Logoपवित्र ग्रंथ

Sri Lalitha Trisati Stotram Uttarapeetika – श्री ललिता त्रिशती स्तोत्रम् – उत्तर पीठिका (फलश्रुतिः)

Sri Lalitha Trisati Stotram Uttarapeetika – श्री ललिता त्रिशती स्तोत्रम् – उत्तर पीठिका (फलश्रुतिः)
हयग्रीव उवाच । इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् । रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥ १ ॥ शिववर्णानि नामानि श्रीदेव्या कथितानि हि । शक्त्यक्षराणि नामानि कामेशकथितानि च ॥ २ ॥ उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै । तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ ३ ॥ नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् । लोकत्रयेऽपि कल्याणं सम्भवेन्नात्र संशयः ॥ ४ ॥ सूत उवाच । इति हयमुखगीतं स्तोत्रराजं निशम्य प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य । निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ ५ ॥ अगस्त्य उवाच । अश्वानन महाभाग रहस्यमपि मे वद । शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ ६ ॥ उभयोरपि वर्णानि कानि वा वद देशिक । इति पृष्टः कुम्भजेन हयग्रीवोऽवदत्पुनः ॥ ७ ॥ हयग्रीव उवाच । तव गोप्यं किमस्तीह साक्षादम्बानुशासनात् । इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुम्भज ॥ ८ ॥ एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् । कत्रयं हद्वयं चैव शैवो भागः प्रकीर्तितः ॥ ९ ॥ शक्त्यक्षराणि शेषाणि ह्रीङ्कार उभयात्मकः । एवं विभागमज्ञात्वा ये विद्याजपशालिनः ॥ १० ॥ न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि । चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ॥ ११ ॥ नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः । त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥ १२ ॥ चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च । बिन्दुश्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् ॥ १३ ॥ चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् । त्रिकोणे बैन्दवं श्लिष्टं अष्टारेऽष्टदलाम्बुजम् ॥ १४ ॥ दशारयोः षोडशारं भूगृहं भुवनाश्रके । शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥ १५ ॥ अविनाभावसम्बन्धं यो जानाति स चक्रवित् । त्रिकोणरूपिणी शक्तिर्बिन्दुरूपपरः शिवः ॥ १६ ॥ अविनाभावसम्बन्धं तस्माद्बिन्दुत्रिकोणयोः । एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ १७ ॥ न तत्फलमवाप्नोति ललिताम्बा न तुष्यति । ये च जानन्ति लोकेऽस्मिन् श्रीविद्याचक्रवेदिनः ॥ १८ ॥ सामन्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः । स्वयंविद्याविशेषज्ञो विशेषज्ञं समर्चयेत् ॥ १९ ॥ तस्मै देयं ततो ग्राह्यमशक्तस्तस्य दापयेत् । अन्धं तमः प्रविशन्ति येऽविद्यां समुपासते ॥ २० ॥ इति श्रुतिरपाहैतानविद्योपासकान्पुनः । विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुतिः ॥ २१ ॥ अश्रुता सश्रुतासश्च यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निं च ये विदुः ॥ २२ ॥ सिकता इव सम्यन्ति रश्मिभिः समुदीरिताः । अस्माल्लोकादमुष्माच्चेत्याह चारण्यकश्रुतिः ॥ २३ ॥ यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम् । तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥ २४ ॥ इति मन्त्रेषु बहुधा विद्याया महिमोच्यते । मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ २५ ॥ न शिल्पादिज्ञानयुक्ते विद्वच्छब्धः प्रयुज्यते । मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ २६ ॥ तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते । स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥ २७ ॥ स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यवेद्यपि । विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥ २८ ॥ प्रसङ्गादिदमुक्तं ते प्रकृतं शृणु कुम्भज । यः कीर्तयेत्सकृद्भक्त्या दिव्यनामशतत्रयम् ॥ २९ ॥ तस्य पुण्यमहं वक्ष्ये शृणु त्वं कुम्भसम्भव । रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ ३० ॥ तत्फलं कोटिगुणितमेकनामजपाद्भवेत् । कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ ३१ ॥ नान्येन तुलयेदेतत् स्तोत्रेणान्यकृतेन च । श्रियः परम्परा यस्य भावि वा चोत्तरोत्तरम् ॥ ३२ ॥ तेनैव लभ्यते चैतत्पश्चाच्छ्रेयः परीक्षयेत् । अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ॥ ३३ ॥ या स्वयं शिवयोर्वक्त्रपद्माभ्यां परिनिःसृता । नित्यं षोडशसङ्ख्याकान्विप्रानादौ तु भोजयेत् ॥ ३४ ॥ अभ्यक्तांस्तिलतैलेन स्नातानुष्णेन वारिणा । अभ्यर्च्य गन्धपुष्पाद्यैः कामेश्वर्यादिनामभिः ॥ ३५ ॥ सूपापूपैः शर्कराद्यैः पायसैः फलसम्युतैः । विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् ॥ ३६ ॥ एवं नित्यार्चनं कुर्यादादौ ब्राह्मणभोजनम् । त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् ॥ ३७ ॥ तैलाभ्यङ्गादिकं दत्वा विभवे सति भक्तितः । शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ ३८ ॥ दिवसे दिवसे विप्रा भोज्या विंशतिसङ्ख्यया । दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा दिनैः ॥ ३९ ॥ त्रिंशत्षष्टिः शतं विप्राः सम्भोज्यास्त्रिशतं क्रमात् । एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥ ४० ॥ तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा । रहस्यनामसाहस्रभोजनेऽप्येवमेव हि ॥ ४१ ॥ आदौ नित्यबलिं कुर्यात्पश्चाद्ब्राह्मणभोजनम् । रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ ४२ ॥ स शीकराणुरत्नैकनाम्नो महिमवारिधेः । वाग्देवीरचिते नामसाहस्रे यद्यदीरितम् ॥ ४३ ॥ तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् । एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ ४४ ॥ तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् । वाग्देवीरचिते स्तोत्रे तादृशो महिमा यदि ॥ ४५ ॥ साक्षात्कामेशकामेशीकृतेऽस्मिन्गृह्यतामिति । सकृत्सङ्कीर्तनादेव नाम्नामस्मिन् शतत्रये ॥ ४६ ॥ भवेच्चित्तस्य पर्याप्तिर्न्यूनमन्यानपेक्षिणी । न ज्ञातव्यमितोऽप्यन्यत्र जप्तव्यं च कुम्भज ॥ ४७ ॥ यद्यत्साध्यतमं कार्यं तत्तदर्थमिदं जपेत् । तत्तत्फलमवाप्नोति पश्चात्कार्यं परीक्षयेत् ॥ ४८ ॥ ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् । तत्सर्वं सिध्यति क्षिप्रं नामत्रिशतकीर्तनात् ॥ ४९ ॥ आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् । विद्याप्रदं कीर्तिकरं सुकवित्वप्रदायकम् ॥ ५० ॥ सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम् । सर्वाभीष्टप्रदं चैव देव्या नामशतत्रयम् ॥ ५१ ॥ एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन । एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका ॥ ५२ ॥ भक्तस्य यद्यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् । तस्मात्कुम्भोद्भव मुने कीर्तय त्वमिदं सदा ॥ ५३ ॥ नापरं किञ्चिदपि ते बोद्धव्यमवशिष्यते । इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ॥ ५४ ॥ नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन । न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥ ५६ ॥ यो ब्रूयात्त्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् । इत्याज्ञा शाङ्करी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥ ५७ ॥ ललिताप्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् । रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ ५८ ॥ सूत उवाच । एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् । स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम् । आनन्दलहरीमग्नमानसः समवर्तत ॥ ५९ ॥ इति ब्रह्माण्डपुराणे उत्तरखण्डे हयग्रीवागस्त्यसंवादे ललितोपाख्याने स्तोत्रखण्डे श्रीललितात्रिशतीस्तोत्ररत्नम् ।

श्री ललिता त्रिशती स्तोत्रम् - परिचय

श्री ललिता त्रिशती स्तोत्रम् माँ ललिता त्रिपुरसुन्दरी को समर्पित है। माँ ललिता "श्रीविद्या" की अधिष्ठात्री देवी हैं। इनकी उपासना से साधक को धर्म, अर्थ, काम और मोक्ष चारों पुरुषार्थों की प्राप्ति होती है।

पाठ के लाभ (Benefits)

  • ऐश्वर्य प्राप्ति: माँ ललिता की कृपा से सुख, समृद्धि और राजयोग मिलता है।
  • सौंदर्य और आरोग्य: साधक को शारीरिक कांति और निरोगी काया प्राप्त होती है।
  • शत्रु नाश: समस्त बाधाओं और शत्रुओं का शमन होता है।
  • ब्रह्मज्ञान: अंततः साधक को आत्मज्ञान और मोक्ष की प्राप्ति होती है।

पाठ विधि (Recitation Method)

  • समय: प्रातःकाल या रात्रि (विशेषकर शुक्रवार और पूर्णिमा) को पाठ करना श्रेयस्कर है।
  • आसन: लाल आसन पर बैठकर, पूर्वाभिमुख होकर पाठ करें।
  • शुद्धि: स्नान कर लाल वस्त्र धारण करें और कुमकुम का तिलक लगाएं।
  • नैवेद्य: देवी को खीर, मिश्री या फलों का भोग लगाएं।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. श्री ललिता त्रिशती स्तोत्रम् का पाठ किस तिथि को करना चाहिए?

शुक्रवार (Friday), पूर्णिमा और नवरात्रि के दिनों में इसका पाठ विशेष फलदायी होता है।

2. क्या बिना दीक्षा के श्रीविद्या उपासना की जा सकती है?

सामान्य स्तोत्र पाठ (जैसे ललिता सहस्रनाम) भक्ति भाव से कोई भी कर सकता है, परन्तु बीज मंत्रों का जप गुरु दीक्षा के बाद ही करना चाहिए।