Logoपवित्र ग्रंथ

Gakara Ganapati Sahasranama - The 1000 'Ga' Names

Gakara Ganapati Sahasranama Stotram

Gakara Ganapati Sahasranama - The 1000 'Ga' Names
अथ गकारादि श्री गणपति सहस्रनाम स्तोत्रम् विनियोगः । अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य दुर्वासा ऋषिः अनुष्टुप्छन्दः श्रीगणपतिर्देवता गं बीजं स्वाहा शक्तिः ग्लौं कीलकं मम सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः । न्यासः । ओं अङ्गुष्ठाभ्यां नमः । श्रीं तर्जनीभ्यां नमः । ह्रीं मध्यमाभ्यां नमः । क्रीं अनामिकाभ्यां नमः । ग्लौं कनिष्ठिकाभ्यां नमः । गं करतलकरपृष्ठाभ्यां नमः । ओं हृदयाय नमः । श्रीं शिरसे स्वाहा । ह्रीं शिखायै वषट् । क्रीं कवचाय हुम् । ग्लौं नेत्रत्रयाय वौषट् । गं अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् । ओङ्कार सन्निभमिभाननमिन्दुभालम् मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् । लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥ ध्यायेन्नित्यं गणेशं परमगुणयुतं चित्तसंस्थं त्रिणेत्रम् एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् । शुण्डादण्डाढ्यगण्डोद्गलितमदजलोल्लोल मत्तालिमालम् श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि । स्तोत्रम् । ओं गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः । गणनाथो गणस्वामी गणेशो गणनायकः ॥ १ ॥ गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः । गणपोऽथ गणक्रीडो गणदेवो गणाधिपः ॥ २ ॥ गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् । गणराड्गणगोप्ताथ गणाङ्गो गणदैवतम् ॥ ३ ॥ गणबन्धुर्गणसुहृद्गणाधीशो गणप्रथः । गणप्रियसखः शश्वद्गणप्रियसुहृत्तथा ॥ ४ ॥ गणप्रierतो नित्यं गणप्रीतिविवर्धनः । गणमण्डलमध्यस्थो गणकेलिपरायणः ॥ ५ ॥ गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रयः । गण्यो गणहितो गर्जद्गणसेनो गणोद्धतः ॥ ६ ॥ गणभीतिप्रमथनो गणभीत्यपहारकः । गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः ॥ ७ ॥ गणसेनो गणचरो गणप्रज्ञो गणैकराट् । गणाग्र्यो गणनामा च गणपालनतत्परः ॥ ८ ॥ गणजिद्गणगर्भस्थो गणप्रवणमानसः । गणगर्वपरीहर्ता गणो गणनमस्कृतः ॥ ९ ॥ गणार्चिताङ्घ्रियुगलो गणरक्षणकृत्सदा । गणध्यातो गणगुरुर्गणप्रणयतत्परः ॥ १० ॥ गणागणपरित्राता गणाधिहरणोद्धुरः । गणसेतुर्गणनुतो गणकेतुर्गणाग्रगः ॥ ११ ॥ गणहेतुर्गणग्राही गणानुग्रहकारकः । गणागणानुग्रहभूर्गणागणवरप्रदः ॥ १२ ॥ गणस्तुतो गणप्राणो गणसर्वस्वदायकः । गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः ॥ १३ ॥ गणसौख्यप्रदाता च गणदुःखप्रणाशनः । गणप्रथितनामा च गणाभीष्टकरः सदा ॥ १४ ॥ गणमान्यो गणख्यातो गणवीतो गणोत्कटः । गणपालो गणवरो गणगौरवदायकः ॥ १५ ॥ गणगर्जितसन्तुष्टो गणस्वच्छन्दगः सदा । गणराजो गणश्रीदो गणाभयकरः क्षणात् ॥ १६ ॥ गणमूर्धाभिषिक्तश्च गणसैन्यपुरस्सरः । गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥ १७ ॥ गुणी गुणाकृतिधरो गुणशाली गुणप्रियः । गुणपूर्णो गुणाम्भोधिर्गुणभाग्गुणदूरगः ॥ १८ ॥ गुणागुणवपुर्गौणशरीरो गुणमण्डितः । गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः ॥ १९ ॥ गुणसृष्टजगत्सङ्घो गुणसङ्घो गुणैकराट् । गुणप्रवृष्टो गुणभूर्गुणीकृतचराचरः ॥ २० ॥ गुणप्रवणसन्तुष्टो गुणहीनपराङ्मुखः । गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः ॥ २१ ॥ गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा । गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥ २२ ॥ गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः । गुणवान् गुणसम्पन्नो गुणानन्दितमानसः ॥ २३ ॥ गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः । गुणगौरो गुणाधारो गुणसंवृतचेतनः ॥ २४ ॥ गुणकृद्गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक् । गुणप्रचारी गुणयुग्गुणागुणविवेककृत् ॥ २५ ॥ गुणाकरो गुणकरो गुणप्रवणवर्धनः । गुणगूढचरो गौणसर्वसंसारचेष्टितः ॥ २६ ॥ गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् । गुणहारी गुणकलो गुणसङ्घसखस्सदा ॥ २७ ॥ गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः । गुणगर्वधरो गौणसुखदुःखोदयो गुणः ॥ २८ ॥ गुणाधीशो गुणलयो गुणवीक्षणलालसः । गुणगौरवदाता च गुणदाता गुणप्रदः ॥ २९ ॥ गुणकृद्गुणसम्बन्धो गुणभृद्गुणबन्धनः । गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः ॥ ३० ॥ गुणचक्रधरो गौणावतारो गुणबान्धवः । गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः ॥ ३१ ॥ गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः । गुणयायी गुणाधायी गुणपो गुणपालकः ॥ ३२ ॥ गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः । गुणवत्पूजितपदो गुणवत्प्रीतिदायकः ॥ ३३ ॥ गुणवद्गीतकीर्तिश्च गुणवद्बद्धसौहृदः । गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥ ३४ ॥ गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः । गुणवद्रक्षणपरो गुणवत्प्रणतप्रियः ॥ ३५ ॥ गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्धनः । गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥ ३६ ॥ गुणवत्पोषणकरो गुणवच्छत्रुसूदनः । गुणवत्सिद्धिदाता च गुणवद्गौरवप्रदः ॥ ३७ ॥ गुणवत्प्रणवस्वान्तो गुणवद्गुणभूषणः । गुणवत्कुलविद्वेषिविनाशकरणक्षमः ॥ ३८ ॥ गुणिस्तुतगुणो गर्जप्रलयाम्बुदनिस्स्वनः । गजो गजपतिर्गर्जद्गजयुद्धविशारदः ॥ ३९ ॥ गजास्यो गजकर्णोऽथ गजराजो गजाननः । गजरूपधरो गर्जद्गजयूथोद्धरध्वनिः ॥ ४० ॥ गजाधीशो गजाधारो गजासुरजयोद्धुरः । गजदन्तो गजवरो गजकुम्भो गजध्वनिः ॥ ४१ ॥ गजमायो गजमयो गजश्रीर्गजगर्जितः । गजमयाहरो नित्यं गजपुष्टिप्रदायकः ॥ ४२ ॥ गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिपः । गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥ ४३ ॥ गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः । गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः ॥ ४४ ॥ गजमत्तो गजेशानो गजेशो गजपुङ्गवः । गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥ ४५ ॥ गजच्छद्म गजाग्रस्थो गजयायी गजाजयः । गजराड्गजयूथस्थो गजगञ्जकभञ्जकः ॥ ४६ ॥ गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टपः । गानज्ञो गानकुशलो गानतत्त्वविवेचकः ॥ ४७ ॥ गानश्लाघी गानरसो गानज्ञानपरायणः । गानागमज्ञो गानाङ्गो गानप्रवणचेतनः ॥ ४८ ॥ गानकृद्गानचतुरो गानविद्याविशारदः । गानध्येयो गानगम्यो गानध्यानपरायणः ॥ ४९ ॥ गानभूर्गानशीलश्च गानशाली गतश्रमः । गानविज्ञानसम्पन्नो गानश्रवणलालसः ॥ ५० ॥ गानायत्तो गानमयो गानप्रणयवान् सदा । गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः ॥ ५१ ॥ गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः । गानाङ्गज्ञानवान् गानमानवान् गानपेशलः ॥ ५२ ॥ गानवत्प्रणयो गानसमुद्रो गानभूषणः । गानसिन्धुर्गानपरो गानप्राणो गानाश्रयः ॥ ५३ ॥ गानैकभूर्गानहृष्टो गानचक्षुर्गानैकदृक् । गानमत्तो गानरुचिर्गानविद्गानवित्प्रियः ॥ ५४ ॥ गानान्तरात्मा गानाढ्यो गानाभ्राजत्सुभास्वरः । गानमायो गानधरो गानविद्याविशोधकः ॥ ५५ ॥ गानाहितघ्नो गानेन्द्रो गानलीनो गतिप्रियः । गानाधीशो गानलयो गानाधारो गतीश्वरः ॥ ५६ ॥ गानवन्मानदो गानभूतिर्गानैकभूतिमान् । गानतानरतो गानतानध्यानविमोहितः ॥ ५७ ॥ गुरुर्गुरूदरश्रोणिर्गुरुतत्त्वार्थदर्शनः । गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रियः ॥ ५८ ॥ गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभः । गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुखः ॥ ५९ ॥ गुरुविद्यो गुरुत्राणो गुरुबाहुर्बलोच्छ्रयः । गुरुदैत्यप्राणहरो गुरुदैत्यापहारकः ॥ ६० ॥ गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा । गुरुगौरवदायी च गुरुभीत्यपहारकः ॥ ६१ ॥ गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथः । गुरुफालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥ ६२ ॥ गुरूरुर्गुरुपीनांसो गुरुप्रणयलालसः । गुरुमुख्यो गुरुकुलस्थायी गुरुगुणस्सदा ॥ ६३ ॥ गुरुसंशयभेत्ता च गुरुमान्यप्रदायकः । गुरुधर्मसदाराध्यो गुरुधर्मनिकेतनः ॥ ६४ ॥ गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः । गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धरः । गरिष्ठो गुरुसन्तापशमनो गुरुपूजितः ॥ ६५ ॥ गुरुधर्मधरो गौरधर्माधारो गदापहः । गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यमः ॥ ६६ ॥ गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयस्सदा । गुरुमन्त्रो गुरुश्रेष्ठो गुरुमन्त्रफलप्रदः ॥ ६७ ॥ गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः । गुरुसंसारसुखदो गुरुसंसारदुःखभित् ॥ ६८ ॥ गुरुश्लाघापरो गौरभानुखण्डावतंसभृत् । गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचकः ॥ ६९ ॥ गुरुकान्तिर्गुरुमहान् गुरुशासनपालकः । गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ॥ ७० ॥ गुरुविक्रमसञ्चारो गुरुदृग्गुरुविक्रमः । गुरुक्रमो गुरुप्रेष्ठो गुरुपाषण्डखण्डकः ॥ ७१ ॥ गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः । गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः ॥ ७२ ॥ गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः । गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशनः ॥ ७३ ॥ गुरुपुत्रप्राणदाता गुरुभक्तिपरायणः । गुरुविज्ञानविभवो गौरभानुवरप्रदः ॥ ७४ ॥ गौरभानुस्तुतो गौरभानुत्रासापहारकः । गौरभानुप्रियो गौरभानुर्गौरववर्धनः ॥ ७५ ॥ गौरभानुपरित्राता गौरभानुसखस्सदा । गौरभानुप्रभुर्गौरभानुभीतिप्रणाशनः ॥ ७६ ॥ गौरीतेजस्समुत्पन्नो गौरीहृदयनन्दनः । गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ॥ ७७ ॥ गौरो गौरगुणो गौरप्रकाशो गौरभैरवः । गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः ॥ ७८ ॥ गौरीवरप्रदो गौरीप्रणयो गौरसच्छविः । गौरीगणेश्वरो गौरीप्रवणो गौरभावनः ॥ ७९ ॥ गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक् । गौतमो गौतमीनाथो गौतमीप्राणवल्लभः ॥ ८० ॥ गौतमाभीष्टवरदो गौतमाभयदायकः । गौतमप्रणयप्रह्वो गौतमाश्रमदुःखहा ॥ ८१ ॥ गौतमीतीरसञ्चारी गौतमीतीर्थनायकः । गौतमापत्परिहारो गौतमाधिविनाशनः ॥ ८२ ॥ गोपतिर्गोधनो गोपो गोपालप्रियदर्शनः । गोपालो गोगणाधीशो गोकश्मलनिवर्तकः ॥ ८३ ॥ गोसहस्रो गोपवरो गोपगोपीसुखावहः । गोवर्धनो गोपगोपो गोमान्गोकुलवर्धनः ॥ ८४ ॥ गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् । गोमी गोकष्टसन्त्राता गोसन्तापनिवर्तकः ॥ ८५ ॥ गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्धनः । गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः ॥ ८६ ॥ गोलोको गोलको गोभृद्गोभर्ता गोसुखावहः । गोधुग्गोधुग्गणप्रेष्ठो गोदोग्धा गोपयप्रियः ॥ ८७ ॥ गोत्रो गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः । गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः ॥ ८८ ॥ गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम् । गोत्रविख्यातनामा च गोत्री गोत्रप्रपालकः ॥ ८९ ॥ गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमः । गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजितः ॥ ९० ॥ गोत्रविद्गोत्रभित्त्राता गोत्रभिद्वरदायकः । गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदनः ॥ ९१ ॥ गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः । गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षकः ॥ ९२ ॥ गोत्रभिद्वरदायी च गोत्रभित्प्रणयास्पदम् । गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः ॥ ९३ ॥ गोत्रभिद्गोपनपरो गोत्रभित्सैन्यनायकः । गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः ॥ ९४ ॥ ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थभिद्ग्रन्थविघ्नहा । ग्रन्थादिर्ग्रन्थसञ्चारो ग्रन्थश्रवणलोलुपः ॥ ९५ ॥ ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् । ग्रन्थसंशयसञ्छेत्ता ग्रन्थवक्ता ग्रहाग्रणीः ॥ ९६ ॥ ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः । ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् ॥ ९७ ॥ ग्रन्थदृग्ग्रन्थविज्ञानो ग्रन्थसन्दर्भशोधकः । ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः ॥ ९८ ॥ ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः । ग्रन्थकृद्वरदाता च ग्रन्थकृद्ग्रन्थवन्दितः ॥ ९९ ॥ ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः । ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ॥ १०० ॥ ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः । ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः ॥ १०१ ॥ ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालसः । ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः ॥ १०२ ॥ ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारकः । ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारकः ॥ १०३ ॥ ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्परः । गीतो गीतगुणो गीतकीर्तिर्गीतविशारदः ॥ १०४ ॥ गीतस्फीतयशा गीतप्रणयी गीतचञ्चुरः । गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः ॥ १०५ ॥ गीताश्रयो गीतमयो गीतातत्त्वार्थकोविदः । गीतासंशयसञ्छेत्ता गीतासङ्गीतशाशनः ॥ १०६ ॥ गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गीताश्रयः । गीतासारो गीताकृतिर्गीताविघ्ननाशनः ॥ १०७ ॥ गीतासक्तो गीतलीनो गीताविगतसञ्ज्वरः । गीतैकधृग्गीतभूतिर्गीतप्रीतिर्गतालसः ॥ १०८ ॥ गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् । गीतागीतविवेकज्ञो गीताप्रवणचेतनः ॥ १०९ ॥ गतभीर्गतविद्वेषो गतसंसारबन्धनः । गतमायो गतत्रासो गतदुःखो गतज्वरः ॥ ११० ॥ गतासुहृद्गताज्ञानो गतदुष्टाशयो गतः । गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः ॥ १११ ॥ गताहङ्कारसञ्चारो गतदर्पो गताहितः । गतविघ्नो गतभयो गतागतनिवारकः ॥ ११२ ॥ गतव्यथो गतापायो गतदोषो गतेः परः । गतसर्वविकारोऽथ गतगर्जितकुञ्जरः ॥ ११३ ॥ गतकम्पितभूपृष्ठो गतरुग्गतकल्मषः । गतदैन्यो गतस्तैन्यो गतमानो गतश्रमः ॥ ११४ ॥ गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रमः । गताभावो गतभवो गततत्त्वार्थसंशयः ॥ ११९ ॥ गयासुरशिरश्छेत्ता गयासुरवरप्रदः । गयावासो गयानाथो गयावासिनमस्कृतः ॥ १२० ॥ गयातीर्थफलाध्यक्षो गयायात्राफलप्रदः । गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ॥ १२१ ॥ गयावासिस्तुतो गायन्मधुव्रतलसत्कटः । गायको गायकवरो गायकेष्टफलप्रदः ॥ १२२ ॥ गायकप्रणयी गाता गायकाभयदायकः । गायकप्रवणस्वान्तो गायकप्रथमस्सदा ॥ १२३ ॥ गायकोद्गीतसम्प्रीतो गायकोत्कटविघ्नहा । गानगेयो गायकेशो गायकान्तरसञ्चरः ॥ १२४ ॥ गायकप्रियदः शश्वद्गायकाधीनविग्रहः । गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ॥ १२५ ॥ गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचकः । गाढानुरागो गाढाङ्गो गाढगङ्गाजलोद्वहः ॥ १२६ ॥ गाढावगाढजलधिर्गाढप्रज्ञो गतामयः । गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्परः ॥ १२७ ॥ गाढाश्लेषरसाभिज्ञो गाढनिवृतिसाधकः । गङ्गाधरेष्टवरदो गङ्गाधरभयापहः ॥ १२८ ॥ गङ्गाधरगुरुर्गङ्गाधरध्यानपरस्सदा । गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः ॥ १२९ ॥ गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः । गङ्गाजलरसास्वादचतुरो गाङ्गनीरपः ॥ १३० ॥ गङ्गाजलप्रणयवान्गङ्गातीरविहारकृत् । गङ्गाप्रियो गाङ्गजलावगाहनपरस्सदा ॥ १३१ ॥ गन्धमादनसंवासो गन्धमादनकेलिकृत् । गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रतः ॥ १३२ ॥ गन्धो गन्धर्वराजश्च गन्धर्वप्रियकृत्सदा । गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धनः ॥ १३३ ॥ गकारबीजनिलयो गकारो गर्विगर्वनुत् । गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ १३४ ॥ गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् । गन्धर्वगर्वसञ्छेत्ता गन्धर्ववरदर्पहा ॥ १३५ ॥ गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः । गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः ॥ १३६ ॥ गन्धर्वाभयदः शश्वद्गन्धर्वप्रतिपालकः । गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः ॥ १३७ ॥ गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः । गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्षमः ॥ १३८ ॥ गन्धर्वस्त्रीभिराराध्यो गानं गानपटुस्सदा । गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ॥ १३९ ॥ गच्छराजश्च गच्छेशो गच्छराजनमस्कृतः । गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः ॥ १४० ॥ गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः । गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः ॥ १४१ ॥ गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः । गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः ॥ १४२ ॥ गीर्वाणगीतचरितो गीर्वाणगणसेवितः । गीर्वाणवरदाता च गीर्वाणभयनाशकृत् ॥ १४३ ॥ गीर्वाणगणसम्पत्तिर्गीर्वाणव्यसनापहः । गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः ॥ १४४ ॥ गीर्वाणगणसम्पत्तिर्गीर्वाणव्यसनापहः । गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः ॥ १४५ ॥ गीर्वाणश्रमसंहर्ता गीर्वाणगणपालकः । ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशनः ॥ १४६ ॥ ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् । ग्रहकृद्ग्रहभर्ता च ग्रहेशानो ग्रहेश्वरः ॥ १४७ ॥ ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कटः । ग्रहगीतगुणो ग्रन्थप्रणीता ग्रहवन्दितः ॥ १४८ ॥ गर्वी गर्वीश्वरो गर्वो गर्विष्ठो गर्विगर्वहा । गवां‍प्रियो गवां‍नाथो गवेशानो गवां‍पतिः ॥ १४९ ॥ गव्यप्रियो गवाङ्गोप्ता गवीसम्पत्तिसाधकः । गवीरक्षणसन्नद्धो गवीभयहरः क्षणात् ॥ १५० ॥ गवीगर्वहरो गोदो गोप्रदो गोजयप्रदः । गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः ॥ १५१ ॥ गण्डस्थलगलद्दानमिलन्मत्तालिमण्डितः । गुडो गुडप्रियो गुण्डगलद्दानो गुडाशनः ॥ १५२ ॥ गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक् । गुडभुग्गुडभुग्गुण्यो गुडाकेशवरप्रदः ॥ १५३ ॥ गुडाकेशार्चितपदो गुडाकेशसखस्सदा । गदाधरार्चितपदो गदाधरवरप्रदः ॥ १५४ ॥ गदायुधो गदापाणिर्गदायुद्धविशारदः । गदहा गददर्पघ्नो गदगर्वप्रणाशनः ॥ १५५ ॥ गदग्रस्तपरित्राता गदाडम्बरखण्डकः । गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः ॥ १५६ ॥ गुहाप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् । गीर्गीःपतिर्गिरीशानो गीर्देवीगीतसद्गुणः ॥ १५७ ॥ गीर्देवो गीःप्रियो गीर्भूर्गीरात्मा गीःप्रियङ्करः । गीर्भूमिर्गीरसज्ञोऽथ गीःप्रसन्नो गिरीश्वरः ॥ १५८ ॥ गिरीशजो गिरौशायी गिरिराजसुखावहः । गिरिराजार्चितपदो गिरिराजनमस्कृतः ॥ १५९ ॥ गिरिराजगुहाविष्टो गिरिराजाभयप्रदः । गिरिराजेष्टवरदो गिरिराजप्रपालकः ॥ १६० ॥ गिरिराजसुतासूनुर्गिरिराजजयप्रदः । गिरिव्रजवनस्थायी गिरिव्रजचरस्सदा ॥ १६१ ॥ गर्गो गर्गप्रियो गर्गदेवो गर्गनमस्कृतः । गर्गभीतिहरो गर्गवरदो गर्गसंस्तुतः ॥ १६२ ॥ गर्गगीतप्रसन्नात्मा गर्गानन्दकरस्सदा । गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः ॥ १६३ ॥ गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः । गर्गग्लानिहरो गर्गश्रमहृद्गर्गसङ्गतः ॥ १६४ ॥ गर्गाचार्यो गर्गमुनिर्गर्गसन्मानभाजनः । गम्भीरो गणितप्रज्ञो गणितागमसारवित् ॥ १६५ ॥ गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः । गणकप्रवणस्वान्तो गणितो गणितागमः ॥ १६६ ॥ गद्यं गद्यमयो गद्यपद्यविद्याविशारदः । गललज्ञमहानागो गलदर्चिर्गलन्मदः ॥ १६७ ॥ गलत्कुष्ठव्यथाहन्ता गलतुष्टिसुखप्रदः । गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ॥ १६८ ॥ गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः । गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः ॥ १६९ ॥ गर्भागमनसम्भाषो गर्भदो गर्भशोकनुत् । गर्भत्राता गर्भगोप्ता गर्भपुष्टिकरस्सदा ॥ १७० ॥ गर्भाश्रयो गर्भमयो गर्भाभयनिवारकः । गर्भाधारो गर्भधरो गर्भसन्तोषसाधकः ॥ १७१ ॥ गर्भगौरवसन्धानसाधनं गर्भगर्वहृत् । गरीयान् गर्वनुद्गर्वमर्दी गरदमर्दकः ॥ १७२ ॥ गरसन्तापशमनो गुरुराज्यसुखप्रदः । फलश्रुतिः । नाम्नां सहस्रमुदितं महद्गणपतेरिदम् ॥ १७४ ॥ गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः । य इदं प्रयतः प्रातस्त्रिसन्ध्यं वा पठेन्नरः ॥ १७३ ॥ वाञ्छितं समवाप्नोति नात्र कार्या विचारणा । पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ॥ १७४ ॥ विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः । भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः ॥ १७५ ॥ चतुर्थां भौमवारो च चन्द्रसूर्योपरागके । पूजयित्वा गणधीशं यथोक्तविधिना पुरा ॥ १७६ ॥ पूजयेद्यो यथाशक्त्या जुहुयाच्च शमीदलैः । गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ॥ १७७ ॥ धारयेद्यः प्रयत्नेन स साक्षाद्गणनायकः । सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगः ॥ १७८ ॥ प्रणमन्ति सदा तं वै दुष्ट्वां विस्मितमानसाः । राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशो स्थिराः ॥ १७९ ॥ तस्य वंशो स्थिरा लक्ष्मीः कदापि न विमुञ्चति । निष्कामो यः पठेदेतद्गणेश्वरपरायणः ॥ १८० ॥ स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् । इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम् ॥ १८१ ॥ न देयं कृपणयाथ शठाय गुरुविद्विषे । दत्त्वा च भ्रंशमाप्नोति देवतायाः प्रकोपतः ॥ १८२ ॥ इति श्रुत्वा महादेवी तदा विस्मितमानसा । पूजयामास विधिवद्गणेश्वरपदद्वयम् ॥ १८३ ॥ इति श्रीरुद्रयामले महागुप्तसारे शिवपार्वतीसंवादे गकारादि श्रीगणपतिसहस्रनामस्तोत्रम् सम्पूर्णम् ।

गकारादि सहस्रनाम का महत्व (Significance)

गकारादि गणपति सहस्रनाम (Gakara Ganapati Sahasranama) "रुद्रयामल तन्त्र" (Rudrayamala Tantra) के "महागुप्तसार" खंड का एक दुर्लभ रत्न है। अन्य सहस्रनामों के विपरीत, यह एक भाषाई और आध्यात्मिक चमत्कार है - इसमें भगवान गणेश के सभी 1000 नाम 'ग' (Ga) वर्ण से शुरू होते हैं
'ग' का रहस्य: 'ग' गणेश जी का बीज मंत्र "गं" (Gam) का आधार है। यह वर्ण बुद्धि (ग), वाक (गिरा), और पृथिवी तत्व (गन्ध) का प्रतीक है। इस स्तोत्र का पाठ करना 1000 बार "गं" बीज मंत्र के जप के समान प्रभावशाली माना जाता है।

साधना और लाभ (Benefits & Rituals)

फलश्रुति में इस स्तोत्र के पाठ के अद्भुत चमतत्कारी लाभ बताए गए हैं:
  • सर्व कामना सिद्धि: "वाञ्छितं समवाप्नोति" - साधक के मन की कोई भी इच्छा (पुत्र, धन, विद्या) इसके पाठ से पूर्ण होती है।
  • राजा वशीकरण (Power & Influence): "राजा सपदि वश्यः स्यात्" - इसके प्रभाव से उच्च अधिकारी और शासक वर्ग अनुकूल हो जाते हैं।
  • साक्षात् गणेशत्व: जो इसे धारण करता है (लिखकर ताबीज रूप में) या नित्य पाठ करता है, वह साक्षात् "गणनायक" (गणेश स्वरूप) हो जाता है।
विशेष विधि (Special Method):ग्रंथ में इसे सिद्ध करने के लिए भोजपत्र (Birch Bark) पर कुंकुम (Kumkum) या अष्टगंध से लिखकर धारण करने का विधान है। चतुर्थी (Chaturthi) या मंगलवार (Tuesday) को इसका अनुष्ठान विशेष फलदायी है।

प्रश्नोत्तरी (FAQ)

गकारादि गणपति सहस्रनाम (Gakara Ganapati Sahasranama) क्या है?

यह रुद्रयामल तन्त्र का एक विशिष्ट स्तोत्र है जिसमें भगवान गणेश के 1000 नाम हैं, और चमत्कारिक रूप से सभी नाम 'ग' (Ga) अक्षर से शुरू होते हैं (जैसे- गणेश्वर, गणनायक, गजास्य)।

'ग' (Ga) अक्षर का इतना महत्व क्यों है?

'ग' गणेश जी के बीज मंत्र "गं" (Gam) का मूल है। यह ध्वनि ज्ञान (Gnana) और गति (Momentum) का प्रतीक है। 'ग' से शुरू होने वाले नामों का जप बीज मंत्र की शक्ति को 1000 गुना बढ़ा देता है।

इसका पाठ कब करना चाहिए?

इसे मंगलवार (Bhaumavara) या चतुर्थी तिथि (विशेषकर संकष्टी या गणेश चतुर्थी) को पढ़ना सर्वश्रेष्ठ माना गया है। साधक इसे प्रतिदिन प्रातः भी पढ़ सकते हैं।

क्या इसे कोई भी पढ़ सकता है?

हालाँकि यह एक तांत्रिक ग्रंथ है, लेकिन शुद्ध भक्ति भाव से कोई भी इसे पढ़ सकता है। पारंपरिक रूप से, इसे गुरु से प्राप्त करना अधिक प्रभावशाली माना जाता है क्योंकि इसे "महागुप्तसार" (Great Secret Essence) कहा गया है।

इसके पाठ से मुख्य लाभ क्या हैं?

इससे धन (Wealth), विद्या (Knowledge) और वशीकरण (Influence) की प्राप्ति होती है। फलश्रुति कहती है कि "वाञ्छितं समवाप्नोति" - अर्थात जो भी इच्छा हो, वह पूर्ण होती है।

क्या इसे लिखने का कोई विशेष विधान है?

हाँ, श्लोक 175 में इसे भोजपत्र पर कुंकुम से लिखकर (यंत्र रूप में) धारण करने का उल्लेख है। यह रक्षा कवच का कार्य करता है।

न्यास (Nyasa) क्या है और यह क्यों आवश्यक है?

न्यास का अर्थ है शरीर के अंगों (हृदय, शिर आदि) में मंत्र शक्ति को स्थापित करना। स्तोत्र के आरम्भ में दिया गया अंगन्यास और करन्यास साधक को जप के लिए पवित्र और ऊर्जान्वित बनाता है।

"गकारादि" (Gakaraadi) का क्या अर्थ है?

"गकारादि" का शाब्दिक अर्थ है "जिसका आदि (आरम्भ) 'ग' कार (अक्षर) से हो"। यह सिर्फ अलंकार नहीं, बल्कि एक ध्वन्यात्मक विज्ञान (Sonic Science) है।

विनियोग (Viniyoga) में किन ऋषि का नाम है?

इस मंत्रमाला के ऋषि दुर्वासा (Durvasa) हैं, जो अपनी तपस्या और उग्र शक्ति के लिए जाने जाते हैं। यह इस स्तोत्र की तीव्रता को दर्शाता है।

यह गणेश पुराण वाले सहस्रनाम से कैसे अलग है?

गणेश पुराण का सहस्रनाम लीला-प्रधान है और विविध अक्षरों से युक्त है। यह (गकारादि) बीज-प्रधान है और केवल 'ग' अक्षर पर केंद्रित है, जो इसे तांत्रिक साधना के लिए विशेष बनाता है।