Logoपवित्र ग्रंथ

श्रीहनुमतः लघुपूजाक्रमः (Shri Hanumat Laghu Puja Krama)

श्रीहनुमतः लघुपूजाक्रमः (Shri Hanumat Laghu Puja Krama)

श्रीहनुमतः लघुपूजाक्रमः

Shri Hanumat Laghu Puja Krama

श्रीहनुमतः लघुपूजाक्रमः
(Shri Hanumat Laghu Puja Krama) भगवान हनुमान की आराधना की एक संक्षिप्त और प्रभावशाली विधि है। इसमें षोडशोपचार पूजन के साथ-साथ अंग पूजा और नाम मंत्रों द्वारा अर्चन का विधान है।

॥ श्रीहनुमतः लघुपूजाक्रमः ॥ १. ध्यानम् (Dhyanam) अतुलितबलधाम स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः - ध्यायामि२. आवाहनम् (Avahanam) आगच्छ हनुमद्देव त्वं सुवर्चलया सह । पूजासमाप्तिपर्यन्तं भव सन्निहितो मुदा ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः - आवाहयामि । भीमाग्रज महाप्राज्ञ त्वं ममाभिमुखो भव । श्रीरामसेवक श्रीमन् प्रसीद जगतां पते ॥ हे स्वामिन्, स्थिरो भव, वरदो भव, सुमुखो भव, सुप्रसन्नो भव । स्थिरासनं कुरु । ३. उपचार पूजा (Upachara Puja) ३.१ आसनम् देव देव जगन्नाथ केसरीप्रियनन्दन । रत्नसिंहासनं तुभ्यं ददामि हनुमत्प्रभो ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । नवरत्नखचितस्वर्णसिंहासनं समर्पयामि ॥ ३.२ पाद्यम् योगिध्येयाङ्घ्रिपद्माय जगतां पतये नमः । पाद्यं मयार्पितं देव गृहाण पुरुषोत्तम ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । पादयोः पाद्यं समर्पयामि ॥ ३.३ अर्घ्यम् लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन । गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । हस्तयोः अर्घ्यं समर्पयामि ॥ ३.४ आचमनीयम् वालाग्रसेतुबन्धाय शताननवधाय च । तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । मुखे आचमनीयं समर्पयामि ॥ ३.५ मधुपर्कम् अर्जुनध्वजसंवास दशाननमदापह । मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । मधुपर्कं समर्पयापि ॥ ३.६ स्नानम् गङ्गादिसर्वतीर्थेभ्यः समानीतैर्नवोदकैः । भवन्तं स्नपयिष्यामि कपिनायक गृह्यताम् ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । शुद्धोदकस्नानं समर्पयामि ॥ ३.७ वस्त्रम् पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् । दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥ उत्तरीयं तु दास्यमि संसारोत्तारकारण । गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । वस्त्रं समर्पयामि । ३.८ आभरणम् भूषणानि महार्हाणि किरीटप्रमुखान्यहम् । तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । आभरणानि समर्पयामि ॥ ३.९ गन्धः कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् । श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । गन्धान्धारयामि ॥ ३.१० पुष्पाणि सुगन्धीनि सुरूपाणि वन्यानि विविधानि च । चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥ तुलसीदलबिल्वानि मनसा कल्पितानि च । गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । पुष्पाणि समर्पयामि ॥ ३.११ अक्षताः शालीयानक्षतान् रम्यान् पद्मरागसमप्रभान् । अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । अक्षतान्समर्पयामि ॥ ४. अङ्गपूजा (Anga Puja) (निम्न मन्त्रों से हनुमान जी के विभिन्न अंगों की पूजा करें - प्रत्येक नाम पर पुष्प अर्पित करें) मारुतये नमः । पादौ पूजयामि । सुग्रीवसखाय नमः । गुल्फौ पूजयामि । अङ्गदमित्राय नमः । जङ्घे पूजयामि । रामदासाय नमः । ऊरू पूजयामि । अक्षघ्नाय नमः । कटिं पूजयामि । लङ्कादहनाय नमः । वालं पूजयामि । सञ्जीवननगाहर्त्रे नमः । स्कन्धौ पूजयामि । सौमित्रिप्राणदात्रे नमः । वक्षःस्थलं पूजयामि । कुण्ठितदशकण्ठाय नमः । कण्ठं पूजयामि । रामाभिषेककारिणे नमः । हस्तौ पूजयामि । मन्त्ररचितरामायणाय नमः । वक्त्रं पूजयामि । प्रसन्नवदनाय नमः । वदनं पूजयामि । पिङ्गलनेत्राय नमः । नेत्रे पूजयामि । श्रुतिपरायणाय नमः । श्रोत्रे पूजयामि । ऊर्ध्वपुण्ड्रधारिणे नमः । ललाटं पूजयामि । मणिकण्ठमालिकाय नमः । शिरः पूजयामि । सर्वाभीष्टप्रदाय नमः । सर्वाण्यङ्गनि पूजयामि । ५. अष्टोत्तरशतनामपूजा (Ashtottara Shatanamavali) ॐ आञ्जनेयाय नमः । महावीराय नमः । तत्त्वज्ञानप्रदाय नमः । सीतादेवीमुद्राप्रदायकाय नमः । सर्वग्रहविनाशिने नमः । भीमसेनसहायकृते नमः । परविद्यापरीहाराय नमः । परशौर्यविनाशकाय नमः । परयन्त्रनिराकर्त्रे नमः । परमन्त्रप्रभेदकाय नमः । सर्वदुःखहराय नमः । सर्वलोकचारिणे नमः । मनोजवाय नमः । पारिजातद्रुममूलस्थाय नमः । अशोकवनिकाच्छेत्रे नमः । सर्वमायाविभञ्जकाय नमः । सर्वबन्धविमोक्त्रे नमः । रक्षोविध्वंसकारकाय नमः । सर्वयन्त्रात्मकाय नमः । कपीश्वराय नमः ॥ २० ॥ ॐ महाकायाय नमः । सर्वरोगहराय नमः । सर्वविद्यासम्पत्प्रदायकाय नमः । कपिसेनानायकाय नमः । भविष्यच्चतुराननाय नमः । कुमारब्रह्मचारिणे नमः । रत्नकुण्डलदीप्तिमते नमः । सञ्चलद्वालसन्नद्धलम्बमानाय नमः । हनुमते नमः । मारुतात्मजाय नमः । महाबलपराक्रमाय नमः । कारागृहविमोक्त्रे नमः । शृङ्खलाबन्धमोचकाय नमः । सागरोत्तारकाय नमः । प्राज्ञाय नमः । रामदूताय नमः । प्रतापवते नमः । वानराय नमः । लङ्किणीभञ्जकाय नमः । श्रीमते नमः ॥ ४० ॥ ॐ सर्वमन्त्रस्वरूपिणे नमः । सर्वतन्त्रस्वरूपिणे नमः । गन्धमादनशैलस्थाय नमः । लङ्कापुरविदाहकाय नमः । सुग्रीवसचिवाय नमः । धीराय नमः । शूराय नमः । दैत्यकुलान्तकाय नमः । सुरार्चिताय नमः । महातेजसे नमः । प्रभवे नमः । बलसिद्धिकराय नमः । केसरीसुताय नमः । शिखोज्ज्वलाय नमः । सीताशोकनिवारकाय नमः । अञ्जनागर्भसम्म्भूताय नमः । गन्धर्वविद्यातत्त्वज्ञाय नमः । लक्ष्मणप्राणदात्रे नमः । वज्रकायाय नमः । महाद्युतये नमः ॥ ६० ॥ ॐ चिरजीविने नमः । रामभक्ताय नमः । दैत्यकार्यविघातकाय नमः । अक्षहन्त्रे नमः । काञ्चनाभाय नमः । पञ्चवक्त्राय नमः । महातपसे नमः । विजितेन्द्रियाय नमः । सिंहिकाप्राणभञ्जनाय नमः । महारावणमर्दनाय नमः । स्फटिकाभाय नमः । वागधीशाय नमः । नवव्याकरणपण्डिताय नमः । चतुर्बाहवे नमः । दीनबन्धवे नमः । महात्मने नमः । भक्तवत्सलाय नमः । रामचूडामणिप्रदाय नमः । कामरूपिणे नमः । पिङ्गलाक्षाय नमः ॥ ८० ॥ ॐ वार्धिमैनाकपूजिताय नमः । कबलीकृतमार्तण्डमण्डलाय नमः । बालार्कसदृशाननाय नमः । विभीषणप्रियकराय नमः । दशग्रीवकुलान्तकाय नमः । दान्ताय नमः । शान्ताय नमः । प्रसन्नात्मने नमः । शतकण्ठमदापहर्त्रे नमः । योगिने नमः । रामकथालोलाय नमः । सीतान्वेषणपण्डिताय नमः । वज्रदंष्ट्राय नमः । वज्रनखाय नमः । रुद्रवीर्यसमुद्भवाय नमः । सञ्जीवननगाहर्त्रे नमः । शुचये नमः । वाग्मिने नमः । दृढव्रताय नमः । कालनेमिप्रमथनाय नमः ॥ १०० ॥ ॐ हरिमर्कटमर्कटाय नमः । इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः । पार्थध्वजाग्रसंवासिने नमः । शरपञ्जरभेदकाय नमः । लोकपूज्याय नमः । जाम्बवत्प्रीतिवर्धनाय नमः । मारुतये नमः । ६. धूप, दीप एवं नैवेद्य धूपमाघ्रापयामि । दीपं दर्शयामि । धूपदीपानन्तरं आचमनीयं समर्पयामि । नैवेद्यं समर्पयामि । मध्ये मध्ये पानीयं समर्पयामि । उत्तरापोऽशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । ७. नीराजन एवं पुष्पांजलि नीराजनं समर्पयामि । नीराजनानन्तरं आचमनीयं समर्पयामि । सुवर्णदिव्यमन्त्रपुष्पं समर्पयामि । प्रदक्षिणनमस्कारान् समर्पयामि । ॥ श्रीहनुमदर्पणमस्तु ॥

महत्व एवं लाभ (Significance and Benefits)

  • शीघ्र फलदायी: 'लघु' पूजा होने के कारण यह कम समय में पूर्ण फल प्रदान करती है।
  • संकट नाशक: हनुमान जी की यह पूजा सभी प्रकार के संकटों, भय और ग्रह दोषों (विशेषकर शनि और मंगल) को दूर करती है।
  • आत्मविश्वास: इस पूजा से साधक में बल, बुद्धि और आत्मविश्वास की वृद्धि होती है।
  • दैनिक साधना: यह विधि दैनिक पूजा के लिए अत्यंत उपयुक्त है।

क्या यह पूजा घर पर की जा सकती है?

हाँ, यह पूजा विशेष रूप से गृहस्थ साधकों के लिए ही बनाई गई है। इसे आप अपने घर के मंदिर में आसानी से कर सकते हैं।

पूजा का सर्वोत्तम समय क्या है?

प्रातः काल (सूर्योदय के समय) या संध्या काल (सूर्यास्त के बाद) हनुमान पूजा के लिए श्रेष्ठ माने जाते हैं।

किस दिन करना चाहिए?

वैसे तो नित्य पूजा की जा सकती है, लेकिन मंगलवार और शनिवार को इसका विशेष महत्व है।

।। ॐ महालक्ष्म्यै नमः ।।