Logoपवित्र ग्रंथ

Shri Durga Saptashati Sahasranama Stotram – श्रीदुर्गासप्तशतीसहस्रनामस्तोत्रम्

Shri Durga Saptashati Sahasranama Stotram – श्रीदुर्गासप्तशतीसहस्रनामस्तोत्रम्
॥ श्रीदुर्गासप्तशतीसहस्रनामस्तोत्रम् ॥ ॥ ॐ नमस्तस्यै ॥ ॐ अम्बा कात्यायनी काली कमला करुणामयी । अतुला कालिका कृष्णा कल्याणी कामरूपिणी ॥ १॥ अर्धमात्रास्थिता कर्त्री कालातीता कलाघरी । अनुच्चार्या च कामाक्षी क्रुद्धा कैटभहारिणी ॥ २॥ अनायस्तानना ख्यातिः कान्तिरूपाऽतिसुन्दरी । अम्बिका कामधेनुश्च कामदा चाखिलात्मिका ॥ ३॥ अरविन्दस्थिता पद्मा कुञ्जिका करुणा कृतिः । अरुणा चारूणक्षौमा कुपिताऽरुणलोचना ॥ ४॥ अखिलदेवपूज्या च कमला कनकाम्बरा । अलक्ष्मीः कालरात्रिश्च कूष्माण्डा कालरूपिणी ॥ ५॥ अपारा कीर्तिता गौरी कौमारी करुणार्णवा । अव्याकृता जगन्मूर्तिश्चाविचिन्त्यमहाव्रता ॥ ६॥ अखिलशास्त्रसारा च देवी कारुण्यरूपिणी । अवतारत्रयाऽसङ्गा दुर्गा कामफलप्रदा ॥ ७॥ अतिसाधुमतिर्जाया जयन्ती चापराजिता । अपराऽतुल्यरूपा च नित्याऽसुरनिबर्हिणी ॥ ८॥ असुरवीर्यहन्त्री च नारी कनकभूषणा । आद्याऽतिहारिरूपा च किरीटिनी कुलेश्वरी ॥ ९॥ अतिसौम्याऽतिरौद्रा च कनकोत्तमभूषणा । अतिशुद्धगुणाऽभेद्या चानुपमपराक्रमा ॥ १०॥ अयोनिजाऽतिचार्वङ्गी कामिकाऽभीष्टसंश्रया । विस्तारवदनाऽनन्ता कोपवत्यतिभीषणा ॥ ११॥ अणिमादिमयूखाप्ता कामिनी चामलानना । अर्धाम्बिकेशरूपा च कालाभ्राभाऽसिपाशिनी ॥ १२॥ अत्युग्राऽनन्तवीर्या च कपालिन्यतिकोपना । जयाऽखिलजगन्माता कामेश्वर्यतिमानिनी ॥ १३॥ अग्निवर्णाऽद्वितीया च कौबेरी चाखिलेश्वरी । अतिरौद्रावतारा च घोरा चासुरघातिनी ॥ १४॥ अज्ञेयाऽपःस्वरूपा च किरीटोल्लिखिताम्बरा । अर्गलाऽलङ्घ्यवीर्या च ज्वलन्ती चानलात्मिका ॥ १५॥ अनजा जननी नन्दा गुह्यध्यानाऽग्निदेवता । अनघा घोररूपा च नियताऽनाथसंस्तुता ॥ १६॥ अजा गुह्यतरध्याना चारिसङ्क्षयकारिणी । अजिताऽन्तर्हिताऽलक्ष्या गुणाश्रयाऽमितप्रभा ॥ १७॥ अभिष्टुता दयारूपा चालङ्कृतचतुर्भुजा । आर्याऽमृतकलाऽविद्या नीलवर्णाञ्जनप्रभा ॥ १८॥ अचिन्त्यचरिताऽमर्त्या जगन्माताऽम्बुजासना । अष्टादशभुजाऽपर्णा चाभीष्टफलदायिका ॥ १९॥ अलङ्कृतभुजाऽतीता नन्दजाऽभयहस्तका । अष्टभुजा जगद्धात्री जगत्त्रयहितैषिणी ॥ २०॥ असमाऽऽनन्दरूपा च प्रथमाऽगोचराऽकला । अनानन्दस्वरूपाऽपि नवदुर्गाऽष्टमातृका ॥ २१॥ अनामयी ह्यविज्ञाना निराकाराऽविनाशिनी । अमलाऽब्रह्मरूपा च चण्डी चराचरेश्वरी ॥ २२॥ अपञ्चभूतरूषा च चन्द्ररेखाविभूषणा । परमाऽखिलरूपा च चण्डमुण्डविनाशिनी ॥ २३॥ चेतनाऽवेदरूपा च चण्डिका चण्डविक्रमा । उर्ध्वमधःस्वरूपा च तिर्यग्रूपा तमोगुणा ॥ २४॥ असुरनाशयित्री च चित्राभरणभूषिता । अदितिर्देवशक्तिश्च दीनत्राणपरायणा ॥ २५॥ अभयदा महागौरी महाभयविनाशिनी । अनादिश्च निराधारा नयनत्रयशोभिता ॥ २६॥ अविचला चतुर्बाहुश्चन्द्रघण्टा च चर्चिका । एकाऽभेदमयी नैका तुष्टा कल्याणशोभना ॥ २७॥ गौरीदेहसमुत्पन्ना नीलग्रीवाऽविकारिणी । कलाकाष्ठादिरूपा च चक्रिणी कृष्णसंस्तुता ॥ २८॥ कनकोत्तमकान्तिश्च चित्रघण्टाऽघहारिणी । आद्यवाक्यमयी पूज्या चार्तत्राणपरायणा ॥ २९॥ आराधिताऽऽत्ममूर्तिश्च तेजोराशिसमुद्भवा । आदिविद्याऽऽत्मशक्तिश्च तुहिनाचलसंस्थिता ॥ ३०॥ आनन्दविग्रहा तुष्टिस्तारिणी तनुमध्यमा । आदिः कनकवर्णाभा पूर्णाऽऽनन्दपयोनिधिः ॥ ३१॥ ईशाऽऽनन्दमयी ब्राह्मी ब्रह्माणीरूपधारिणी । वराऽऽपच्छमनी विद्या भद्राऽऽभरणभूषिता ॥ ३२॥ इन्दुयोग्यानना चैन्द्री दैत्यवधकृतोद्यमा । इन्दुशकलभूषा च भवती भक्तवत्सला ॥ ३३॥ इन्द्राणी चेन्दुरूपा च प्रातःसूर्यसमप्रभा । इन्दिरेन्दु किरीटा च रविचन्द्राग्निलोचना ॥ ३४॥ उग्रनृसिंहरूपा च गुणत्रयविभाविनी । ईश्वरी चैकवीरा च गौरीदेहसमुद्भवा ॥ ३५॥ उद्योतिनी महारौद्रा चेन्द्राणीपतिपूजिता । उमा चेन्दुप्रभा पत्नी परिणामप्रदायिनी ॥ ३६॥ ईषद्धासा महादेवी महामाया महेश्वरी । उन्मदा भीमरूपा च भीमादेवी च भीषणा ॥ ३७॥ उत्तमभूषणा लक्ष्मीः लोकेश्वरी च लासिनी । उदारसंस्तुता बुद्धिर्ब्रह्माणी बोधलक्षणा ॥ ३८॥ ऋद्धिदात्री रमा रौद्रा रक्तालिप्तपयोधरा । रक्तबीजवधा रुष्टा चोल्लसद्रत्नकुण्डला ॥ ३९॥ सुकर्मफलजुष्टा च कान्तिभृत्कमलालया । कौमारीरूपसंस्थाना कौशिकी कान्तिशालिनी ॥ ४०॥ कह्लाराबद्धमाला च ललिता कमलासना । करुणापूरिताक्षी च तथोत्पलविलोचना ॥ ४१॥ रुचिरोत्तमकान्तिश्च खड्गिनी खड्गधारिणी । घनस्तनी तथोत्तुङ्गस्तनी पीनपयोधरा ॥ ४२॥ ध्रुवोर्ध्वकेशिनी धूम्रा धात्री धूम्राक्षमर्दिनी । धनुर्धरी च दुर्धर्षा दुर्गा च धर्मधारिणी ॥ ४३॥ कौशाम्भःक्षरिका लज्जा लोचनत्रयभूषिता । लक्ष्यालक्ष्यस्वरूपा च लोकख्याता फलप्रदा ॥ ४४॥ करालवदना सन्ध्या क्रोधसमाकुला क्षुधा । सुकामधेनुमूर्तिश्च खड्गादिभृच्च खेचरी ॥ ४५॥ सौम्या कान्तिप्रतिष्ठा च गदिनी गुहरूपिणी । गम्भीरान्तः स्मिता सुभ्रूः स्त्रीरत्नं सुमनोहरा ॥ ४६॥ गजराजस्थिता सिद्धिः शुद्धा गरुडसंस्थिता । गुणमयी महावज्रा महाघोरपराक्रमा ॥ ४७॥ गृहीतोग्रमहाचक्रा गृहीतपरमायुधा । गृहवृद्धिप्रदा सारा सुपथा गरुडासना ॥ ४८॥ शक्तिर्गजसमारूढा सर्वसौभाग्यदायिनी । गुह्येश्वरी महाविद्या गुह्यगोप्त्री प्रकीर्तिता ॥ ४९॥ सती गम्भीरनाभिश्च चिकितुषी चतुर्भुजा । गुह्यातिगुह्यगोप्त्री च पूजिता प्रमदोत्तमा ॥ ५०॥ घनान्तशशितुल्याभा चिन्मयी चित्रकान्तिभृत् । चण्डघाती च चामुण्डा सृष्टिश्चित्तकृपामयी ॥ ५१॥ चित्रभ्रमरपाणिश्च चितिरूपा च चापिनी । सीता चञ्चलापाङ्गी सिता चित्रविभूषणा ॥ ५२॥ तैजसी चिन्मयातीता चूडामणिर्महाबला । देवेशी चिन्मयानन्दा सा चतुर्वक्त्रसंस्तुता ॥ ५३॥ ज्योत्स्ना चन्द्रार्धचूडा च चित्रमाल्या महास्मृतिः । चित्रकोद्भासिभाला च चित्राम्बरा महासुरी ॥ ५४॥ तामसी चण्डिकाशक्तिः शिवाशतनिनादिनी । जयाख्या जगतां धात्री जातिरूपा प्रदर्शिनी ॥ ५५॥ छायारूपा च पापघ्नी निद्रा चित्रानुलेपना । छत्रेश्वरी शताक्षी च शत्रुभयविवर्धिनी ॥ ५६॥ जगदाधारभूता च जगदम्बा जगन्मयी । पुष्टिर्जगत्प्रतिष्ठा च पावना जगदम्बिका ॥ ५७॥ ज्वालामुखी महारावा जिह्वाललनभीषणा । सर्वा जगत्समस्तस्त्री भैरवी जम्भनादिनी ॥ ५८॥ सा जगज्जननी श्यामा शोभना शशिशेखरा । सा जगत्पालिका श्रद्धा शाम्भवी शूलधारिणी ॥ ५९॥ तृष्णारूपा तृषा शर्वा तुष्टिरूपा च पालिका । तुङ्गकुचा त्रिनेत्रा च ताम्राम्भोजनिवासिनी ॥ ६०॥ तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा । तीक्ष्णनखा च निष्कीला नवशक्तिस्तनूदरी ॥ ६१॥ तेजोमण्डलदुर्धर्षा ताण्डवलासिनी शिवा । तृष्णा तपोज्वलन्ती च पूतना तलवासिनी ॥ ६२॥ दुर्वृत्तवृत्तहन्त्री च दुर्गपारा च दण्डिनी । दिवाकरनिभा राष्ट्री दैत्यदर्पविनाशिनी ॥ ६३॥ द्वीपिचर्मपरीधाना दंष्ट्रोद्धृतवसुन्धरा । नयनत्रययुक्ता च दारुणा दशनोज्ज्वला ॥ ६४॥ स्वाहा दंष्ट्राकरालास्या दुर्गमा द्वारवासिनी । दशवक्त्रा च दुष्प्रेक्ष्या दंष्ट्राङ्कितवरानना ॥ ६५॥ देवता दशविद्या च दारिद्र्यदुःखहारिणी । स्तुता दंष्ट्राकराली च भवसागरनौः क्षमा ॥ ६६॥ दुरत्यया महाकाली मृडानी दुरितापहा । दशभुजा महामारी दशपादा दशानना ॥ ६७॥ दिव्यमूर्तिर्महावाणी सुधा देवोपकारिणी । दुर्गार्तिनाशिनी क्षान्तिर्दुराचारविघातिनी ॥ ६८॥ दुर्गतिहारिणी दुर्गा स्वरा दशनभासुरा । भर्त्री दानवहन्त्री च सा दुष्टदमनी तथा ॥ ६९॥ दुरितशमनी राधा विहारिणी विलासिनी । रूद्ररूपा च रुद्राणी भवानी भवभामिनी ॥ ७०॥ दुर्गप्रशमनी दुर्गा सा दंष्ट्राभासुरा तथा । वाणी धृतेन्दुलेखा च सा दक्षदुहिता सुखा ॥ ७१॥ धनुर्बाणधरा दुर्गा निजशस्त्रास्त्रवर्षिणी । दुर्गा धूर्जटिपत्नी च नानारत्नोपशोभिता ॥ ७२॥ शक्तिसमूहमूर्तिश्च निद्रारूपा च धीश्वरी । नन्दगोपगृहोत्पन्ना वेदगर्भा व्रजेश्वरी ॥ ७३॥ वेदत्रयी च धेनुर्वाक् नैरृतिर्नलकूबरी । नारायणी महालक्ष्मीर्नीलोत्पलविलोचना ॥ ७४॥ विलसच्चोलिका दुर्गा धर्ममतिप्रदायिनी । नानाभरणशोभाढ्या निशुम्भासुरघातिनी ॥ ७५॥ नानाशस्त्रकरा दुर्गा सा नीलाश्मद्युतिः स्वधा । नवनवस्वरूपा च नागाधीश्वरविष्टरा ॥ ७६॥ त्रयी निखिलमूर्तिश्च नयनत्रयभासिता । सा नीरजकरा दुर्गा नादापूर्णदिगम्बरा ॥ ७७॥ प्रसन्ना परमा विद्या परा च परमेश्वरी । सा पुण्डरीकमध्यस्था प्रकृतिः पुत्रदायिनी ॥ ७८॥ पापप्रशमिनी दुर्गा नरमालाविभूषणा । पापापहारिणी दुर्गा नादापूरितदिङ्मुखा ॥ ७९॥ सा पञ्चभूतरूपा च निमग्नारक्तलोचना । नारसिंही भयत्रात्री निशुम्भमर्दिनी तथा ॥ ८०॥ नीलभुजा महारात्रिदुर्गा नानाभिधानभृत् । मातङ्गी नीलजङ्घोरुर्निशुम्भमथिनी तथा ॥ ८१॥ पद्मावती परोक्तिश्च प्रपन्नार्तिहरा तथा । प्रतिष्ठा पर माया पार्वती पापनाशिनी ॥ ८२॥ सा परमार्तिहन्त्री च परमा प्रकृतिस्तथा । प्रसादसुमुखी दुर्गा सुप्रसन्नानना तथा ॥ ८३॥ परितुष्टा महामेधा भवानी परमायुधा । प्रेतसंस्था च भीमाक्षी पद्महस्ता हरिप्रिया ॥ ८४॥ पद्मासना महापूर्वा पुण्येश्वरी च योगिनी । पापेश्वरी महामोहा पीनस्तनी समस्तनी ॥ ८५॥ प्रचण्डदैत्यदर्पघ्ना पाशाङ्कुशधरा तथा । प्रतिमा परिपूर्णा च परधामनिवासिनी ॥ ८६॥ सा परा देवता दुर्गा फलदा प्रतिपालिका । परशिवा च शर्वाणी सा शम्भुगृहिणी तथा ॥ ८७॥ परसिद्धिप्रदा भूतिः सा प्रलयमयी तथा । ब्रह्मस्तुता च सावित्री बुद्धिरूपा च भारती ॥ ८८॥ बद्ध हिमांशुरत्नाभा भुशुण्डीपरिघायुधा । ब्रह्मशक्तिश्च यज्ञिया, सुष्टुता फलदायिका ॥ ८९॥ बन्धूककाञ्चनाभा च बालरविद्युतिस्तथा । बाधाप्रशमनी दुर्गा बीजरूपा च बाभ्रवी ॥ ९०॥ बालार्कमण्डलाभासा बहुकन्यासुसेविता । ब्रह्मादिरूपिणी दुर्गा मङ्गला ब्रह्मचारिणी ॥ ९१॥ ब्रह्मस्वरूपिणी मेधा ब्रह्मरूपा सुरेश्वरी । भक्तकामदुघा दुर्गा सा बाधाहारिणी तथा ॥ ९२॥ दुर्गा भक्तानुरक्ता च भगवती च भूषिता । भुक्तिप्रदायिनी दुर्गा भद्रकाली सनातनी ॥ ९३॥ भानुसहस्रकान्तिश्च भूभृल्लक्ष्मीश्च शङ्खिनी । भ्रान्तिरूपा महोत्साहा भास्वद्देहलता तथा ॥ ९४॥ भुवनेशी विशोका च दुर्गा भैरवनादिनी । भक्तिस्मृता सुगन्धा च भ्रामरी भूमिसम्भवा ॥ ९५॥ दुर्गा भूमुक्तिहेतुश्च भक्तानन्दोदया तथा । सा भिन्नाञ्जनसङ्काशा भोगस्वर्गापवर्गदा ॥ ९६॥ दुर्गा भ्रामररूपा च भूतस्थितिविधायिनी । भाषाक्षरा सुमाता दुर्गा भूतार्तिहारिणी ॥ ९७॥ सा मुक्तिहेतुभूता च दुर्गा भयविनाशिनी । मातृरूपा सुरूपा च संहर्त्री भवतारिणी ॥ ९८॥ मुक्तिहेतुः सुरश्रेष्ठा सन्मयी भयहारिणी । माहेश्वरी शरण्या च दुर्गा भेदप्रदर्शिनी ॥ ९९॥ मौलिबद्धेन्दुरेखा च महावृषभवाहिनी । सा महाकालिका माता मधुकैटभघातिनी ॥ १००॥ महाहिवलया माया तथा महिषवाहिनी । मोहरात्रिश्च वाराही सुमधुमदमाधुरी ॥ १०१॥ दुर्गा मातृगणा वृद्धिर्मयूरवरवाहना । मालाधरी च सर्वाद्या महाशक्तिधरा तथा ॥ १०२॥ माहेश्वरीस्वरूपा च सुन्दरी मुकुटेश्वरी । दुर्गा महीस्वरूपा च महाकारुण्यरूपिणी ॥ १०३॥ महामारीस्वरूपा च मातृका मुनिसंस्तुता । महिषासुरनिर्णोशी दुर्गा मृगप्रतिस्थिता ॥ १०४॥ मूर्तिरूपा च सर्वेशा मयूरकुक्कुटावृता । मुक्तिप्रदायिनी दुर्गा सुभगा महिषासना ॥ १०५॥ महिषान्तकरी दुर्गा त्रिगुणा मृगवाहिनी । सा मुण्डमथना दुर्गा शुभा महिषमर्दिनी ॥ १०६॥ त्र्यम्बका योगनिद्रा च महात्रिपुरसुन्दरी । साक्षिणी यमघण्टा च महादुर्गविनाशिनी ॥ १०७॥ यज्ञियप्रथमा दुर्गा श्रीप्रदा मन्त्रमातृका । दुर्गा योगेश्वरी शान्तिः शूलिनी मधुमर्दिनी ॥ १०८॥ रूक्माम्बुजासना दुर्गा शाङ्करी महिषार्दिनी । सा रुचिराक्षमाला च सत्वरा मन्त्ररूपिणी ॥ १०९॥ सा मूलप्रकृतिर्दुर्गा मूलाधारनिवासिनी । महाविलासिनी दुर्गा मोहिनी मुनिमोहिनी ॥ ११०॥ दुर्गा रूपप्रतिष्ठा च यशोदागर्भसम्भवा । वैष्णवी रथमारूढा रत्नभूता यशस्विनी ॥ १११॥ शिवदा रक्तवर्णा च विजया रूपशालिनी । वारुणी रक्तवस्त्रा च दुर्गा रक्ताम्बरा तथा ॥ ११२॥ सुगता रक्तपादा च सकला रक्तदन्तिका । साकारा रक्तमध्या च रक्तसर्वाङ्गभूषणा ॥ ११३॥ सुकान्ती रक्तनेत्रा च रक्तकेशातिभीषणा । सा रक्तदशना दुर्गा रक्ततीक्ष्णनखा तथा ॥ ११४॥ सा दुर्गा रक्तचामुण्डा दुर्गा रक्तायुधा तथा । सा दुर्गा रक्तकेशा च रणत्कङ्कणनूपुरा ॥ ११५॥ सा रक्तवसना दुर्गा रक्तदन्ती त्रिधोदिता । रसभावितवृत्ता च दुर्गा रत्नविभूषिता ॥ ११६॥ सा लम्बोदरमाता च लक्ष्मीरूपा च वाक् तथा । दुर्गा लज्जास्वरूपा च सा लोकवरदा तथा ॥ ११७॥ वृत्तस्तनी तथा दुर्गा विशाला वसुधासमा । दुर्गा विज्ञानरूपा च तथा वृत्तपयोधरा ॥ ११८॥ वरदा वेदरूपा च दुर्गा विश्वेश्वरी तथा । व्याप्तलोकत्रया दुर्गा वराभीतिप्रधारिणी ॥ ११९॥ वैरिदयावती दुर्गा वन्दिताङ्घ्रियुगा तथा । सा दुर्गा विष्णुमाया च व्याप्तस्थावरजङ्गमा ॥ १२०॥ वल्लकीवादिका दुर्गा विश्वसम्मोहिनी तथा । विश्वोपरतिशक्ता च दुर्गा वेधस्स्तुता तथा ॥ १२१॥ सा दुर्गा वृत्तिरूपा च चित्रखट्वाङ्गधारिणी । सा दुर्गा व्याप्तिदेवी च विश्वविभ्रामिका तथा ॥ १२२॥ वृषारूढा तथा दुर्गा विद्युद्दामसमप्रभा । वरदाभीतिहस्ता च दुर्गा विस्तारितानना ॥ १२३॥ वज्रहस्ता तथा दुर्गा विद्यामयी व्यवस्थिता । वृत्रप्राणहरा दुर्गा विन्ध्याचलनिवासिनी ॥ १२४॥ वराहरूपिणी दुर्गा विश्वार्तिहारिणी तथा । सा दुर्गा वैष्णवी शक्तिर्विश्वबीजं त्रिलोचना ॥ १२५॥ सा दुर्गा वैष्णवीरूपा तथा व्याधिविनाशिनी । दुर्गा विवेकदीपा च वीणापुस्तकधारिणी ॥ १२६॥ विशाललोचना दुर्गा सा विश्वपरिपलिका । सा विश्वधारिणी दुर्गा तथैव वैरिविनाशिनी ॥ १२७॥ विश्वात्मिका तथा दुर्गा विधातृवरदा तथा । दुर्गा विश्वेशवन्द्या च दुर्गा च वित्तदायिनी ॥ १२८॥ व्याप्तसकलविश्वा च दुर्गा च वृषवाहना ॥ वागीश्वरी तथा दुर्गा सा विद्याकारिणी तथा ॥ १२९॥ दुर्गा विज्ञानदात्री च दुर्गा च विन्ध्यवासिनी । सा विश्वमोहिनी दुर्गा तथैव विश्वरूपिणी ॥ १३०॥ वज्रपाणिस्तथा दुर्गा तथैव वरदायिनी । विश्वमाता तथा दुर्गा तथैव वज्रधारिणी ॥ १३१॥ वसुसङ्गमनी दुर्गा तथा वरदहस्तका । विख्यातिगा तथा दुर्गा तथैव वागधीश्वरी ॥ १३२॥ वाञ्छाकल्पद्रुमा दुर्गा वैरोचनी विभूषिता । सा विकटस्वरूपा च दुर्गा विधिवधूस्तथा ॥ १३३॥ शोभाधारा तथा दुर्गा विमला शमिताशिवा । विवसना तथी दुर्गा सा शिरोमालिका तथा ॥ १३४॥ शङ्खचक्रगदाहस्ता शङ्खादिपरमायुधा । श्रीस्तथा श्यामलाङ्गी च दुर्गा श्रीसुन्दरी तथा ॥ १३५॥ सा शुभमतिदा दुर्गा शुभगतिप्रदायिनी । श्वेतरूपधरा दुर्गा तथा शोकविनाशिनी ॥ १३६॥ शशिमौलिप्रतिष्ठा च दुर्गा शब्दात्मिका तथा । सा शत्रुभयरूपा च शुम्भदैत्यार्दिनी तथा ॥ १३७॥ सा दुर्गा शक्तिरूपा च शुष्कमांसातिभैरवा । सा दुर्गा शान्तिरूपा च सा शब्दज्ञानरूपिणी ॥ १३८॥ श्रद्धारूपा तथा दुर्गा शुम्भनिबर्हिणी तथा । सा दुर्गा शुभहेतुश्च सा शून्याशून्यसाक्षिणी ॥ १३९॥ शङ्खपात्रा तथा दुर्गा शिरोमालाविभूषणा । सा दुर्गा शक्तिहस्ता च सा शूलचक्रभृत्तथा ॥ १४०॥ सा शिवशक्तिरूपा च दुर्गा शशिमुखी तथा । शिवदूती तथा दुर्गा सा शुम्भमर्दिनी तथा ॥ १४१॥ सा शरणागतत्राणा दुर्गा शास्त्रमयी तथा । सा परमायुधा दुर्गा तथैव शववाहना ॥ १४२॥ शिवदूतीस्वरूपा च दुर्गा शाकम्भरी तथा । श्रीशाम्भवी तथा दुर्गा तथैव शिखिवाहना ॥ १४३। सा दुर्गा शैलपुत्री च दुर्गा शशिधरा तथा । सा दुर्गा श्रीमहाविद्या दुर्गा शूलेश्वरी तथा ॥ १४४॥ शुम्भहन्त्री तथा दुर्गा सा श्मशानविहारिणी । शक्तिधरी तथा दुर्गा सकलोद्धारिणी तथा ॥ १४५। सा दुर्गा सत्यरूपा च दुर्गा शब्दमयी तथा । सकलशब्दरूपा च सा भक्तिरसभाविता ॥ १४६॥ श्वेतानना तथा दुर्गा सर्वकामफलप्रदा । स्फुरत्कान्तिस्तथा दुर्गा सर्वरूपमयी तथा ॥ १४७॥ दुर्गा सर्वाङ्गभूषा च तथा सर्वजगन्मयी । संसारबन्धहेतुश्च तथा सर्वेश्वरेश्वरी ॥ १४८॥ वषट्कारा तथा दुर्गा स्थितिसंहारकारिणी । स्वरात्मिका तथा दुर्गा समुत्पन्ना तथा स्वयम् ॥ १४९॥ सा दुर्गा सृष्टिरूपा च सा सरोजस्थिता तथा । स्थितिरूपा तथा दुर्गा सदाभ्युदयदा तथा ॥ १५०॥ दुर्गा संहृतिरूपा च तथैव सिंहवाहिनी । सम्मानिता तथा दुर्गा तथा सैरिभमर्दिनी ॥ १५१॥ सुरर्षिस्तूयमानाच सिद्धिकामसुसेविता । सिंहस्कन्धाधिरूढा च दुर्गा सर्वाश्रया तथा ॥ १५२॥ दुर्गा सर्वजगद्वार्ता तथा सूर्यसमप्रभा । सा समस्तजगद् हेतुः स्मृतिभीतिहरा तथा ॥ १५३॥ सा दुर्गा सर्वशक्तिश्च दुर्गा सौम्यतरा तथा । सा सर्वव्यापिनी दुर्गा तथा समरनिष्ठुरा ॥ १५४॥ दुर्गा सदाऽऽर्द्रचित्ता च दुर्गा च सर्वकारिणी । स्मृतिरूपा तथा दुर्गा सहस्रनयना तथा ॥ १५५॥ दुर्गा समस्तविद्या च दुर्गा सरस्वती तथा । दुर्गा स्त्रीरत्नभूता च साक्षसूत्रकमण्डलुः ॥ १५६॥ अब्जन्यस्तैकपादा च तथा सर्वार्थसाधिका । सा सर्वज्ञेश्वराङ्कस्था सर्वेशक्तिसमन्विता ॥ १५७॥ स्मेरमुखी तथा दुर्गा स्वर्गमुक्तिप्रदायिनी । सा दुर्गा सर्वभूता च सर्वयोगसमन्विता ॥ १५८। सर्वमद्गलमङ्गल्या संसारार्णवतारिणी । सृष्ट्यादिशक्तिभूता च स्वर्गापवर्गदा तथा ॥ १५९॥ स्तव्यपरा तथा दुर्गा सहस्रनयनोज्ज्वला । सा सर्वभीतिपात्री च सिंहस्था सर्वमङ्गला ॥ १६०॥ सर्वस्यार्तिहरा दुर्गा सर्वाभरणभूषिता । दुर्गा सर्वस्वरूपा च सर्वकामप्रदायिनी ॥ १६१॥ सिद्धिदात्री तथा दुर्गा स्वर्णाकल्पितकुण्डला । सम्पूजिता तथा दुर्गा सर्वशत्रुविनाशिनी ॥ १६२॥ सा दुर्गा स्कन्दमाता च दुर्गा सर्वगता तथा । सा सौभाग्यप्रतिष्ठा च दुर्गा सप्तशती तथा ॥ १६३। सा सत्त्वाख्यगुणा दुर्गा सर्वसत्त्वमयी तथा । सुरासुरशिरोरलनिघृष्टचरणा तथा ॥ १६४॥ स्फुरद्दशनदंष्ट्रा च सुमेरुयुगलस्तनी । सा सहस्रभुजा दुर्गा सुचित्रजघना तथा ॥ १६५॥ सौभाग्यशालिनी दुर्गा सच्चिदानन्दविग्रहा । सर्वदेवमयी दुर्गा सर्वदेवशरीरजा ॥ १६६॥ सर्वेश्वरी तथा दुर्गा सर्वलोकमहेश्वरी । सर्वाङ्गभूषणा दुर्गा सर्वानन्दपयोनिधिः ॥ १६७॥ सर्वभयापहा दुर्गा सर्वकामदुधस्तनी । सुकर्कशस्तनी दुर्गा सुश्वेतस्तनमण्डला ॥ १६८॥ सा सिद्धकुञ्जिका दुर्गा सा सत्त्वैकगुणाश्रया । सुखमयी तथा दुर्गा तथैव सुरमोहिनी ॥ १६९॥ स्नेहमयी तथा दुर्गा सर्वबाधापहारिणी । सिद्धिप्रदा तथा दुर्गा तथैव सा सुधामयी ॥ १७०॥ हृत्संस्थिता तथा दुर्गा हरिनेत्रकृतालया । हंसयुक्तविमानस्था हिमाचलकृताश्रया ॥ १७१॥ दुर्गा हंससमारूढा हतदैत्यमहाबला । हिमाचलसुता दुर्गा त्रिशूलवरधारिणी ॥ १७२॥ हिमाचलसुतानाथसंस्तुता ज्ञानरूपिणी । हृत्पुण्डरीकमध्यस्था दुर्गा हस्ताम्बुजा तथा ॥ १७३॥ क्षोभिताशेषपाताला दुर्गा क्षेमकरी तथा । क्षुधारूपा तथा दुर्गा त्रिधामात्रात्मिका तथा ॥ १७४॥ सा दुर्गा क्षान्तिरूपा च दुर्गा त्रिपुरसुन्दरी । दुर्गा त्रिजगदाधारा त्रिंशल्लोचनमालिका ॥ १७्संघ७५॥ दुर्गा त्रैलोक्यवासीड्या त्रिदशपरिवेष्टिता । त्रैलोक्यत्राणयुक्ता च त्रिशूलचन्द्रधारिणी ॥ १७६॥ दुर्गा वक्त्रारविन्दश्रीदुर्गा त्रिनयना तथा । सा ज्ञानचिन्मयातीता स्वयञ्च ज्ञानचिन्मयी ॥ १७७॥ ॥ नमस्तस्यै नमो नमः ॥ ॥ फलश्रुतिः ॥ दुर्गासप्तशतीस्तोत्रं यथा लोके महीयते । मधुरं मधुरानन्दे सहस्रमपि कल्पताम् ॥ १७८॥ दुर्गा भक्तसुभावभावितमनाः प्रेमास्पदं प्रापिता हर्षोल्लासविनोदमोदकरुणासन्तानसङ्काशिका । सुप्रीता मुदिता स्तुता विनयिता सम्पूजिता वन्दिता माङ्गल्यं वितनोतु लोकजननी स्तोतुः सहस्रात्मिका ॥ १७९॥ ॥ इति श्रीदुर्गासप्तशत्योद्धृतं सहस्रनामस्तोत्रं सम्पूर्णम् ॥

श्रीदुर्गासप्तशतीसहस्रनामस्तोत्रम्: परिचय एवं रहस्य (Introduction & Secrets)

श्रीदुर्गासप्तशतीसहस्रनामस्तोत्रम् शाक्त परंपरा का एक अत्यंत गोपनीय और महत्वपूर्ण ग्रंथ है। यह कोई स्वतंत्र रचना नहीं है, बल्कि स्वयं दुर्गा सप्तशती (देवी माहात्म्य) के 700 श्लोकों के भीतर छिपे देवी के नामों का संकलन है। ऋषियों ने सप्तशती के प्रत्येक श्लोक से देवी के गुणों, विशेषणों और लीलाओं पर आधारित नामों को निकालकर एक हजार से अधिक नामों की यह माला तैयार की है।

सप्तशती का सार: इस सहस्रनाम का पाठ करना अपने आप में संपूर्ण दुर्गा सप्तशती का सार पाठ करने के बराबर है। क्योंकि इसमें 'मधुकैटभहारिणी' से लेकर 'महिषासुरमर्दिनी', 'धूम्रलोचनसंहारिणी', 'चण्डमुण्डविनाशिनी', 'रक्तबीजवधा' और 'शुम्भनिशुम्भघातिनी' तक, सप्तशती के सभी प्रमुख असुरों का वध करने वाले स्वरूपों का नाम रूप में स्मरण हो जाता है।

वर्णमाला क्रम: इस स्तोत्र की रचना संस्कृत वर्णमाला (अ, आ, इ, ई... आदि) के क्रम में की गई है। यह देवी को 'मातृका शक्ति' (अक्षरों की देवी) और 'शब्द ब्रह्म' के रूप में स्थापित करता है। यह क्रम पाठ करने में सरलता और एक दिव्य लय प्रदान करता है।

स्तोत्र का विशिष्ट आध्यात्मिक महत्व (Spiritual Significance)

यह सहस्रनाम केवल देवी के युद्ध-स्वरूप का वर्णन नहीं करता, बल्कि उनके दार्शनिक और मातृ-स्वरूप को भी उजागर करता है।

  • त्रिगुणात्मक और गुणातीत स्वरूप: देवी को 'त्रिगुणायै' (सत्व, रज, तम युक्त) और 'सत्त्वैकगुणाश्रया' (मुख्यतः सत्व गुण वाली) कहा गया है। यह दर्शाता है कि सृष्टि का संचालन करने के लिए वे तीनों गुणों का रूप लेती हैं, परंतु अपने भक्तों के लिए वे शुद्ध सत्वगुणी हैं।
  • कुण्डलिनी शक्ति और योग: इसमें 'कुण्डलिन्यै', 'मूलाधारनिवासिन्यै' और 'योगनिद्रायै' जैसे नाम हैं, जो तंत्र और योग के गहरे रहस्यों से जुड़े हैं। यह पाठ साधक की कुण्डलिनी ऊर्जा को जाग्रत करने में सहायक है।
  • नवदुर्गा का समावेश: 'शैलपुत्र्यै', 'ब्रह्मचारिण्यै', 'चन्द्रघण्टायै', 'कूष्माण्डायै', 'स्कन्दमात्रे', 'कात्यायन्यै', 'कालरात्र्यै', 'महागौर्यै' और 'सिद्धिदात्र्यै' — इन नामों के माध्यम से यह स्तोत्र संपूर्ण नवदुर्गा की उपासना का फल भी एक साथ प्रदान करता है।
  • सिद्ध कुञ्जिका का रहस्य: 'सा सिद्धकुञ्जिका दुर्गा' (श्लोक 169) — यह नाम इस स्तोत्र को दुर्गा सप्तशती की 'कुंजी' (Key) के रूप में स्थापित करता है। जैसे सिद्ध कुंजिका स्तोत्र के बिना सप्तशती का पाठ अधूरा है, वैसे ही यह सहस्रनाम भी सप्तशती के रहस्यों को खोलने वाली कुंजी है।

फलश्रुति: पाठ से प्राप्त होने वाले सिद्ध लाभ (Benefits of Recitation)

यद्यपि इस स्तोत्र की एक अलग फलश्रुति नहीं दी गई है, परंतु इसका अंतिम श्लोक (179) ही सबसे बड़ा फल बताता है। इसके नित्य पाठ से:

  • सर्वमङ्गल की प्राप्ति: 'माङ्गल्यं वितनोतु लोकजननी' — लोकमाता दुर्गा साधक के जीवन में हर प्रकार की शुभता और मंगल का विस्तार करती हैं।
  • शत्रुओं और संकटों का नाश: चूँकि इसमें सप्तशती के सभी संहारक स्वरूपों का समावेश है, यह पाठ शत्रुओं, मुकदमों, ऊपरी बाधाओं और असाध्य रोगों से रक्षा करता है।
  • ज्ञान और विद्या की सिद्धि: 'सरस्वती', 'महाविद्या', और 'अखिलशास्त्रसारा' जैसे नामों के प्रभाव से साधक को उत्तम बुद्धि और विद्या की प्राप्ति होती है।
  • धन, धान्य और सौभाग्य: 'लक्ष्मी', 'कमला' और 'धनधान्यसमन्वितः' भाव वाले नामों से घर में कभी धन-धान्य की कमी नहीं होती और सौभाग्य की वृद्धि होती है।
  • पूर्णता का अनुभव: एक हजार से अधिक नामों का पाठ करने से मन की चंचलता समाप्त होती है और साधक देवी के विराट स्वरूप में लीन होकर परमानंद का अनुभव करता है।

पाठ विधि एवं अनुष्ठान (Ritual Method & Guidelines)

यह एक वृहद स्तोत्र है, इसलिए इसका पाठ विशेष श्रद्धा और नियमों के साथ किया जाना चाहिए।

नवरात्रि अनुष्ठान: नवरात्रि में प्रतिदिन इस सहस्रनाम का एक बार पाठ करना संपूर्ण सप्तशती के पाठ के बराबर फल देता है। पाठ से पूर्व नवार्ण मंत्र का जप अवश्य करें।

अर्चन विधि (Archana): विशेष कामना पूर्ति के लिए प्रत्येक नाम के साथ 'ॐ' और अंत में 'नमः' लगाकर (जैसे: ॐ अम्बे नमः, ॐ कात्यायन्यै नमः) देवी को लाल पुष्प, बिल्व पत्र या कुमकुम अर्पित करें। यह सहस्त्रार्चन कहलाता है।

नित्य पाठ: यदि पूरा पाठ संभव न हो, तो प्रतिदिन 108 नामों (अष्टोत्तरशत) का पाठ भी किया जा सकता है। यह क्रम वर्णमाला के अनुसार (जैसे 'अ' से शुरू होने वाले 108 नाम) या अपनी सुविधानुसार किया जा सकता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. यह सहस्रनाम किस ग्रंथ से लिया गया है?
यह किसी एक ग्रंथ से नहीं लिया गया है, बल्कि यह स्वयं 'श्री दुर्गा सप्तशती' के 700 श्लोकों से विद्वानों द्वारा उद्धृत (Extracted) किया गया है।
2. क्या यह पाठ सामान्य दुर्गा सहस्रनाम से अलग है?
हाँ, यह अलग है। सामान्यतः प्रचलित दुर्गा सहस्रनाम स्कन्द पुराण से लिया गया है। जबकि यह स्तोत्र सीधे तौर पर सप्तशती पर ही आधारित है और इसकी भाषा भी सप्तशती के श्लोकों से मिलती-जुलती है।
3. इस पाठ को करने में कितना समय लगता है?
चूँकि इसमें 1000 से अधिक नाम हैं, इसके पूर्ण पाठ (अर्चन के बिना) में लगभग 1.5 से 2 घंटे का समय लग सकता है। गति साधक पर निर्भर करती है।
4. 'सावर्णिर्भविता मनुः' का भाव इसमें कैसे है?
इस सहस्रनाम में सप्तशती की संपूर्ण कथा निहित है, जिसमें राजा सुरथ और समाधि वैश्य की कथा भी शामिल है। अंततः देवी उन्हें वरदान देती हैं कि राजा सुरथ अगले मन्वंतर में 'सावर्णि मनु' बनेंगे। इस पाठ से वह फल भी प्राप्त होता है।
5. क्या इसे बिना गुरु के पढ़ सकते हैं?
हाँ, यह एक स्तोत्र है जिसे भक्ति भाव से कोई भी पढ़ सकता है। गुरु की उपस्थिति अनुष्ठान को और अधिक प्रभावी बनाती है, लेकिन यह अनिवार्य नहीं है। भगवान शिव को गुरु मानकर पाठ आरंभ कर सकते हैं।
6. 'दुर्गा' नाम इस स्तोत्र में बार-बार क्यों आता है?
प्रत्येक देवी के विशेषण के साथ 'दुर्गा' शब्द जोड़ने से यह स्पष्ट होता है कि वे सभी रूप (जैसे रक्तदन्तिका दुर्गा, शाकम्भरी दुर्गा) एक ही परम शक्ति दुर्गा के हैं। यह पाठ की ऊर्जा को केंद्रित रखता है।
7. क्या यह केवल नवरात्रि में ही पढ़ना चाहिए?
नवरात्रि सर्वश्रेष्ठ समय है, लेकिन इसे किसी भी मास की अष्टमी, चतुर्दशी, या प्रत्येक शुक्रवार को भी पढ़ा जा सकता है। संकट काल में इसका पाठ तत्काल राहत देता है।
8. 'अयोनिजा' का क्या अर्थ है?
'अयोनिजा' का अर्थ है 'जिसका जन्म योनि से न हुआ हो'। देवी स्वयंभू हैं, वे किसी माता-पिता से उत्पन्न नहीं हुईं, बल्कि अपने संकल्प मात्र से या देवताओं के तेज से प्रकट हुई हैं।
9. क्या यह एक तांत्रिक पाठ है?
यह भक्ति और तंत्र दोनों का मिश्रण है। इसमें 'कुण्डलिनी', 'डाकिनी', 'योगिनी' जैसे तांत्रिक शब्द भी हैं और 'करुणामयी', 'भक्तवत्सला' जैसे भक्तिपूर्ण नाम भी। इसे सात्विक भाव से किया जा सकता है।
10. अंतिम श्लोक का क्या महत्व है?
अंतिम श्लोक एक तरह से फलश्रुति और आशीर्वाद है। यह कहता है कि जो भी प्रेम और भक्ति से इस सहस्रनाम का पाठ करेगा, लोकमाता दुर्गा उसके जीवन में 'माङ्गल्य' (सर्व-शुभता) का विस्तार करेंगी।