Logoपवित्र ग्रंथ

Sri Shiva Shodasopachara Puja – श्री शिव षोडशोपचार पूजा

Sri Shiva Shodasopachara Puja – श्री शिव षोडशोपचार पूजा
**** पश्यतु ॥ पश्यतु ॥  पश्यतु ॥ अस्मिन् लिङ्गे श्रीउमामहेश्वर स्वामिनमावाहयामि स्थापयामि । ततः प्राण प्रतिष्ठापनं करिष्ये ॥ **ध्यानम् –** कर्पूर गौरं करुणावतारं संसारसारं भुजगेन्द्र हारम् । सदा रमन्तं हृदयारविन्दे भवं भवानी सहितं नमामि ॥ १ वन्दे महेशं सुरसिद्धसेवितं देवाङ्गना गीत सुनृत्य तुष्टम् । पर्यङ्कगं शैलसुतासमेतं कल्पद्रुमारण्यगतं प्रसन्नम् ॥ २ ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नकल्पोज्ज्वलाङ्गं परशुवरमृगाभीति हस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिल भयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ३ **प्राणप्रतिष्ठा –** ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒ मनु॑मते मृ॒डया᳚ नः स्व॒स्ति । अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑: प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥ स्थिरो भव । वरदो भव । सुमुखो भव । सुप्रसन्नो भव । स्थिरासनं कुरु ॥ स्वामिन् सर्व जगन्नाथ यावत्पूजाऽवसानकम् । तावत्त्वं प्रीति भावेन लिङ्गेऽस्मिन् सन्निधिं कुरु ॥ त्र्यम्बकमिति स्थापन मुद्रां दर्शयित्वा । ओं त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒ वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥ **ध्यानम् –** कैलासे कमनीय रत्न खचिते कल्पद्रुमूले स्थितं कर्पूर स्फटिकेन्दु सुन्दर तनुं कात्यायनी सेवितम् । गङ्गोत्तुङ्ग तरङ्ग रञ्जित जटा भारं कृपासागरं कण्ठालङ्कृत शेषभूषणमहं मृत्युञ्जयं भावये ॥ ओं श्री उमामहेश्वर स्वामिने नमः ध्यायामि । **आवाहनम् –** (ओं स॒द्योजा॒तं प्र॑पद्या॒मि) ओङ्काराय नमस्तुभ्यं ओङ्कारप्रिय शङ्कर । आवाहनं गृहाणेदं पार्वतीप्रिय वल्लभ ॥ ओं श्री उमामहेश्वर स्वामिने नमः आवाहयामि । **आसनम् –** (ओं स॒द्योजा॒ताय॒वै नमो॒ नम॑:) नमस्ते गिरिजानाथ कैलासगिरि मन्दिर । सिंहासनं मया दत्तं स्वीकुरुष्व उमापते ॥ श्री उमामहेश्वर स्वामिने नमः नवरत्न खचित हेम सिंहासनं समर्पयामि । **पाद्यम् –** (ओं भवे भ॑वे॒न) महादेव जगन्नाथ भक्तानामभयप्रद । पाद्यं गृहाण देवेश मम सौख्यं विवर्धय ॥ श्री उमामहेश्वर स्वामिने नमः पादयोः पाद्यं समर्पयामि । **अर्घ्यम् –** (ओं अति॑ भवे भवस्व॒मां) शिवाप्रिय नमस्तेस्तु पावनं जलपूरितम् । अर्घ्यं गृहाण भगवन् गाङ्गेय कलशस्थितम् ॥ श्री उमामहेश्वर स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि । **आचमनम् –** (ओं भ॒वोद्भ॑वाय॒ नमः) वामादेव सुराधीश वन्दिताङ्घ्रि सरोरुह । गृहाणाचमनं देव करुणा वरुणालय ॥ श्री उमामहेश्वर स्वामिने नमः मुखे आचमनीयं समर्पयामि । **मधुपर्कम् –** यमान्तकाय उग्राय भीमाय च नमो नमः । मधुपर्कं प्रदास्यामि गृहाण त्वमुमापते ॥ श्री उमामहेश्वर स्वामिने नमः मधुपर्कं समर्पयामि । **शुद्धोदक स्नानम् –** (ओं वामदेवाय नमः) ओङ्कार प्रीत मनसे नमो ब्रह्मार्चिताङ्घ्रये । स्नानं स्वीकुरु देवेश मयानीतं नदी जलम् ॥ [* नम॑श्श॒म्भवे॑ च मयो॒भवे॑च॒ नम॑श्शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑श्शि॒वाय॑ च शि॒वत॑राय च ॥ *] पश्यतु ॥ पश्यतु ॥  पश्यतु ॥ पश्यतु ॥ ओं श्री उमामहेश्वर स्वामिने नमः शुद्धोदक स्नानं समर्पयामि । स्नानानन्तरं आचमनीयं समर्पयामि । **वस्त्रम् –** (ओं ज्ये॒ष्ठाय॒ नमः) नमो नागविभूषाय नारदादि स्तुताय च । वस्त्रयुग्मं प्रदास्यामि पार्थिवेश्वर स्वीकुरु ॥ ओं श्री उमामहेश्वर स्वामिने नमः वस्त्रयुग्मं समर्पयामि । **यज्ञोपवीतम् –** (ओं श्रे॒ष्ठाय॒ नमः) यज्ञेश यज्ञविध्वंस सर्वदेव नमस्कृत । यज्ञसूत्रं प्रदास्यामि शोभनं चोत्तरीयकम् ॥ ओं श्री उमामहेश्वर स्वामिने नमः यज्ञोपवीतं समर्पयामि । **आभरणम् –** (ओं रु॒द्राय॒ नमः) नागाभरण विश्वेश चन्द्रार्धकृतमस्तक । पार्थिवेश्वर मद्दत्तं गृहाणाभरणं विभो ॥ ओं श्री उमामहेश्वर स्वामिने नमः आभरणं समर्पयामि । **गन्धम् –** (ओं काला॑य॒ नम॑:) श्री गन्धं ते प्रयच्छामि गृहाण परमेश्वर । कस्तूरि कुङ्कुमोपेतं शिवाश्लिष्ट भुजद्वय ॥ ओं श्री उमामहेश्वर स्वामिने नमः श्रीगन्धादि परिमल द्रव्यं समर्पयामि । **अक्षतान् –** (ओं कल॑विकरणाय॒ नमः) अक्षतान् धवलान् दिव्यान् शालि तुण्डुल मिश्रितान् । अक्षतोसि स्वभावेन स्वीकुरुष्व महेश्वर ॥ ओं श्री उमामहेश्वर स्वामिने नमः धवलाक्षतान् समर्पयामि । **पुष्पम् –** (ओं बल॑ विकरणाय॒ नमः) सुगन्धीनि सुपुष्पाणि जाजीबिल्वार्क चम्पकैः । निर्मितं पुष्पमालञ्च नीलकण्ठ गृहाण भो ॥ ओं श्री उमामहेश्वर स्वामिने नमः पुष्प बिल्वदलानि समर्पयामि । **अथाङ्ग पूजा –** ओं महेश्वराय नमः – पादौ पूजयामि । ओं ईश्वराय नमः – जङ्घौ पूजयामि । ओं कामरूपाय नमः – जानुनी पूजयामि । ओं हराय नमः – ऊरू पूजयामि । ओं त्रिपुरान्तकाय नमः – गुह्यं पूजयामि । ओं भवाय नमः – कटिं पूजयामि । ओं व्याघ्रचर्माम्बरधराय नमः – नाभिं पूजयामि । ओं कुक्षिस्थ ब्रहाण्डाय नमः – उदरं पूजयामि । ओं गौरी मनः प्रियाय नमः – हृदयं पूजयामि । ओं पिनाकिने नमः – हस्तौ पूजयामि । ओं नागावृतभुजदण्डाय नमः – भुजौ पूजयामि । ओं श्रीकण्ठाय नमः – कण्ठं पूजयामि । ओं विरूपाक्षाय नमः – मुखं पूजयामि । ओं त्रिनेत्राय नमः – नेत्राणि पूजयामि । ओं रुद्राय नमः – ललाटं पूजयामि । ओं शर्वाय नमः – शिरः पूजयामि । ओं चन्द्रमौलये नमः – मौलिं पूजयामि । ओं अर्धनारीश्वराय नमः – तनुं पूजयामि । ओं श्री उमामहेश्वराय नमः – सर्वाण्यङ्गानि पूजयामि । **अष्टोत्तरशतनाम पूजा –** पश्यतु ॥ ओं निध॑नपतये॒ नमः । ओं निध॑नपतान्तिकाय॒ नमः । ओं ऊर्ध्वाय॒ नमः । ओं ऊर्ध्वलिङ्गाय॒ नमः । ओं हिरण्याय॒ नमः । ओं हिरण्यलिङ्गाय॒ नमः । ओं सुवर्णाय॒ नमः । ओं सुवर्णलिङ्गाय॒ नमः । ओं दिव्याय॒ नमः । ओं दिव्यलिङ्गाय॒ नमः । ओं भवाय॒ नमः । ओं भवलिङ्गाय॒ नमः । ओं शर्वाय॒ नमः । ओं शर्वलिङ्गाय॒ नमः । ओं शिवाय॒ नमः । ओं शिवलिङ्गाय॒ नमः । ओं ज्वलाय॒ नमः । ओं ज्वललिङ्गाय॒ नमः । ओं आत्माय॒ नमः । ओं आत्मलिङ्गाय॒ नमः । ओं परमाय॒ नमः । ओं परमलिङ्गाय॒ नमः । ओं भ॒वाय॑ दे॒वाय॒ नमः – ओं भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: । ओं श॒र्वाय॑ दे॒वाय॒ नमः – ओं श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: । ओं ईशा॑नाय दे॒वाय॒ नमः – ओं ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ नम॑: । ओं पशु॒पत॑ये दे॒वाय॒ नमः – ओं पशु॒पते᳚र्दे॒वस्य पत्न्यै॒ नम॑: । ओं रु॒द्राय॑ दे॒वाय॒ नमः – ओं रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: । ओं उ॒ग्राय॑ दे॒वाय॒ नमः – ओं उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: । ओं भी॒माय॑ दे॒वाय॒ नमः – ओं भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: । ओं मह॑ते दे॒वाय॒ नमः – ओं मह॑तो दे॒वस्य॒ पत्न्यै॒ नम॑: । ओं श्री उमामहेश्वर स्वामिने नमः नाना विध परिमल पत्र पुष्पाक्षतान् समर्पयामि । **धूपम् –** (ओं बला॑य॒ नमः) दशाङ्गं धूपमुख्यं च ह्यङ्गार विनिवेशितम् । धूपं सुगन्धैरुत्पन्नं त्वां प्रीणयतु शङ्कर ॥ ओं श्री उमामहेश्वर स्वामिने नमः धूपमाघ्रापयामि । **दीपम् –** (ओं बल॑ प्रमथनाय॒ नमः) योगिनां हृदयेष्वेव ज्ञान दीपाङ्कुरोह्यसि । बाह्य दीपो मयादत्तः गृह्यतां भक्त गौरवात् ॥ ओं श्री उमामहेश्वर स्वामिने नमः दीपं दर्शयामि । धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि । **नैवेद्यम् –** (ओं सर्व॑ भूत दमनाय॒ नमः) नैवेद्यं षड्रसोपेतं घृत भक्ष्य समन्वितम् । भक्त्या ते सम्प्रदास्यामि गृहाण परमेश्वर ॥ ओं श्री उमामहेश्वर स्वामिने नमः ___ निवेदयामि । ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया᳚त् ॥ सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि । ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ । ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ । ओं स॒मा॒नाय॒ स्वाहा᳚ । मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । **ताम्बूलम् –** (ओं म॒नोन्म॑नाय॒ नमः) ताम्बूलं भवतां देव अर्पयाम्यद्य शङ्कर । पूगीफल समायुक्तं नागवल्ली दलैर्युतम् ॥ ओं श्री उमामहेश्वर स्वामिने नमः ताम्बूलं समर्पयामि । ताम्बूल चर्वणानन्तरं शुद्ध आचमनीयं समर्पयामि । **नीराजनम् –** ओं अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः । सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ नीराजनमिदं देव कर्पूरामोद सम्युतम् । गृहाण परमानन्द हेरम्ब वरदायक ॥ ओं श्री उमामहेश्वर स्वामिने नमः कर्पूर नीराजनं दर्शयामि । नीराजनानन्तरं शुद्ध आचमनीयं समर्पयामि । **मन्त्रपुष्पम् –** ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ ओं का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥ ओं श्री उमामहेश्वर स्वामिने नमः पादारविन्दयोः दिव्य सुवर्ण मन्त्र पुष्पाञ्जलिं समर्पयामि । **प्रदक्षिणम् –** ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ पदे पदे सर्वतमो निकृन्तनं पदे पदे सर्व शुभप्रदायकम् । प्रक्षिणं भक्तियुतेन चेतसा करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥ ओं श्री उमामहेश्वर स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि । **प्रार्थना –** नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः ॥ **अथ तर्पणम् –** भवं देवं तर्पयामि – भवस्य देवस्य पत्नीं तर्पयामि । शर्वं देवं तर्पयामि – शर्वस्य देवस्य पत्नीं तर्पयामि । ईशानं देवं तर्पयामि – ईशानस्य देवस्य पत्नीं तर्पयामि । पशुपतिं देवं तर्पयामि – पशुपतेर्देवस्य पत्नीं तर्पयामि । रुद्रं देवं तर्पयामि – रुद्रस्य देवस्य पत्नीं तर्पयामि । उग्रं देवं तर्पयामि – उग्रस्य देवस्य पत्नीं तर्पयामि । भीमं देवं तर्पयामि – भीमस्य देवस्य पत्नीं तर्पयामि । महान्तं देवं तर्पयामि – महतो देवस्य पत्नीं तर्पयामि । इति तर्पयित्वा अघोरादिभिस्त्रिभिर्मन्त्रैः घोर तनूरुपतिष्ठते । ओं अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः । सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ इति ध्यात्वा रुद्रगायत्रीं यथा शक्ति जपेत् । ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ इति जपित्वा अथैनमाशिषमाशास्ते । (तै।ब्रा।३-५-१०-४) आशा᳚स्ते॒ऽयं यज॑मानो॒ऽसौ । आयु॒राशा᳚स्ते । सु॒प्र॒जा॒स्त्वमाशा᳚स्ते । स॒जा॒त॒व॒न॒स्यामाशा᳚स्ते । उत्त॑रां देवय॒ज्यामाशा᳚स्ते । भूयो॑ हवि॒ष्कर॑ण॒माशा᳚स्ते । दि॒व्यं धामाशा᳚स्ते । विश्वं॑ प्रि॒यमाशा᳚स्ते । यद॒नेन॑ ह॒विषाऽऽशा᳚स्ते । तद॑स्या॒त्त॒दृ॑ध्यात् । तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते । व॒यम॒ग्नेर्मानु॑षाः । इ॒ष्टं च॑ वी॒तं च॑ । उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अग्ंह॑सः स्पाताम् । इ॒ह गति॑र्वा॒मस्ये॒दं च॑ । नमो॑ दे॒वेभ्य॑: ॥ **उपचारपूजाः –** पुनः पूजां करिष्ये । छत्रमाच्छादयामि । चामरैर्वीजयामि । नृत्यं दर्शयामि । गीतं श्रावयामि । आन्दोलिकानारोहयामि । अश्वानारोहयामि । गजानारोहयामि । समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मन्त्रोपचार पूजास्समर्पयामि ॥ **क्षमाप्रार्थना –** यस्य स्मृत्याच नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्योवन्दे महेश्वरम् ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥ अनया सद्योजात विधिना ध्यानावहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री उमामहेश्वरस्वामी सुप्रीतः सुप्रसन्नो वरदो भवतु । एतत्फलं परमेश्वरार्पणमस्तु ॥ उत्तरतश्चण्डीश्वराय नमः निर्माल्यं विसृज्य ॥ **तीर्थम् –** अकालमृत्युहरणं सर्वव्याधि निवारणम् । समस्तपापक्षयकरं शिवपादोदकं पावनं शुभम् ॥ इति त्रिवारं पीत्वा शिव निर्माल्य रूप बिल्वदलं वा दक्षिणे कर्णे धारयेत् । ओं शान्तिः शान्तिः शान्तिः ॥

श्री शिव षोडशोपचार पूजा - परिचय

श्री शिव षोडशोपचार पूजा भगवान शिव की स्तुति में गाया जाने वाला एक अद्भुत स्तोत्र है। भक्तजन अपनी मनोकामनाओं की पूर्ति के लिए श्रद्धापूर्वक इसका पाठ करते हैं।

पाठ के लाभ (Benefits)

  • मानसिक शांति: तनाव और चिंता से मुक्ति मिलती है और मन स्थिर होता है।
  • विघ्न नाश: जीवन आने वाली बाधाएं भगवान शिव की कृपा से दूर होती हैं।
  • समृद्धि: घर में सुख-समृद्धि और सकारात्मक ऊर्जा का वास होता है।
  • भक्ति: भगवान शिव के प्रति भक्ति और श्रद्धा दृढ़ होती है।

पाठ विधि (Recitation Method)

  • समय: ब्रह्म मुहूर्त (प्रातःकाल) या संध्या समय (प्रदोष काल) सर्वोत्तम है।
  • शुद्धि: स्नान करके स्वच्छ वस्त्र धारण करें।
  • आसन: पूजा कक्ष में पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
  • ध्यान: भगवान शिव के स्वरूप का ध्यान करते हुए पाठ करें।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. श्री शिव षोडशोपचार पूजा का पाठ कब करना चाहिए?

इसका पाठ प्रतिदिन किया जा सकता है, विशेषकर सोमवार और मासिक शिवरात्रि के दिन इसका महत्व अधिक है।

2. क्या संस्कृत न जानने वाले भी पाठ कर सकते हैं?

हाँ, आप हिंदी अर्थ समझकर या श्रवण (सुनकर) भी लाभ प्राप्त कर सकते हैं। भाव मुख्य है।

3. श्री शिव षोडशोपचार पूजा के पाठ से क्या फल मिलता है?

इसके नियमित पाठ से भगवान शिव की कृपा प्राप्त होती है, भय का नाश होता है और जीवन में शांति आती है।