Logoपवित्र ग्रंथ

Sri Lalitha Upanishad – श्री ललितोपनिषत्

Sri Lalitha Upanishad – श्री ललितोपनिषत्
श्रीललितात्रिपुरसुन्दर्यै नमः । ओं परमकारणभूता शक्तिः केन नवचक्ररूपो देहः । नवचक्रशक्तिमयं श्रीचक्रम् वाराहीपितृरूपा कुरुकुल्ला बलिदेवता माता । । पुरुषार्थाः सागराः । देहो नवरत्ने द्वीपः । आधारनवकमुद्राः शक्तयः । त्वगादिसप्तधातुभिरनेकैः सम्युक्ताः सङ्कल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् ॥ रसनया भासमाना मधुराम्लतिक्तकटुकषायलवणरसाः षड्रसाः । क्रियाशक्तिः पीठं कुण्डलिनी ज्ञानशक्तिरहमिच्छाशक्तिः । महात्रिपुरसुन्दरी ज्ञाता होता । ज्ञानमर्ध्यं ज्ञेयं हविः ज्ञातृज्ञानज्ञेयानां नमोभेदभावनं श्रीचक्रपूजनम् ॥ नियतिसहितशृङ्गारादयो नवरसाः । अणिमादयः कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्यादयोऽष्टशक्तयः । आधारनवकमुद्रा शक्तयः । पृथ्व्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वा-प्राणवाक्पाणिपादपायूपस्थमनोविकाराः षोडशशक्तयः । वचनादानगमनविसर्गानन्दादानोपादानोपेक्षा-बुद्धयोऽनङ्गकुसुमादिशक्तयोऽष्टौ । अलम्बुषाकुहूविश्वोदरीवरुणाहस्तिजिह्वायशस्विनी- गान्धारीपूषासरस्वतीडापिङ्गलासुषुम्ना चेति चतुर्दशनाडयः सर्वसङ्क्षोभिण्यादिचतुर्दशारदेवताः ॥ प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जया दशवायवः सर्वसिद्धिप्रदादि बहिर्दशारदेवताः । एतद्वायुदशकसंसर्गोपाधिभेदेन रेचकपूरकपोषकदाहकाल्पावकामृतमिति प्राणः सङ्ख्यत्वेन पञ्चविधोऽस्ति । जठराग्निर्मनुष्याणां मोहको भक्ष्यभोज्यलेह्यचोष्यात्मकं चतुर्विधमन्नं पाचयति । तदा काशवान्सकलाः सर्वज्ञत्वाद्यन्तर्दशारदेवताः ॥ शीतोष्णसुखदुःखेच्छासत्वरजस्तमोगुणादय वशिन्यादिशक्तयोऽष्टौ । शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्चपुष्पबाणा मन इक्षुधनुर्वल्यो बाणो रागः पाशो द्वेषोऽङ्कुशः । अव्यक्तमहत्तत्त्वाहङ्कारकामेश्वरीवज्रेश्वरी-भगमालिन्योऽन्तस्त्रिकोणाग्रदेवताः ॥ पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनपञ्चदशनित्याः शुद्धानुरुपाधिदेवताः । निरुपाधिसार्वदेवकामेश्वरी सदाऽऽनन्दपूर्णा । स्वात्म्यैक्यरूपललिताकामेश्वरी सदाऽऽनन्दघनपूर्णा स्वात्मैक्यरूपा देवता ललितामिति ॥ साहित्यकरणं सत्त्वम् । कर्त्तव्यमकर्त्तव्यमिति भावनामुक्ता उपचाराः । अहं त्वमस्ति नास्ति कर्त्तव्याकर्त्तव्यमुपासितव्यानुपासितव्यमिति विकल्पना । मनोविलापनं होमः ॥ बाह्याभ्यन्तरकरणानां रूपग्रहणयोग्यतास्तीत्यावाहनम् । तस्य बाह्याभ्यन्तरकरणानामेकरूपविषयग्रहणमासनम् । रक्तशुक्लपदैकीकरणं पाद्यम् । उज्ज्वलदामोदाऽऽनन्दात्सानन्दनमर्घ्यम् । स्वच्छास्वतः शक्तिरित्याचमनम् । चिच्चन्द्रमयीस्मरणं स्नानम् । चिदग्निस्वरूपपरमानन्दशक्तिस्मरणं वस्त्रम् । प्रत्येकं सप्तविंशतिधाभिन्नत्वेन इच्छाक्रियात्मकब्रह्मग्रन्थिमयी सतन्तुब्रह्मनाडी ब्रह्मसूत्रं सव्यातिरिक्तवस्त्रम् । सङ्गरहितं स्मरणं विभूषणम् । स्वच्छन्दपरिपूर्णस्मरणं गन्धः । समस्तविषयाणां मनःस्थैर्येणानुसन्धानं कुसुमम् । तेषामेव सर्वदा स्वीकरणं धूपः । पवनाच्छिन्नोर्ध्वज्वालासच्चिदाह्लादाकाशदेहो दीपः । समस्तयातायातवर्जनं नैवेद्यम् । अवस्थात्रयैकीकरणं ताम्बूलम् । मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रादामूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम् । तुरीयावस्थानं संस्कारदेहशून्यं प्रमादितावतिमज्जनं बलिहरणम् । सत्त्वमस्ति कर्त्तव्यमकर्त्तव्यमौदासीन्यमात्मविलापनं होमः । भावनाविषयाणामभेदभावना तर्पणम् । स्वयं तत्पादुकानिमज्जनं परिपूर्णध्यानम् ॥ एवं मूर्तित्रयं भावनया युक्तो मुक्तो भवति । तस्य देवतात्मैक्यसिद्धिश्चितिकार्याण्यप्रयत्नेन सिध्यन्ति स एव शिवयोगीति कथ्यते ॥ इति श्रीललितोपनिषत्सम्पूर्णा ।

श्री ललितोपनिषत् - परिचय

श्री ललितोपनिषत् माँ ललिता त्रिपुरसुन्दरी को समर्पित है। माँ ललिता "श्रीविद्या" की अधिष्ठात्री देवी हैं। इनकी उपासना से साधक को धर्म, अर्थ, काम और मोक्ष चारों पुरुषार्थों की प्राप्ति होती है।

पाठ के लाभ (Benefits)

  • ऐश्वर्य प्राप्ति: माँ ललिता की कृपा से सुख, समृद्धि और राजयोग मिलता है।
  • सौंदर्य और आरोग्य: साधक को शारीरिक कांति और निरोगी काया प्राप्त होती है।
  • शत्रु नाश: समस्त बाधाओं और शत्रुओं का शमन होता है।
  • ब्रह्मज्ञान: अंततः साधक को आत्मज्ञान और मोक्ष की प्राप्ति होती है।

पाठ विधि (Recitation Method)

  • समय: प्रातःकाल या रात्रि (विशेषकर शुक्रवार और पूर्णिमा) को पाठ करना श्रेयस्कर है।
  • आसन: लाल आसन पर बैठकर, पूर्वाभिमुख होकर पाठ करें।
  • शुद्धि: स्नान कर लाल वस्त्र धारण करें और कुमकुम का तिलक लगाएं।
  • नैवेद्य: देवी को खीर, मिश्री या फलों का भोग लगाएं।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. श्री ललितोपनिषत् का पाठ किस तिथि को करना चाहिए?

शुक्रवार (Friday), पूर्णिमा और नवरात्रि के दिनों में इसका पाठ विशेष फलदायी होता है।

2. क्या बिना दीक्षा के श्रीविद्या उपासना की जा सकती है?

सामान्य स्तोत्र पाठ (जैसे ललिता सहस्रनाम) भक्ति भाव से कोई भी कर सकता है, परन्तु बीज मंत्रों का जप गुरु दीक्षा के बाद ही करना चाहिए।