Sri Lalitha Sahasranama Stotram Poorvapeetika – श्री ललिता सहस्रनाम स्तोत्रम् – पूर्वपीठिका

अगस्त्य उवाच ।
अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।
कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥ १ ॥
पूर्वं प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम् ।
भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥ २ ॥
वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।
श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा ॥ ३ ॥
षोढान्यासादयो न्यासाः न्यासखण्डे समीरिताः ।
अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ॥ ४ ॥
महायागक्रमश्चैव पूजाखण्डे प्रकीर्तिताः । [समीरितः]
पुरश्चरणखण्डे तु जपलक्षणमीरितम् ॥ ५ ॥
होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।
चक्रराजस्य विद्यायाः श्रीदेव्या देशिकात्मनोः ॥ ६ ॥
रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ ७ ॥
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।
न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ ८ ॥
तत्र मे संशयो जातो हयग्रीव दयानिधे ।
किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ॥ ९ ॥
मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् ।
किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ १० ॥
सूत उवाच ।
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ॥ ११ ॥
श्रीहयग्रीव उवाच ।
लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु ।
नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ १२ ॥
रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यथा ।
पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ १३ ॥
ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।
भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ १४ ॥
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ।
श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥ १५ ॥
उपासकाय शुद्धाय देयं नामसहस्रकम् ।
यानि नामसहस्राणि सद्यः सिद्धिप्रदानि वै ॥ १६ ॥
तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने ।
श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥ १७ ॥
पुराणां श्रीपुरमिव शक्तीनां ललिता तथा ।
श्रीविद्योपासकानां च यथा देवो परः शिवः ॥ १८ ॥
तथा नामसहस्रेषु परमेतत्प्रकीर्तितम् ।
यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ १९ ॥
अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।
श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ २० ॥
बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् ।
पद्मैर्वा तुलसीपुष्पैरेभिर्नामसहस्रकैः ॥ २१ ॥ [पत्रैः]
सद्यः प्रसादं कुरुते तस्य सिंहासनेश्वरी ।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२ ॥
जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
जपपूजाद्यशक्तश्चेत्पठेन्नामसहस्रकम् ॥ २३ ॥
साङ्गार्चने साङ्गजपे यत्फलं तदवाप्नुयात् ।
उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥ २४ ॥
इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् ।
चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥ २५ ॥
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ २६ ॥
तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसम्भव ।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ २७ ॥
वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् ।
वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम ॥ २८ ॥
भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।
मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ २९ ॥
मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥ ३० ॥
कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ ३१ ॥
इत्याज्ञप्तास्ततो देव्यः श्रीदेव्या ललिताम्बया ।
रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ॥ ३२ ॥
रहस्यनामसाहस्रमिति तद्विश्रुतं परम् ।
ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ ३३ ॥
स्वसेवावसरं प्रादात्सर्वेषां कुम्भसम्भव ।
सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः ॥ ३४ ॥
लक्ष्मीनारायणानां च कोटयः समुपागताः ।
गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ ३५ ॥
मन्त्रिणीदण्डिनीमुख्याः सेवार्थं यः समागताः ।
शक्तयो विविधाकारास्तासां सङ्ख्या न विद्यते ॥ ३६ ॥
दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः ।
तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ ३७ ॥
तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।
तत्र श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥ ३८ ॥
उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ॥ ३९ ॥
श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।
ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्थिताः ॥ ४० ॥
ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।
देव्युवाच ।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥ ४१ ॥
अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः ।
तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ॥ ४२ ॥
प्रवर्तयध्वं भक्तेषु मम नामसाहस्रकम् ।
इदं नामसहस्रं मे यो भक्तः पठते सकृत् ॥ ४३ ॥
स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ।
श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ ४४ ॥
पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये ।
मामर्चयतु वा मा वा विद्यां जपतु वा न वा ॥ ४५ ॥
कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा ।
मत्प्रीत्या सकलान्कामांल्लभते नात्र संशयः ॥ ४६ ॥
तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् ।
श्रीहयग्रीव उवाच ।
इति श्रीललितेशानी शास्ति देवान् सहानुगान् ॥ ४७ ॥
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ ४८ ॥
पठन्ति भक्त्या सततं ललितापरितुष्टये ।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥ ४९ ॥
आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर ।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥ ५० ॥
इति श्रीब्रह्माण्डपुराणे हयग्रीवागस्त्यसंवादे ललितासहस्रनामपूर्वभागो नाम प्रथमोऽध्यायः ॥
_** >>**_
श्री ललिता सहस्रनाम स्तोत्रम् - परिचय
श्री ललिता सहस्रनाम स्तोत्रम् माँ ललिता त्रिपुरसुन्दरी को समर्पित है। माँ ललिता "श्रीविद्या" की अधिष्ठात्री देवी हैं। इनकी उपासना से साधक को धर्म, अर्थ, काम और मोक्ष चारों पुरुषार्थों की प्राप्ति होती है।
पाठ के लाभ (Benefits)
- ऐश्वर्य प्राप्ति: माँ ललिता की कृपा से सुख, समृद्धि और राजयोग मिलता है।
- सौंदर्य और आरोग्य: साधक को शारीरिक कांति और निरोगी काया प्राप्त होती है।
- शत्रु नाश: समस्त बाधाओं और शत्रुओं का शमन होता है।
- ब्रह्मज्ञान: अंततः साधक को आत्मज्ञान और मोक्ष की प्राप्ति होती है।
पाठ विधि (Recitation Method)
- समय: प्रातःकाल या रात्रि (विशेषकर शुक्रवार और पूर्णिमा) को पाठ करना श्रेयस्कर है।
- आसन: लाल आसन पर बैठकर, पूर्वाभिमुख होकर पाठ करें।
- शुद्धि: स्नान कर लाल वस्त्र धारण करें और कुमकुम का तिलक लगाएं।
- नैवेद्य: देवी को खीर, मिश्री या फलों का भोग लगाएं।
FAQ - अक्सर पूछे जाने वाले प्रश्न
1. श्री ललिता सहस्रनाम स्तोत्रम् का पाठ किस तिथि को करना चाहिए?
शुक्रवार (Friday), पूर्णिमा और नवरात्रि के दिनों में इसका पाठ विशेष फलदायी होता है।
2. क्या बिना दीक्षा के श्रीविद्या उपासना की जा सकती है?
सामान्य स्तोत्र पाठ (जैसे ललिता सहस्रनाम) भक्ति भाव से कोई भी कर सकता है, परन्तु बीज मंत्रों का जप गुरु दीक्षा के बाद ही करना चाहिए।