥ ख्यातिः प्रतिज्ञा चित्संविन्महायोगेन्द्रशायिनी । विकृतिः शाङ्करी शास्त्री गन्धर्वयक्षसेविता ॥ ६५ ॥ वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्री शिवानन्दा शची दुःस्वप्ननाशिनी ॥ ६६ ॥ पूज्याऽपूज्या जगद्धात्री दुर्विज्ञेयस्वरूपिणी । गुहाम्बिका गुहोत्पत्तिर्महापीठा मरुत्सुता ॥ ६७ ॥ हव्यवाहान्तरा गार्गी हव्यवाहसमुद्भवा । जगद्योनिर्जगन्माता जगन्मृत्युर्जरातिगा ॥ ६८ ॥ बुद्धिर्माता बुद्धिमती पुरुषान्तरवासिनी । तपस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ॥ ६९ ॥ सर्वेन्द्रियमनोमाता सर्वभूतहृदिस्थिता । संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥ ७० ॥ ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भयावनिः । हिरण्मयी महारात्रिः संसारपरिवर्तिका ॥ ७१ ॥ सुमालिनी सुरूपा च तारिणी भाविनी प्रभा । उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥ ७२ ॥ तपिनी तापिनी विश्वा भोगदा धारिणी धरा । सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ॥ ७३ ॥ सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी । जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ॥ ७४ ॥ निराश्रया निराहारा निरङ्कुशरणोद्भवा । चक्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ॥ ७५ ॥ परापरविधानज्ञा महापुरुषपूर्वजा । विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ॥ ७६ ॥ विद्यामयी सहस्राक्षी सहस्रश्रवणात्मजा । सहस्ररश्मि पद्मस्था महेश्वरपदाश्रया ॥ ७७ ॥ ज्वालिनी सद्मना व्याप्ता तैजसी पद्मरोधिका । महादेवाश्रया मान्या महादेवमनोरमा ॥ ७८ ॥ व्योमलक्ष्मीः सिंहरथा चेकितान्यमितप्रभा । विश्वेश्वरी विमानस्था विशोका शोकनाशिनी ॥ ७९ ॥ अनाहता कुण्डलिनी नलिनी पद्मवासिनी । शतानन्दा सतां कीर्तिः सर्वभूतशयस्थिता ॥ ८० ॥ वाग्देवता ब्रह्मकला कलातीता कलावती । ब्रह्मर्षिर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ॥ ८१ ॥ व्योमशक्तिः क्रियाशक्तिर्जनशक्तिः परागतिः । क्षोभिका रौद्रिकाऽभेद्या भेदाभेदविवर्जिता ॥ ८२ ॥ अभिन्ना भिन्नसंस्थाना वंशिनी वंशहारिणी । गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ॥ ८३ ॥ भगिनी भगवत्पत्नी सकला कालकारिणी । सर्ववित्सर्वतोभद्रा गुह्यातीता गुहावलिः ॥ ८४ ॥ प्रक्रिया योगमाता च गन्धा विश्वेश्वरेश्वरी । कपिला कपिलाकान्ता कनकाभा कलान्तरा ॥ ८५ ॥ पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरःसरा । पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥ ८६ ॥ पञ्चब्रह्मसमुत्पत्तिः परमात्मात्मविग्रहा । नर्मोदया भानुमती योगिज्ञेया मनोजवा ॥ ८७ ॥ बीजरूपा रजोरूपा वशिनी योगरूपिणी । सुमन्त्रा मन्त्रिणी पूर्णा ह्लादिनी क्लेशनाशिनी ॥ ८८ ॥ मनोहरी मनोरक्षी तापसी वेदरूपिणी । वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ॥ ८९ ॥ योगेश्वरेश्वरी माला महाशक्तिर्मनोमयी । विश्वावस्था वीरमुक्तिर्विद्युन्माला विहायसी ॥ ९० ॥ पीवरी सुरभी वन्द्या नन्दिनी नन्दवल्लभा । भारती परमानन्दा परापरविभेदिका ॥ ९१ ॥ सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी । अचिन्त्याऽचिन्त्यमहिमा दुर्लेखा कनकप्रभा ॥ ९२ ॥ कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी । त्रिविक्रमपदोद्भूता धनुष्पाणिः शिरोहया ॥ ९३ ॥ सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना । भ्रान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ॥ ९४ ॥ आद्या हृत्कमलोद्भूता परामाता रणप्रिया । सत्क्रिया गिरिजा नित्यशुद्धा पुष्पनिरन्तरा ॥ ९५ ॥ दुर्गा कात्यायनी चण्डी चर्चिका शान्तविग्रहा । हिरण्यवर्णा रजनी जगन्मन्त्रप्रवर्तिका ॥ ९६ ॥ मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी । रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ॥ ९७ ॥ पद्मासना पद्मनिभा नित्यतुष्टामृतोद्भवा । धुन्वती दुष्प्रकम्पा च सूर्यमाता दृषद्वती ॥ ९८ ॥ महेन्द्रभगिनी माया वरेण्या वरदर्पिता । कल्याणी कमला रामा पञ्चभूतवरप्रदा ॥ ९९ ॥ वाच्या वरेश्वरी नन्द्या दुर्जया दुरतिक्रमा । कालरात्रिर्महावेगा वीरभद्रहितप्रिया ॥ १०० ॥ भद्रकाली जगन्माता भक्तानां भद्रदायिनी । कराला पिङ्गलाकारा नामवेदा महानदा ॥ १०१ ॥ तपस्विनी यशोदा च यथाध्वपरिवर्तिनी । शङ्खिनी पद्मिनी साङ्ख्या साङ्ख्ययोगप्रवर्तिका ॥ १०२ ॥ चैत्री संवत्सरा रुद्रा जगत्सम्पूरणीन्द्रजा । शुम्भारिः खेचरी खस्था कम्बुग्रीवा कलिप्रिया ॥ १०३ ॥ खरध्वजा खरारूढा परार्ध्याय परमालिनी । ऐश्वर्यरत्ननिलया विरक्ता गरुडासना ॥ १०४ ॥ जयन्ती हृद्गुहा रम्या सत्त्ववेगा गणाग्रणीः । सङ्कल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ॥ १०५ ॥ कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा । नित्यदृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ॥ १०६ ॥ विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवामृता । लोहिता सर्वमाता च भीषणा वनमालिनी ॥ १०७ ॥ अनन्तशयनानाद्या नरनारायणोद्भवा । नृसिंही दैत्यमथिनी शङ्खचक्रगदाधरा ॥ १०८ ॥ सङ्कर्षणसमुत्पत्तिरम्बिकोपान्तसंश्रया । महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् ॥ १०९ ॥ सुप्रभा सुतरां गौरी धर्मकामार्थमोक्षदा । भ्रूमध्यनिलयाऽपूर्वा प्रधानपुरुषा बली ॥ ११० ॥ महाविभूतिदा मध्या सरोजनयनाऽसना । अष्टादशभुजा नाट्या नीलोत्पलदलप्रभा ॥ १११ ॥ सर्वशक्त्या समारूढा धर्माधर्मानुवर्जिता । वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ॥ ११२ ॥ विचित्रगहना धीरा शाश्वतस्थानवासिनी । स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ॥ ११३ ॥ अशेषदेवतामूर्तिर्देवता परदेवता । गणात्मिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ ११४ ॥ अवर्णा वर्णरहिता निर्वर्णा बीजसम्भवा । अनन्तवर्णानन्यस्था शङ्करी शान्तमानसा ॥ ११५ ॥ अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणान्तरा । गोश्रीर्गव्यप्रिया गौरी गणेश्वरनमस्कृता ॥ ११६ ॥ सत्यमात्रा सत्यसन्धा त्रिसन्ध्या सन्धिवर्जिता । सर्ववादाश्रया साङ्ख्या साङ्ख्ययोगसमुद्भवा ॥ ११७ ॥ असङ्ख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ॥ ११८ ॥ विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥ ११९ ॥ त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥ १२० ॥ शिवाख्या चित्रनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ॥ १२१ ॥ शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिता । नारायणी नवोद्भूता कौमुदी लिङ्गधारिणी ॥ १२२ ॥ कामुकी ललिता तारा परापरविभूतिदा । परान्तजातमहिमा वडवा वामलोचना ॥ १२३ ॥ सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १२४ ॥ अमृत्युरमृतास्वादा पुरुहूता पुरुप्लुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १२५ ॥ हिरण्या राजती हैमी हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १२६ ॥ महानिद्रासमुद्भूतिर्बलीन्द्रा सत्यदेवता । दीर्घा ककुद्मिनी विद्या शान्तिदा शान्तिवर्धिनी ॥ १२७ ॥ लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥ १२८ ॥ स्वाहा च कर्मकरणी युगान्तदलनात्मिका । सङ्कर्षणा जगद्धात्री कामयोनिः किरीटिनी ॥ १२९ ॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥ १३० ॥ महोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्मात्रा विन्ध्यपर्वतवासिनी ॥ १३१ ॥ हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्त्री तनया नीतिज्ञा कामरूपिणी ॥ १३२ ॥ वेदविद्याव्रतरता धर्मशीलाऽनिलाशना । अयोध्यानिलया वीरा महाकालसमुद्भवा ॥ १३३ ॥ विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायन्ती वहन्ती च पावनी पोषणी खिला ॥ १३४ ॥ मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी स्वधा वाणी वीणावादनतत्परा ॥ १३५ ॥ सेविता सेविका सेवा सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मणिदा श्रीवसुप्रदा ॥ १३६ ॥ वसुमती वसोर्धारा वसुन्धरासमुद्भवा । वरारोहा वरार्हा च वपुःसङ्गसमुद्भवा ॥ १३७ ॥ श्रीफली श्रीमती श्रीशा श्रीनिवासा हरिप्रिया । श्रीधरी श्रीकरी कम्प्रा श्रीधरा ईशवीरणी ॥ १३८ ॥ अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसिंहानां सिंहिका सिंहवाहिनी ॥ १३९ ॥ सुसेना चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । बलज्ञा बलदा वामा लेलिहानाऽमृतस्रवा ॥ १४० ॥ नित्योदिता स्वयञ्ज्योतिरुत्सुकामृतजीविनी । वज्रदंष्ट्रा वज्रजिह्वा वैदेही वज्रविग्रहा ॥ १४१ ॥ मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १४२ ॥ सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्षा कंसप्राणापहारिणी ॥ १४३ ॥ युगन्धरा युगावर्ता त्रिसन्ध्या हर्षवर्धिनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ १४४ ॥ शक्रासनगता शाक्री साध्वी नारी शवासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टा शिष्टप्रपूजिता ॥ १४५ ॥ शतरूपा शतावर्ता विनीता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्णा सूर्यसंस्थिता ॥ १४६ ॥ समीक्षा सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १४७ ॥ धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १४८ ॥ धर्मान्तरा धर्ममध्या धर्मपूर्वा धनप्रिया । धर्मोपदेशा धर्मात्मा धर्मलभ्या धराधरा ॥ १४९ ॥ कपाली शाकलामूर्तिः कलाकलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १५० ॥ सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी । प्रधानपुरुषाशानी महापुरुषसाक्षिणी ॥ १५१ ॥ सदाशिवा वियन्मूर्तिर्देवमूर्तिरमूर्तिका ॥ १५२ ॥ एवं नाम्नां सहस्रेण तुष्टाव रघुनन्दनः । कृताञ्जलिपुटो भूत्वा सीतां हृष्टतनूरुहाम् ॥ १५३ ॥ ॥ फलश्रुति ॥ भारद्वाज महाभाग यश्चैतत् स्तोत्रमद्भुतम् । पठेद्वा पाठयेद्वापि स याति परमं पदम् ॥ १५४ ॥ ब्रह्मक्षत्रियविड्योनिर्ब्रह्म प्राप्नोति शाश्वतम् । शूद्रः सद्गतिमाप्नोति धनधान्यविभूतयः ॥ १५५ ॥ भवन्ति स्तोत्रमहात्म्यादेतत् स्वस्त्ययनं महत् । मारीभये राजभये तथा चोराग्निजे भये ॥ १५६ ॥ व्याधीनां प्रभवे घोरे शत्रूत्थाने च सङ्कटे । अनावृष्टिभये विप्र सर्वशान्तिकरं परम् ॥ १५७ ॥ यद्यदिष्टतमं यस्य तत्सर्वं स्तोत्रतो भवेत् । यत्रैतत्पठ्यते सम्यक् सीतानामसहस्रकम् ॥ १५८ ॥ रामेण सहिता देवी तत्र तिष्ठत्यसंशयम् । महापापातिपापानि विलयं यान्ति सुव्रत ॥ १५९ ॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अद्भुतोत्तरकाण्डे श्रीसीतासहस्रनामस्तोत्रं सम्पूर्णम् ॥

श्री सीता सहस्रनाम स्तोत्रम्: आदि-शक्ति माता जानकी का दिव्य परिचय

श्री सीता सहस्रनाम स्तोत्रम् (Sri Sita Sahasranama Stotram) सनातन धर्म का वह गुप्त आध्यात्मिक रहस्य है, जो साक्षात शक्ति और भक्ति का चरम संगम है। यह स्तोत्र महर्षि वाल्मीकि द्वारा रचित 'अद्भुतोत्तरकाण्ड' (Adbhuta Ramayana) से उद्धृत है। जहाँ 'वाल्मीकि रामायण' में माता सीता को एक आदर्श नारी और सहनशीलता की प्रतिमूर्ति के रूप में दिखाया गया है, वहीं 'अद्भुत रामायण' उन्हें साक्षात 'आदि-शक्ति', 'प्रकृति' और 'महाकाली' के रूप में प्रतिष्ठित करता है। इस स्तोत्र में माता सीता के १००८ दिव्य नामों का वर्णन है, जिन्हें स्वयं भगवान श्री राम ने उनकी स्तुति में उच्चारित किया था।

इस स्तोत्र की पृष्ठभूमि अत्यंत विस्मयकारी है। अद्भुत रामायण के अनुसार, जब भगवान राम ने लंका के रावण का वध किया, तब उन्हें पता चला कि एक सहस्र-मुख वाला रावण (Sahasra Mukha Ravana) भी अस्तित्व में है, जो लंका के रावण से भी अधिक शक्तिशाली है। जब प्रभु राम उस पर विजय पाने में संघर्ष कर रहे थे, तब माता सीता ने अपना सौम्य रूप त्यागकर अत्यंत उग्र और विराट रूप धारण किया। उन्होंने एक ही क्षण में सहस्र-मुख रावण का संहार कर दिया। उस समय उनकी अदम्य शक्ति और तेज को देखकर स्वयं ब्रह्मा, विष्णु और महेश भी विस्मित हो गए। इसी विराट स्वरूप को शांत करने और उनके प्रति अपनी श्रद्धा व्यक्त करने के लिए प्रभु राम ने इन १००० नामों से उनकी वन्दना की।

दार्शनिक दृष्टिकोण से, सीता माता का अर्थ केवल 'हल की रेखा' नहीं है, बल्कि वह 'चिच्छक्ति' (Consciousness) है जो जड़ और चेतन के बीच का सेतु है। सहस्रनाम में उन्हें 'मायातीता' (माया से परे), 'ब्रह्ममयी' और 'सर्वभूतहृदिस्थिता' कहा गया है। यह स्तोत्र हमें सिखाता है कि राम और सीता अलग नहीं हैं; वे पुरुष और प्रकृति के वे दो रूप हैं जिनसे ब्रह्मांड का संचालन होता है। इस स्तोत्र का प्रत्येक नाम एक शक्तिशाली मन्त्र है, जो साधक की चेतना को उन्नत करने की क्षमता रखता है।

अकादमिक शोधकर्ताओं और आध्यात्मिक गुरुओं का मानना है कि श्री सीता सहस्रनाम का पाठ करने से साधक को 'श्री विद्या' और 'शक्ति साधना' का पूर्ण फल प्राप्त होता है। यह स्तोत्र विशेष रूप से उन लोगों के लिए अमोघ है जो सांसारिक बाधाओं, ऋणों और शत्रुओं से मुक्ति पाना चाहते हैं। यह पाठ न केवल सौभाग्य प्रदान करता है, बल्कि अंततः आत्मा को उस 'परम पद' तक ले जाता है जहाँ केवल अखंड आनंद है।

विशिष्ट आध्यात्मिक एवं दार्शनिक महत्व (Significance)

श्री सीता सहस्रनाम स्तोत्र का महत्व इसके नामों के गूढ़ अर्थों में छिपा है। यह स्तोत्र शक्ति-विशिष्ट अद्वैत दर्शन का समर्थन करता है।

  • विराट स्वरूप का बोध: श्लोक ८-१५ में प्रभु राम माता सीता के उस तेज का वर्णन करते हैं जो कोटि सूर्यों के समान है। यह साधक को ईश्वर की अनंतता का अनुभव कराता है।
  • प्रकृति और पुरुष का अभेद: स्तोत्र में सीता जी को 'माहेश्वरी' और 'विष्णुवनिता' दोनों कहा गया है, जो त्रिदेवों की शक्ति के रूप में उनकी व्यापकता को सिद्ध करता है।
  • कुण्डलिनी शक्ति: नाम ८० (कुण्डलिनी) और ८२ (क्रियाशक्ति) यह दर्शाते हैं कि यह पाठ साधक के भीतर सोई हुई कुण्डलिनी ऊर्जा को जाग्रत करने में सहायक है।
  • सौभाग्य की अधिष्ठात्री: विवाहित स्त्रियों के लिए यह 'अखंड सौभाग्य' का मन्त्र है, क्योंकि माता सीता पतिव्रता धर्म की सर्वोच्च शक्ति हैं।

फलश्रुति: श्री सीता सहस्रनाम पाठ के दिव्य लाभ (Benefits)

इस दिव्य स्तोत्र की फलश्रुति (श्लोक १५४-१५९) में इसके असीमित लाभों का वर्णन स्वयं महर्षि वाल्मीकि ने किया है:

  • सर्व-भय निवारण: 'मारीभये राजभये तथा चोराग्निजे भये' — महामारी, राज-दण्ड, चोरी और अग्नि के भय से माता सीता सदैव रक्षा करती हैं।
  • शत्रु और संकट नाश: जीवन में अचानक आए शत्रुओं के उत्थान और घोर संकटों को यह स्तोत्र तत्काल शांत कर देता है।
  • धन-धान्य और समृद्धि: इसके पाठ से साधक के घर में धन, धान्य और सभी प्रकार की भौतिक विभूतियों की कभी कमी नहीं होती।
  • पाप मुक्ति: 'महापापातिपापानि विलयं यान्ति' — ज्ञात-अज्ञान में किए गए ब्रह्महत्या जैसे जघन्य पाप भी इस पाठ के प्रभाव से विलीन हो जाते हैं।
  • शांति और तुष्टि: अनावृष्टि (सूखा) या पारिवारिक अशांति के समय यह 'सर्वशान्तिकरं परम्' अर्थात सर्वोत्तम शांतिदायक उपाय है।
  • परम पद की प्राप्ति: अंततः साधक भगवान राम और माता सीता के सान्निध्य में शाश्वत मुक्ति (परम पद) को प्राप्त करता है।

पाठ विधि एवं साधना के नियम (Ritual Method)

श्री सीता सहस्रनाम का पाठ यदि विधिपूर्वक किया जाए, तो इसका फल कई गुना बढ़ जाता है। नीचे दी गई प्रक्रिया का पालन करें:

  • शुभ समय: ब्रह्म मुहूर्त (प्रातः ४ से ६ बजे) पाठ के लिए सर्वश्रेष्ठ है। विशेष कामना हेतु शुक्रवार या अष्टमी तिथि से पाठ आरम्भ करें।
  • शुद्धि: स्नान के पश्चात श्वेत या पीले वस्त्र धारण करें। माँ सीता की प्रतिमा या चित्र के सामने घी का दीपक प्रज्वलित करें।
  • आसन: ऊनी या कुश के आसन पर पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
  • ध्यान: स्तोत्र आरम्भ करने से पूर्व प्रभु श्री राम और जानकी मैया के युगल स्वरूप का हृदय में ध्यान करें।
  • माला: यदि मन्त्र जप करना हो, तो स्फटिक या कमल-गट्टे की माला का प्रयोग करें।

विशेष प्रयोग: यदि कोई असाध्य रोग हो, तो लगातार २१ दिनों तक ११ बार इस सहस्रनाम का पाठ कर जल अभिमंत्रित करके रोगी को पिलाने से लाभ मिलता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्री सीता सहस्रनाम स्तोत्र का मुख्य स्रोत क्या है?

यह स्तोत्र महर्षि वाल्मीकि द्वारा रचित 'अद्भुतोत्तरकाण्ड' (अद्भुत रामायण) के २५वें अध्याय से लिया गया है।

2. क्या इस स्तोत्र का पाठ केवल स्त्रियाँ ही कर सकती हैं?

नहीं, यह भ्रम है। आदि-शक्ति माता सीता की भक्ति का अधिकार पुरुषों और स्त्रियों दोनों को समान रूप से है। पुरुष भी आत्मिक शांति और विजय के लिए इसका पाठ कर सकते हैं।

3. अद्भुत रामायण में सीता माता का स्वरूप कैसा है?

अद्भुत रामायण में सीता जी को 'विराट शक्ति' के रूप में दिखाया गया है, जिन्होंने सहस्र-मुख रावण का वध करने के लिए महाकाली का रूप धारण किया था।

4. क्या इस पाठ से ऋण (कर्ज) से मुक्ति मिलती है?

हाँ, माता सीता महालक्ष्मी का ही अवतार हैं। उनके सहस्र नामों का पाठ करने से आर्थिक तंगी दूर होती है और ऋण से मुक्ति का मार्ग प्रशस्त होता है।

5. पाठ के दौरान सीता माता को कौन सा भोग प्रिय है?

माता जानकी को श्वेत रंग की मिठाइयां (खीर, मखाना) या पीले फल (केला) अत्यंत प्रिय हैं। उन्हें तुलसी पत्र के साथ भोग लगाना शुभ माना जाता है।

6. क्या 'सीता सहस्रनाम' और 'ललिता सहस्रनाम' एक समान हैं?

दोनों ही आदि-शक्ति के स्तोत्र हैं। ललिता सहस्रनाम श्री विद्या का अंग है, जबकि सीता सहस्रनाम वैष्णव भक्ति और शक्ति का संगम है। दोनों का फल आध्यात्मिक उन्नति है।

7. क्या इस स्तोत्र का पाठ घर में किया जा सकता है?

हाँ, घर के मंदिर में शुद्धता के साथ इसका पाठ करना अत्यंत मंगलकारी है। इससे घर की नकारात्मक ऊर्जा का नाश होता है।

8. 'सहस्र-मुख रावण' कौन था?

यह लंका के रावण से भी अधिक शक्तिशाली राक्षस था, जिसे ब्रह्मा जी का वरदान प्राप्त था। इसका वध केवल माता सीता ही कर सकती थीं।

9. क्या इस पाठ से अकाल मृत्यु का भय टल जाता है?

जी हाँ, फलश्रुति के अनुसार 'सर्वशान्तिकरं' होने के नाते यह पाठ मृत्यु के भय को दूर कर दीर्घायु प्रदान करता है।

10. पाठ के लिए सर्वश्रेष्ठ दिन कौन सा है?

प्रतिदिन पाठ करना श्रेष्ठ है, लेकिन शुक्रवार, अष्टमी, नवमी और पूर्णमासी के दिन पाठ करने का विशेष फल मिलता है।