Logoपवित्र ग्रंथ

Sri Rama Pattabhishekam Sarga – श्रीराम पट्‍टाभिषेक सर्गः (युद्धकाण्डम्)

Sri Rama Pattabhishekam Sarga – श्रीराम पट्‍टाभिषेक सर्गः (युद्धकाण्डम्)
॥ श्रीराम पट्‍टाभिषेक सर्गः ॥ शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ पूजिता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ धुरमेकाकिना न्यस्तामृषभेण बलीयसा । किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३ वारिवेगेन महता भिन्नः सेतुरिव क्षरन् । दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ गतिं खर इवाश्वस्य हंसस्येव च वायसः । नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥ ५ यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने । महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् ॥ ६ शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् । तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ ७ एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि । यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥ ८ जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः । प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९ तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः । मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ १० यावदावर्तते चक्रं यावती च वसुन्धरा । तावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय ॥ ११ भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः । तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः । सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३ पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले । सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४ विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । महार्हवसनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ प्रतिकर्म च रामस्य कारयामास वीर्यवान् । लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः । आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७ ततो वानरपत्नीनां सर्वासामेव शोभनम् । चकार यत्नात्कौसल्या प्रहृष्टा पुत्रलालसा ॥ १८ ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः । योजयितत्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९ अर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा रथोत्तमम् । आरुरोह महाबाहू रामः सत्यपराक्रमः ॥ २० सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती । स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१ वराभरणसम्पन्ना ययुस्ताः शुभकुण्डलाः । सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२ अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये । पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३ अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः । मन्त्रयन्रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४ सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः । कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २५ इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम् । नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६ हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः । प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७ जग्राह भरतो रश्मीञशत्रुघ्नश्छत्रमाददे । लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् ॥ २८ श्वेतं च वालव्यजनं जग्राह पुरतः स्थितः । अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ २९ ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः । स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ ३० ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् । आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ ३१ नवनागसहस्राणि ययुरास्थाय वानराः । मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२ शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः । प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३३ ददृशुस्ते समायान्तं राघवं सपुरस्सरम् । विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः । अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५ अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः । श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६ स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः । प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७ अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः । नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८ सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे । वानराणां च तत्कर्म राक्षसानां च तद्बलम् । विभीषणस्य सम्योगमाचचक्षे च मन्त्रिणाम् ॥ ३९ श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४० द्युतिमानेतदाख्याय रामो वानरसंवृतः । हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ४१ ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ॥ ४२ ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४३ अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् । अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४४ पितुर्भवनमासाद्य प्रविश्य च महात्मनः । कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४५ यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् । मुक्तावैडूर्यसङ्कीर्णं सुग्रीवाय निवेदय ॥ ४६ तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः । पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४७ ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च । गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४८ उवाच च महातेजाः सुग्रीवं राघवानुजः । अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४९ सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् । ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ५० यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् । पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५१ एवमुक्ता महात्मानो वानरा वारणोपमाः । उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ५२ जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः । ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५३ नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४ पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् । सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् ॥ ५५ ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् । रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ ५६ गवयः पश्चिमात्तोयमाजहार महार्णवात् । रत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ ५७ उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः । आजहार स धर्मात्मा नलः सर्वगुणान्वितः ॥ ५८ ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् । अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह । पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ ५९ ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह । रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥ ६० वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ ६१ अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६२ ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा । योधैश्चैवाभ्यषिञ्चंस्ते सम्प्रहृष्टाः सनैगमैः ॥ ६३ सर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः । चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः ॥ ६४ ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् । अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६५ तस्यान्ववाये राजानः क्रमाद्येनाभिषेचिताः । सभायां हेमक्लुप्तायां शोभितायां महाजनैः । रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः ॥ ६६ नानारत्नमये पीठे कल्पयित्वा यथाविधि । किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना । ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥ ६७ छत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् । श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः । अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ ६८ मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् । राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६९ सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् । मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ७० प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः । अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ ७१ भूमिः सस्यवती चैव फलवन्तश्च पादपाः । गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥ ७२ सहस्रशतमश्वानां धेनूनां च गवां तथा । ददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः ॥ ७३ त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः । नानाभरणवस्त्राणि महार्हाणि च राघवः ॥ ७४ अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् । सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ७५ वैडूर्यमणिचित्रे च वज्ररत्नविभूषिते । वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ ७६ मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् । सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥ ७७ अरजे वाससी दिव्ये शुभान्याभरणानि च । अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ ७८ अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी । अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७९ तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् । प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि । पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥ ८० ददौ सा वायुपुत्राय तं हारमसितेक्षणा । हनुमांस्तेन हारेण शुशुभे वानरर्षभः । चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाऽचलः ॥ ८१ ततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः । सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥ ८२ सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः । वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ८३ विभीषणोऽथ सुग्रीवो हनुमान् जाम्बवांस्तथा । सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८४ यथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः । प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ८५ नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः । विसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥ ८६ सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् । पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम् ॥ ८७ रामेण सर्वकामैश्च यथार्हं प्रतिपूजितः । लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥ ८८ स राज्यमखिलं शासन्निहतारिर्महायशाः । राघवः परमोदारः शशास परया मुदा ॥ ८९ उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ९० आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन । तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व ॥ ९१ सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् । नियुज्यमानोऽपि च यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ९२ पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् । अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥ ९३ राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः । शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥ ९४ आजानुलम्बबाहुः स महास्कन्धः प्रतापवान् । लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ ९५ राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् । ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ९६ न पर्यदेवन्विधवा न च व्यालकृतं भयम् । न व्याधिजं भयं वाऽपि रामे राज्यं प्रशासति ॥ ९७ निर्दस्युरभवल्लोको नानर्थः कं‍चिदस्पृशत् । न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९८ सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् । राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥ ९९ आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः । निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ १०० रामो रामो राम इति प्रजानामभवन्कथाः । रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ १०१ नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः । काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ १०२ ब्राह्मणः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः । स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०३ आसन्प्रजा धर्मरता रामे शासति नानृताः । सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः ॥ १०४ दश वर्षसहस्राणि दश वर्षशतानि च । भ्रातृभिः सहितः श्रीमान्रामो राज्यमकारयत् ॥ १०५ ॥ रामायण फलश्रुति ॥ धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् । आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् । यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ १०६ पुत्रकामस्तु पुत्रान्वै धनकामो धनानि च । लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥ १०७ महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति । राघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ १०८ भरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः । भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः ॥ १०९ श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति । रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥ ११० शृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम् । श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥ १११ समागमं प्रवासान्ते लभते चापि बान्धवैः । प्रार्थितांश्च वरान्सर्वान्प्राप्नुयादिह राघवात् ॥ ११२ श्रवणेन सुराः सर्वे प्रीयन्ते सं‍प्रशृण्वताम् । विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ ११३ विजयेत महीं राजा प्रवासी स्वस्तिमान्व्रजेत् । स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥ १.१४ पूजयंश्च पठंश्चेममितिहासं पुरातनम् । सर्वपापात्प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ११५ प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् । ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ ११६ रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा । प्रीयते सततं रामः स हि विष्णुः सनातनः ॥ ११७ आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः । साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ॥ ११८ कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च । शृत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ ११९ आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं सुखं च । श्रोतव्यमेतन्नियमेन सद्भि- -राख्यानमोजस्करमृद्धिकामैः ॥ १२० एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२१ देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा । रामायणस्य श्रवणात्तुष्यन्ति पितरस्तथा ॥ १२२ भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् । लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ १२३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे श्रीरामपट्‍टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः ॥

श्रीराम पट्‍टाभिषेक सर्गः: रामराज्य का उद्घोष एवं आध्यात्मिक परिचय

श्रीराम पट्‍टाभिषेक सर्गः महर्षि वाल्मीकि द्वारा रचित विश्व प्रसिद्ध महाकाव्य 'श्रीमद्रामायणम्' के युद्धकाण्ड (अध्याय १३१) का शिखर अंश है। यह सर्ग केवल प्रभु श्री राम के अयोध्या लौटने और उनके राज्याभिषेक की कथा नहीं है, बल्कि यह अधर्म पर धर्म की पूर्ण विजय और मानवता के लिए एक आदर्श शासन व्यवस्था 'रामराज्य' की स्थापना का ऐतिहासिक दस्तावेज है। जब १४ वर्षों का वनवास पूर्ण कर, रावण का वध कर प्रभु अयोध्या लौटते हैं, तब भरत जी द्वारा उन्हें पुनः राज्य सौंपने का दृश्य अत्यंत भावुक और प्रेरणादायी है।

अध्यात्म की दृष्टि से, श्रीराम का अभिषेक केवल एक राजा का राज्यारोहण नहीं है, बल्कि यह हमारे भीतर सोई हुई चेतना (श्री राम) के जाग्रत होने और अहंकार (रावण) के विनाश के बाद हृदय के सिंहासन पर धर्म की पुनर्स्थापना का प्रतीक है। इस सर्ग में वर्णित १२३ श्लोक हमें उस भव्यता का अनुभव कराते हैं जिसमें ऋषि वसिष्ठ, वामदेव, जाबालि और अन्य मुनियों ने पवित्र नदियों के जल से प्रभु का अभिषेक किया। यह पाठ किसी भी साधक के जीवन में 'मङ्गल' और 'विजय' का संचार करने वाला माना गया है।

वाल्मीकि रामायण के इस अध्याय में प्रकृति की प्रसन्नता का भी वर्णन है। कहा गया है कि जब राम का अभिषेक हुआ, तब पृथ्वी सस्यश्यामला हो गई, वृक्ष फलों से लद गए और वायु सुगंधित हो गई। यह दर्शाता है कि जब एक न्यायप्रिय और धर्मपरायण राजा शासन करता है, तो संपूर्ण प्रकृति भी उसका साथ देती है। यही वह अध्याय है जहाँ प्रभु हनुमान जी को अपना अनमोल मुक्ताहार (सीता जी के माध्यम से) प्रदान करते हैं, जो उनके अटूट प्रेम का प्रतीक है।

रामराज्य की विशिष्टता एवं दार्शनिक महत्व (Significance)

अध्याय के उत्तरार्ध (श्लोक ९७-१०५) में 'रामराज्य' की उन विशेषताओं का वर्णन है जो आज भी वैश्विक राजनीति और समाजशास्त्र के लिए एक स्वर्ण मानक (Gold Standard) हैं। रामराज्य की प्रमुख विशेषताएं निम्नलिखित हैं:

  • भय मुक्ति: 'न च व्यालकृतं भयम्' — राम के राज्य में न हिंसक पशुओं का भय था, न ही व्याधियों (बीमारियों) का। प्रजा पूरी तरह सुरक्षित और स्वस्थ थी।
  • अकाल मृत्यु का अभाव: उस समय कोई भी वृद्ध अपने बालक का अंत्येष्टि संस्कार नहीं करता था, अर्थात अकाल मृत्यु या बाल मृत्यु शून्य थी।
  • धर्मपरायणता: 'सर्वो धर्मपरोऽभवत्' — समाज का प्रत्येक व्यक्ति अपने-अपने धर्म (कर्तव्य) का पालन कर रहा था, जिससे चोरी और लूटपाट (निर्दस्यु) पूरी तरह समाप्त हो गई थी।
  • प्राकृतिक समृद्धि: बादल समय पर वर्षा करते थे और वृक्षों में हमेशा फल और फूल लगे रहते थे। यह पर्यावरण और मनुष्य के बीच संतुलित संबंध को दर्शाता है।
  • समानता और सुख: समाज के चारों वर्ण — ब्राह्मण, क्षत्रिय, वैश्य और शूद्र — लोभ रहित होकर प्रसन्नतापूर्वक अपने कर्मों में लगे रहते थे।

दार्शनिक रूप से, श्रीराम का शासन 'कल्याणकारी राज्य' (Welfare State) की पराकाष्ठा है। इसमें राजा स्वयं को प्रजा का सेवक मानता है। यही कारण है कि हज़ारों वर्षों के बाद भी जब सुशासन की बात होती है, तो 'रामराज्य' का उदाहरण दिया जाता है।

पट्‍टाभिषेक सर्ग पाठ के लाभ एवं फलश्रुति (Benefits)

इस सर्ग की फलश्रुति (श्लोक १०६-१२३) स्वयं महर्षि वाल्मीकि ने लिखी है, जो इसके पाठ के चमत्कारी लाभों को रेखांकित करती है:

पाप मुक्ति: 'यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते' — जो व्यक्ति इस अध्याय को पढ़ता या सुनता है, वह समस्त ज्ञात-अज्ञात पापों से मुक्त हो जाता है।
मनोकामना पूर्ति: पुत्र चाहने वाले को पुत्र, धन चाहने वाले को धन और विजय चाहने वाले राजा को अटूट साम्राज्य की प्राप्ति होती है।
दुर्गाति निवारण: श्रद्धापूर्वक इसका श्रवण करने वाला व्यक्ति जीवन की कठिन से कठिन दुर्गम परिस्थितियों और बाधाओं को सरलता से पार कर लेता है।
परिवार में सुख-शांति: इसके पाठ से घर में कलह दूर होती है, कुटुम्ब और धन-धान्य की वृद्धि होती है और सदस्यों के बीच भाईचारा बढ़ता है।
आयु और आरोग्य: नियमित पाठ करने से लम्बी आयु और बेहतर स्वास्थ्य (आरोग्य) प्राप्त होता है।

पाठ विधि एवं अनुष्ठान (Ritual Method)

श्रीराम पट्‍टाभिषेक सर्ग का पाठ अत्यंत पवित्रता के साथ किया जाना चाहिए। इसका अनुष्ठान विशेष अवसरों पर और अधिक फलदायी होता है:

  • ब्रह्म मुहूर्त: प्रातःकाल स्नान के पश्चात राम दरबार (राम, सीता, लक्ष्मण और हनुमान) की प्रतिमा के सम्मुख पाठ करें।
  • राम नवमी: चैत्र नवरात्रि की नवमी तिथि पर इस सर्ग का पाठ और १०८ नामों का हवन विशेष सिद्धि प्रदान करता है।
  • विवाह पंचमी: प्रभु राम और सीता जी के विवाह के उपलक्ष्य में इसका पाठ सौभाग्य प्रदायक है।
  • संकल्प: पाठ से पूर्व आचमन और प्राणायाम करें। हाथ में जल लेकर अपनी मनोकामना का संकल्प लें।
  • पूर्णता: रामायण के किसी भी पाठ के अंत में यह सर्ग पढ़ना अनिवार्य माना गया है ताकि पाठ की पूर्णता हो सके।

पाठ के दौरान प्रभु राम को 'राज्याभिषिक्त' रूप में ध्यान करें — स्वर्ण मुकुट धारण किए हुए, हाथ में धनुष-बाण, बगल में सीता जी और चरणों में वीर हनुमान।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्रीराम पट्‍टाभिषेक सर्ग रामायण के किस काण्ड में आता है?

यह वाल्मीकि रामायण के युद्धकाण्ड का १३१वां (अंतिम) सर्ग है। कुछ संस्करणों में इसे १२८वां सर्ग भी कहा गया है।

2. इस पाठ को 'मङ्गलकारी' क्यों माना जाता है?

क्योंकि इसमें प्रभु राम के वनवास के कष्टों के अंत और सुखद शासन के आरम्भ का वर्णन है। यह जीवन के दुखों के अंत का प्रतीक है।

3. रामराज्य में लोगों की औसत आयु कितनी बताई गई है?

रामायण के अनुसार, रामराज्य में लोग हज़ारों वर्षों तक जीवित रहते थे और पूर्णतः रोगमुक्त (निरामया) थे।

4. क्या इस सर्ग का पाठ करने से शत्रु विजय मिलती है?

जी हाँ, फलश्रुति के श्लोक १०८ में स्पष्ट है कि इसका श्रवण करने वाला राजा अपने शत्रुओं पर विजय प्राप्त करता है।

5. प्रभु राम ने हनुमान जी को क्या उपहार दिया था?

अभिषेक के पश्चात, प्रभु राम की आज्ञा से सीता जी ने हनुमान जी को अपनी गर्दन से उतारकर वह दिव्य मुक्ताहार (मोतियों की माला) भेंट की थी।

6. अभिषेक के लिए जल कहाँ से लाया गया था?

हनुमान जी, जाम्बवान, ऋषभ और अन्य वानर वीरों द्वारा चारों दिशाओं के समुद्रों (पूर्व, पश्चिम, उत्तर, दक्षिण) और ५०० पवित्र नदियों का जल लाया गया था।

7. क्या स्त्रियों के लिए यह पाठ लाभदायक है?

हाँ, श्लोक १०९ के अनुसार, जो स्त्रियाँ इस पाठ को सुनती हैं, वे सुमित्रा और कैकेयी की तरह सौभाग्यवती और पुत्र-पौत्रों से युक्त होती हैं।

8. रामराज्य में धर्म की क्या स्थिति थी?

रामराज्य में कोई भी व्यक्ति झूठ (अनृताः) नहीं बोलता था और सभी लोग धर्मपरायण थे। समाज में परस्पर द्वेष का अभाव था।

9. क्या यह पाठ घर की कलह दूर करता है?

निश्चित रूप से। इसमें भरत जी के त्याग और भ्रातृ-प्रेम का वर्णन है, जो परिवार के सदस्यों के बीच सौहार्द बढ़ाता है।

10. इसे कितनी बार पढ़ना चाहिए?

नित्य एक बार पाठ करना पर्याप्त है, लेकिन विशेष कामनाओं के लिए अनुष्ठान के रूप में १०८ बार पाठ किया जा सकता है।