Logoपवित्र ग्रंथ

Sri Rama Sahasranamavali – श्री राम सहस्रनामावली

Sri Rama Sahasranamavali – श्री राम सहस्रनामावली
॥ श्री राम सहस्रनामावली ॥ ॥ विनियोगः ॥ अस्य श्री राम सहस्रनाम स्तोत्र मन्त्रस्य, शिव ऋषिः, अनुष्टुप् छन्दः, श्री रामो देवता, जानकीवल्लभ इति बीजं, सौमित्रिप्रिय इति शक्तिः, रघुनन्दन इति कीलकं, श्री रामचन्द्र प्रीत्यर्थे जपे विनियोगः । ॥ ध्यानम् ॥ ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ ॥ नामावली ॥ ओं राजीवलोचनाय नमः । ओं श्रीमते नमः । ओं श्रीरामाय नमः । ओं रघुपुङ्गवाय नमः । ओं रामभद्राय नमः । ओं सदाचाराय नमः । ओं राजेन्द्राय नमः । ओं जानकीपतये नमः । ओं अग्रगण्याय नमः । ओं वरेण्याय नमः । ओं वरदाय नमः । ओं परमेश्वराय नमः । ओं जनार्दनाय नमः । ओं जितामित्राय नमः । ओं परार्थैकप्रयोजनाय नमः । ओं विश्वामित्रप्रियाय नमः । ओं दान्ताय नमः । ओं शत्रुजिते नमः । ओं शत्रुतापनाय नमः । ओं सर्वज्ञाय नमः । २० ओं सर्वदेवादये नमः । ओं शरण्याय नमः । ओं वालिमर्दनाय नमः । ओं ज्ञानभाव्याय नमः । ओं अपरिच्छेद्याय नमः । ओं वाग्मिने नमः । ओं सत्यव्रताय नमः । ओं शुचये नमः । ओं ज्ञानगम्याय नमः । ओं दृढप्रज्ञाय नमः । ओं खरध्वंसिने नमः । ओं प्रतापवते नमः । ओं द्युतिमते नमः । ओं आत्मवते नमः । ओं वीराय नमः । ओं जितक्रोधाय नमः । ओं अरिमर्दनाय नमः । ओं विश्वरूपाय नमः । ओं विशालाक्षाय नमः । ओं प्रभवे नमः । ४० ओं परिवृढाय नमः । ओं दृढाय नमः । ओं ईशाय नमः । ओं खड्गधराय नमः । ओं श्रीमते नमः । ओं कौसलेयाय नमः । ओं अनसूयकाय नमः । ओं विपुलांसाय नमः । ओं महोरस्काय नमः । ओं परमेष्ठिने नमः । ओं परायणाय नमः । ओं सत्यव्रताय नमः । ओं सत्यसन्धाय नमः । ओं गुरवे नमः । ओं परमधार्मिकाय नमः । ओं लोकज्ञाय नमः । ओं लोकवन्द्याय नमः । ओं लोकात्मने नमः । ओं लोककृते नमः । ओं परस्मै नमः । ६० ओं अनादये नमः । ओं भगवते नमः । ओं सेव्याय नमः । ओं जितमायाय नमः । ओं रघूद्वहाय नमः । ओं रामाय नमः । ओं दयाकराय नमः । ओं दक्षाय नमः । ओं सर्वज्ञाय नमः । ओं सर्वपावनाय नमः । ओं ब्रह्मण्याय नमः । ओं नीतिमते नमः । ओं गोप्त्रे नमः । ओं सर्वदेवमयाय नमः । ओं हरये नमः । ओं सुन्दराय नमः । ओं पीतवाससे नमः । ओं सूत्रकाराय नमः । ओं पुरातनाय नमः । ओं सौम्याय नमः । ८० ओं महर्षये नमः । ओं कोदण्डिने नमः । ओं सर्वज्ञाय नमः । ओं सर्वकोविदाय नमः । ओं कवये नमः । ओं सुग्रीववरदाय नमः । ओं सर्वपुण्याधिकप्रदाय नमः । ओं भव्याय नमः । ओं जितारिषड्वर्गाय नमः । ओं महोदाराय नमः । ओं अघनाशनाय नमः । ओं सुकीर्तये नमः । ओं आदिपुरुषाय नमः । ओं कान्ताय नमः । ओं पुण्यकृतागमाय नमः । ओं अकल्मषाय नमः । ओं चतुर्बाहवे नमः । ओं सर्वावासाय नमः । ओं दुरासदाय नमः । ओं स्मितभाषिणे नमः । १०० ओं निवृत्तात्मने नमः । ओं स्मृतिमते नमः । ओं वीर्यवते नमः । ओं प्रभवे नमः । ओं धीराय नमः । ओं दान्ताय नमः । ओं घनश्यामाय नमः । ओं सर्वायुधविशारदाय नमः । ओं अध्यात्मयोगनिलयाय नमः । ओं सुमनसे नमः । ओं लक्ष्मणाग्रजाय नमः । ओं सर्वतीर्थमयाय नमः । ओं शूराय नमः । ओं सर्वयज्ञफलप्रदाय नमः । ओं यज्ञस्वरूपिणे नमः । ओं यज्ञेशाय नमः । ओं जरामरणवर्जिताय नमः । ओं वर्णाश्रमकराय नमः । ओं वर्णिने नमः । ओं शत्रुजिते नमः । १२० ओं पुरुषोत्तमाय नमः । ओं विभीषणप्रतिष्ठात्रे नमः । ओं परमात्मने नमः । ओं परात्परस्मै नमः । ओं प्रमाणभूताय नमः । ओं दुर्ज्ञेयाय नमः । ओं पूर्णाय नमः । ओं परपुरञ्जयाय नमः । ओं अनन्तदृष्टये नमः । ओं आनन्दाय नमः । ओं धनुर्वेदाय नमः । ओं धनुर्धराय नमः । ओं गुणाकराय नमः । ओं गुणश्रेष्ठाय नमः । ओं सच्चिदानन्दविग्रहाय नमः । ओं अभिवन्द्याय नमः । ओं महाकायाय नमः । ओं विश्वकर्मणे नमः । ओं विशारदाय नमः । ओं विनीतात्मने नमः । १४० ओं वीतरागाय नमः । ओं तपस्वीशाय नमः । ओं जनेश्वराय नमः । ओं कल्याणप्रकृतये नमः । ओं कल्पाय नमः । ओं सर्वेशाय नमः । ओं सर्वकामदाय नमः । ओं अक्षयाय नमः । ओं पुरुषाय नमः । ओं साक्षिणे नमः । ओं केशवाय नमः । ओं पुरुषोत्तमाय नमः । ओं लोकाध्यक्षाय नमः । ओं महामायाय नमः । ओं विभीषणवरप्रदाय नमः । ओं आनन्दविग्रहाय नमः । ओं ज्योतिषे नमः । ओं हनुमत्प्रभवे नमः । ओं अव्ययाय नमः । ओं भ्राजिष्णवे नमः । १६० ओं सहनाय नमः । ओं भोक्त्रे नमः । ओं सत्यवादिने नमः । ओं बहुश्रुताय नमः । ओं सुखदाय नमः । ओं कारणाय नमः । ओं कर्त्रे नमः । ओं भवबन्धविमोचनाय नमः । ओं देवचूडामणये नमः । ओं नेत्रे नमः । ओं ब्रह्मण्याय नमः । ओं ब्रह्मवर्धनाय नमः । ओं संसारोत्तारकाय नमः । ओं रामाय नमः । ओं सर्वदुःखविमोक्षकृते नमः । ओं विद्वत्तमाय नमः । ओं विश्वकर्त्रे नमः । ओं विश्वहर्त्रे नमः । ओं विश्वधृते [कृते] नमः । ओं नित्याय नमः । १८० ओं नियतकल्याणाय नमः । ओं सीताशोकविनाशकृते नमः । ओं काकुत्स्थाय नमः । ओं पुण्डरीकाक्षाय नमः । ओं विश्वामित्रभयापहाय नमः । ओं मारीचमथनाय नमः । ओं रामाय नमः । ओं विराधवधपण्डिताय नमः । ओं दुःस्वप्ननाशनाय नमः । ओं रम्याय नमः । ओं किरीटिने नमः । ओं त्रिदशाधिपाय नमः । ओं महाधनुषे नमः । ओं महाकायाय नमः । ओं भीमाय नमः । ओं भीमपराक्रमाय नमः । ओं तत्त्वस्वरूपिणे नमः । ओं तत्त्वज्ञाय नमः । ओं तत्त्ववादिने नमः । ओं सुविक्रमाय नमः । २०० ओं भूतात्मने नमः । ओं भूतकृते नमः । ओं स्वामिने नमः । ओं कालज्ञानिने नमः । ओं महापटवे नमः । ओं अनिर्विण्णाय नमः । ओं गुणग्राहिणे नमः । ओं निष्कलङ्काय नमः । ओं कलङ्कघ्ने नमः । ओं स्वभावभद्राय नमः । ओं शत्रुघ्नाय नमः । ओं केशवाय नमः । ओं स्थाणवे नमः । ओं ईश्वराय नमः । ओं भूतादये नमः । ओं शम्भवे नमः । ओं आदित्याय नमः । ओं स्थविष्ठाय नमः । ओं शाश्वताय नमः । ओं ध्रुवाय नमः । २२० ओं कवचिने नमः । ओं कुण्डलिने नमः । ओं चक्रिणे नमः । ओं खड्गिने नमः । ओं भक्तजनप्रियाय नमः । ओं अमृत्यवे नमः । ओं जन्मरहिताय नमः । ओं सर्वजिते नमः । ओं सर्वगोचराय नमः । ओं अनुत्तमाय नमः । ओं अप्रमेयात्मने नमः । ओं सर्वादये नमः । ओं गुणसागराय नमः । ओं समाय नमः । ओं समात्मने नमः । ओं समगाय नमः । ओं जटामुकुटमण्डिताय नमः । ओं अजेयाय नमः । ओं सर्वभूतात्मने नमः । ओं विष्वक्सेनाय नमः । २४० ओं महातपाय नमः । ओं लोकाध्यक्षाय नमः । ओं महाबाहवे नमः । ओं अमृताय नमः । ओं वेदवित्तमाय नमः । ओं सहिष्णवे नमः । ओं सद्गतये नमः । ओं शास्त्रे नमः । ओं विश्वयोनये नमः । ओं महाद्युतये नमः । ओं अतीन्द्राय नमः । ओं ऊर्जिताय नमः । ओं प्रांशवे नमः । ओं उपेन्द्राय नमः । ओं वामनाय नमः । ओं बलिने नमः । ओं धनुर्वेदाय नमः । ओं विधात्रे नमः । ओं ब्रह्मणे नमः । ओं विष्णवे नमः । २६० ओं शङ्कराय नमः । ओं हंसाय नमः । ओं मरीचये नमः । ओं गोविन्दाय नमः । ओं रत्नगर्भाय नमः । ओं महामतये नमः । ओं व्यासाय नमः । ओं वाचस्पतये नमः । ओं सर्वदर्पितासुरमर्दनाय नमः । ओं जानकीवल्लभाय नमः । ओं पूज्याय नमः । ओं प्रकटाय नमः । ओं प्रीतिवर्धनाय नमः । ओं सम्भवाय नमः । ओं अतीन्द्रियाय नमः । ओं वेद्याय नमः । ओं अनिर्देशाय नमः । ओं जाम्बवत्प्रभवे नमः । ओं मदनाय नमः । ओं मथनाय नमः । २८० ओं व्यापिने नमः । ओं विश्वरूपाय नमः । ओं निरञ्जनाय नमः । ओं नारायणाय नमः । ओं अग्रण्ये नमः । ओं साधवे नमः । ओं जटायुप्रीतिवर्धनाय नमः । ओं नैकरूपाय नमः । ओं जगन्नाथाय नमः । ओं सुरकार्यहिताय नमः । ओं स्वभुवे नमः । ओं जितक्रोधाय नमः । ओं जितारातये नमः । ओं प्लवगाधिपराज्यदाय नमः । ओं वसुदाय नमः । ओं सुभुजाय नमः । ओं नैकमायाय नमः । ओं भव्यप्रमोदनाय नमः । ओं चण्डांशवे नमः । ओं सिद्धिदाय नमः । ३०० ओं कल्पाय नमः । ओं शरणागतवत्सलाय नमः । ओं अगदाय नमः । ओं रोगहर्त्रे नमः । ओं मन्त्रज्ञाय नमः । ओं मन्त्रभावनाय नमः । ओं सौमित्रिवत्सलाय नमः । ओं धुर्याय नमः । ओं व्यक्ताव्यक्तस्वरूपधृते नमः । ओं वसिष्ठाय नमः । ओं ग्रामण्ये नमः । ओं श्रीमते नमः । ओं अनुकूलाय नमः । ओं प्रियंवदाय नमः । ओं अतुलाय नमः । ओं सात्त्विकाय नमः । ओं धीराय नमः । ओं शरासनविशारदाय नमः । ओं ज्येष्ठाय नमः । ओं सर्वगुणोपेताय नमः । ३२० ओं शक्तिमते नमः । ओं ताटकान्तकाय नमः । ओं वैकुण्ठाय नमः । ओं प्राणिनां प्राणाय नमः । ओं कमठाय नमः । ओं कमलापतये नमः । ओं गोवर्धनधराय नमः । ओं मत्स्यरूपाय नमः । ओं कारुण्यसागराय नमः । ओं कुम्भकर्णप्रभेत्त्रे नमः । ओं गोपीगोपालसंवृताय नमः । ओं मायाविने नमः । ओं व्यापकाय नमः । ओं व्यापिने नमः । ओं रैणुकेयबलापहाय नमः । ओं पिनाकमथनाय नमः । ओं वन्द्याय नमः । ओं समर्थाय नमः । ओं गरुडध्वजाय नमः । ओं लोकत्रयाश्रयाय नमः । ३४० ओं लोकचरिताय नमः । ओं भरताग्रजाय नमः । ओं श्रीधराय नमः । ओं सद्गतये नमः । ओं लोकसाक्षिणे नमः । ओं नारायणाय नमः । ओं बुधाय नमः । ओं मनोवेगिने नमः । ओं मनोरूपिणे नमः । ओं पूर्णाय नमः । ओं पुरुषपुङ्गवाय नमः । ओं यदुश्रेष्ठाय नमः । ओं यदुपतये नमः । ओं भूतावासाय नमः । ओं सुविक्रमाय नमः । ओं तेजोधराय नमः । ओं धराधाराय नमः । ओं चतुर्मूर्तये नमः । ओं महानिधये नमः । ओं चाणूरमर्दनाय नमः । ३६० ओं दिव्याय नमः । ओं शान्ताय नमः । ओं भरतवन्दिताय नमः । ओं शब्दातिगाय नमः । ओं गभीरात्मने नमः । ओं कोमलाङ्गाय नमः । ओं प्रजागराय नमः । ओं लोकगर्भाय नमः । ओं शेषशायिने नमः । ओं क्षीराब्धिनिलयाय नमः । ओं अमलाय नमः । ओं आत्मयोनये नमः । ओं अदीनात्मने नमः । ओं सहस्राक्षाय नमः । ओं सहस्रपदे नमः । ओं अमृतांशवे नमः । ओं महागर्भाय नमः । ओं निवृत्तविषयस्पृहाय नमः । ओं त्रिकालज्ञाय नमः । ओं मुनये नमः । ३८० ओं साक्षिणे नमः । ओं विहायसगतये नमः । ओं कृतिने नमः । ओं पर्जन्याय नमः । ओं कुमुदाय नमः । ओं भूतावासाय नमः । ओं कमललोचनाय नमः । ओं श्रीवत्सवक्षसे नमः । ओं श्रीवासाय नमः । ओं वीरघ्ने नमः । ओं लक्ष्मणाग्रजाय नमः । ओं लोकाभिरामाय नमः । ओं लोकारिमर्दनाय नमः । ओं सेवकप्रियाय नमः । ओं सनातनतमाय नमः । ओं मेघश्यामलाय नमः । ओं राक्षसान्तकृते नमः । ओं दिव्यायुधधराय नमः । ओं श्रीमते नमः । ओं अप्रमेयाय नमः । ४०० ओं जितेन्द्रियाय नमः । ओं भूदेववन्द्याय नमः । ओं जनकप्रियकृते नमः । ओं प्रपितामहाय नमः । ओं उत्तमाय नमः । ओं सात्त्विकाय नमः । ओं सत्याय नमः । ओं सत्यसन्धाय नमः । ओं त्रिविक्रमाय नमः । ओं सुव्रताय नमः । ओं सुलभाय नमः । ओं सूक्ष्माय नमः । ओं सुघोषाय नमः । ओं सुखदाय नमः । ओं सुधिये नमः । ओं दामोदराय नमः । ओं अच्युताय नमः । ओं शार्ङ्गिणे नमः । ओं वामनाय नमः । ओं मधुराधिपाय नमः । ४२० ओं देवकीनन्दनाय नमः । ओं शौरये नमः । ओं शूराय नमः । ओं कैटभमर्दनाय नमः । ओं सप्ततालप्रभेत्त्रे नमः । ओं मित्रवंशप्रवर्धनाय नमः । ओं कालस्वरूपिणे नमः । ओं कालात्मने नमः । ओं कालाय नमः । ओं कल्याणदाय नमः । ओं कवये नमः । ओं संवत्सराय नमः । ओं ऋतवे नमः । ओं पक्षाय नमः । ओं अयनाय नमः । ओं दिवसाय नमः । ओं युगाय नमः । ओं स्तव्याय नमः । ओं विविक्ताय नमः । ओं निर्लेपाय नमः । ४४० ओं सर्वव्यापिने नमः । ओं निराकुलाय नमः । ओं अनादिनिधनाय नमः । ओं सर्वलोकपूज्याय नमः । ओं निरामयाय नमः । ओं रसाय नमः । ओं रसज्ञाय नमः । ओं सारज्ञाय नमः । ओं लोकसाराय नमः । ओं रसात्मकाय नमः । ओं सर्वदुःखातिगाय नमः । ओं विद्याराशये नमः । ओं परमगोचराय नमः । ओं शेषाय नमः । ओं विशेषाय नमः । ओं विगतकल्मषाय नमः । ओं रघुनायकाय नमः । ओं वर्णश्रेष्ठाय नमः । ओं वर्णवाह्याय नमः । ओं वर्ण्याय नमः । ४६० ओं वर्ण्यगुणोज्ज्वलाय नमः । ओं कर्मसाक्षिणे नमः । ओं अमरश्रेष्ठाय नमः । ओं देवदेवाय नमः । ओं सुखप्रदाय नमः । ओं देवाधिदेवाय नमः । ओं देवर्षये नमः । ओं देवासुरनमस्कृताय नमः । ओं सर्वदेवमयाय नमः । ओं चक्रिणे नमः । ओं शार्ङ्गपाणये नमः । ओं रघूत्तमाय नमः । ओं मनसे नमः । ओं बुद्धये नमः । ओं अहङ्काराय नमः । ओं प्रकृत्यै नमः । ओं पुरुषाय नमः । ओं अव्ययाय नमः । ओं अहल्यापावनाय नमः । ओं स्वामिने नमः । ४८० ओं पितृभक्ताय नमः । ओं वरप्रदाय नमः । ओं न्यायाय नमः । ओं न्यायिने नमः । ओं नयिने नमः । ओं श्रीमते नमः । ओं नयाय नमः । ओं नगधराय नमः । ओं ध्रुवाय नमः । ओं लक्ष्मीविश्वम्भराभर्त्रे नमः । ओं देवेन्द्राय नमः । ओं बलिमर्दनाय नमः । ओं वाणारिमर्दनाय नमः । ओं यज्वने नमः । ओं अनुत्तमाय नमः । ओं मुनिसेविताय नमः । ओं देवाग्रणये नमः । ओं शिवध्यानतत्पराय नमः । ओं परमाय नमः । ओं परस्मै नमः । ५०० ओं सामगेयाय नमः । ओं प्रियाय नमः । ओं अक्रूराय नमः । ओं पुण्यकीर्तये नमः । ओं सुलोचनाय नमः । ओं पुण्याय नमः । ओं पुण्याधिकाय नमः । ओं पूर्वस्मै नमः । ओं पूर्णाय नमः । ओं पूरयित्रे नमः । ओं रवये नमः । ओं जटिलाय नमः । ओं कल्मषध्वान्तप्रभञ्जनविभावसवे नमः । ओं अव्यक्तलक्षणाय नमः । ओं अव्यक्ताय नमः । ओं दशास्यद्वीपकेसरिणे नमः । ओं कलानिधये नमः । ओं कलानाथाय नमः । ओं कमलानन्दवर्धनाय नमः । ओं जयिने नमः । ५२० ओं जितारये नमः । ओं सर्वादये नमः । ओं शमनाय नमः । ओं भवभञ्जनाय नमः । ओं अलङ्करिष्णवे नमः । ओं अचलाय नमः । ओं रोचिष्णवे नमः । ओं विक्रमोत्तमाय नमः । ओं आशवे नमः । ओं शब्दपतये नमः । ओं शब्दगोचराय नमः । ओं रञ्जनाय नमः । ओं रघवे नमः । ओं निश्शब्दाय नमः । ओं प्रणवाय नमः । ओं मालिने नमः । ओं स्थूलाय नमः । ओं सूक्ष्माय नमः । ओं विलक्षणाय नमः । ओं आत्मयोनये नमः । ५४० ओं अयोनये नमः । ओं सप्तजिह्वाय नमः । ओं सहस्रपदे नमः । ओं सनातनतमाय नमः । ओं स्रग्विणे नमः । ओं पेशलाय नमः । ओं जविनां वराय नमः । ओं शक्तिमते नमः । ओं शङ्खभृते नमः । ओं नाथाय नमः । ओं गदापद्मरथाङ्गभृते नमः । ओं निरीहाय नमः । ओं निर्विकल्पाय नमः । ओं चिद्रूपाय नमः । ओं वीतसाध्वसाय नमः । ओं शताननाय नमः । ओं सहस्राक्षाय नमः । ओं शतमूर्तये नमः । ओं घनप्रभाय नमः । ओं हृत्पुण्डरीकशयनाय नमः । ५६० ओं कठिनाय नमः । ओं द्रवाय नमः । ओं उग्राय नमः । ओं ग्रहपतये नमः । ओं श्रीमते नमः । ओं समर्थाय नमः । ओं अनर्थनाशनाय नमः । ओं अधर्मशत्रवे नमः । ओं रक्षोघ्नाय नमः । ओं पुरुहूताय नमः । ओं पुरुष्टुताय नमः । ओं ब्रह्मगर्भाय नमः । ओं बृहद्गर्भाय नमः । ओं धर्मधेनवे नमः । ओं धनागमाय नमः । ओं हिरण्यगर्भाय नमः । ओं ज्योतिष्मते नमः । ओं सुललाटाय नमः । ओं सुविक्रमाय नमः । ओं शिवपूजारताय नमः । ५८० ओं श्रीमते नमः । ओं भवानीप्रियकृते नमः । ओं वशिने नमः । ओं नराय नमः । ओं नारायणाय नमः । ओं श्यामाय नमः । ओं कपर्दिने नमः । ओं नीललोहिताय नमः । ओं रुद्राय नमः । ओं पशुपतये नमः । ओं स्थाणवे नमः । ओं विश्वामित्राय नमः । ओं द्विजेश्वराय नमः । ओं मातामहाय नमः । ओं मातरिश्वने नमः । ओं विरिञ्चाय नमः । ओं विष्टरश्रवसे नमः । ओं सर्वभूतानामक्षोभ्याय नमः । ओं चण्डाय नमः । ओं सत्यपराक्रमाय नमः । ६०० ओं वालखिल्याय नमः । ओं महाकल्पाय नमः । ओं कल्पवृक्षाय नमः । ओं कलाधराय नमः । ओं निदाघाय नमः । ओं तपनाय नमः । ओं अमोघाय नमः । ओं श्लक्ष्णाय नमः । ओं परबलापहृते नमः । ओं कबन्धमथनाय नमः । ओं दिव्याय नमः । ओं कम्बुग्रीवाय नमः । ओं शिवप्रियाय नमः । ओं शङ्खाय नमः । ओं अनिलाय नमः । ओं सुनिष्पन्नाय नमः । ओं सुलभाय नमः । ओं शिशिरात्मकाय नमः । ओं असंसृष्टाय नमः । ओं अतिथये नमः । ६२० ओं शूराय नमः । ओं प्रमाथिने नमः । ओं पापनाशकृते नमः । ओं वसुश्रवसे नमः । ओं कव्यवाहाय नमः । ओं प्रतप्ताय नमः । ओं विश्वभोजनाय नमः । ओं रामाय नमः । ओं नीलोत्पलश्यामाय नमः । ओं ज्ञानस्कन्धाय नमः । ओं महाद्युतये नमः । ओं पवित्रपादाय नमः । ओं पापारये नमः । ओं मणिपूराय नमः । ओं नभोगतये नमः । ओं उत्तारणाय नमः । ओं दुष्कृतिघ्ने नमः । ओं दुर्धर्षाय नमः । ओं दुस्सहाय नमः । ओं अभयाय नमः । ६४० ओं अमृतेशाय नमः । ओं अमृतवपुषे नमः । ओं धर्मिणे नमः । ओं धर्माय नमः । ओं कृपाकराय नमः । ओं भर्गाय नमः । ओं विवस्वते नमः । ओं आदित्याय नमः । ओं योगाचार्याय नमः । ओं दिवस्पतये नमः । ओं उदारकीर्तये नमः । ओं उद्योगिने नमः । ओं वाङ्मयाय नमः । ओं सदसन्मयाय नमः । ओं नक्षत्रमालिने नमः । ओं नाकेशाय नमः । ओं स्वाधिष्ठानाय नमः । ओं षडाश्रयाय नमः । ओं चतुर्वर्गफलाय नमः । ओं वर्णिने नमः । ६६० ओं शक्तित्रयफलाय नमः । ओं निधये नमः । ओं निधानगर्भाय नमः । ओं निर्व्याजाय नमः । ओं गिरीशाय नमः । ओं व्यालमर्दनाय नमः । ओं श्रीवल्लभाय नमः । ओं शिवारम्भाय नमः । ओं शान्तये नमः । ओं भद्राय नमः । ओं समञ्जसाय नमः । ओं भूशयाय नमः । ओं भूतिकृते नमः । ओं भूतिभूषणाय नमः । ओं भूतवाहनाय नमः । ओं अकायाय नमः । ओं भक्तकायस्थाय नमः । ओं कालज्ञानिने नमः । ओं महावटवे नमः । ओं परार्थवृत्तये नमः । ६८० ओं अचलाय नमः । ओं विविक्ताय नमः । ओं श्रुतिसागराय नमः । ओं स्वभावभद्राय नमः । ओं मध्यस्थाय नमः । ओं संसारभयनाशनाय नमः । ओं वेद्याय नमः । ओं वैद्याय नमः । ओं वियद्गोप्त्रे नमः । ओं सर्वामरमुनीश्वराय नमः । ओं सुरेन्द्राय नमः । ओं करणाय नमः । ओं कर्मणे नमः । ओं कर्मकृते नमः । ओं कर्मिणे नमः । ओं अधोक्षजाय नमः । ओं ध्येयाय नमः । ओं धुर्याय नमः । ओं धराधीशाय नमः । ओं सङ्कल्पाय नमः । ७०० ओं शर्वरीपतये नमः । ओं परमार्थगुरवे नमः । ओं वृद्धाय नमः । ओं शुचये नमः । ओं आश्रितवत्सलाय नमः । ओं विष्णवे नमः । ओं जिष्णवे नमः । ओं विभवे नमः । ओं वन्द्याय नमः । ओं यज्ञेशाय नमः । ओं यज्ञपालकाय नमः । ओं प्रभविष्णवे नमः । ओं ग्रसिष्णवे नमः । ओं लोकात्मने नमः । ओं लोकभावनाय नमः । ओं केशवाय नमः । ओं केशिघ्ने नमः । ओं काव्याय नमः । ओं कवये नमः । ओं कारणकारणाय नमः । ७२० ओं कालकर्त्रे नमः । ओं कालशेषाय नमः । ओं वासुदेवाय नमः । ओं पुरुष्टुताय नमः । ओं आदिकर्त्रे नमः । ओं वराहाय नमः । ओं माधवाय नमः । ओं मधुसूदनाय नमः । ओं नारायणाय नमः । ओं नराय नमः । ओं हंसाय नमः । ओं विष्वक्सेनाय नमः । ओं जनार्दनाय नमः । ओं विश्वकर्त्रे नमः । ओं महायज्ञाय नमः । ओं ज्योतिष्मते नमः । ओं पुरुषोत्तमाय नमः । ओं वैकुण्ठाय नमः । ओं पुण्डरीकाक्षाय नमः । ओं कृष्णाय नमः । ७४० ओं सूर्याय नमः । ओं सुरार्चिताय नमः । ओं नारसिंहाय नमः । ओं महाभीमाय नमः । ओं वक्रदंष्ट्राय नमः । ओं नखायुधाय नमः । ओं आदिदेवाय नमः । ओं जगत्कर्त्रे नमः । ओं योगीशाय नमः । ओं गरुडध्वजाय नमः । ओं गोविन्दाय नमः । ओं गोपतये नमः । ओं गोप्त्रे नमः । ओं भूपतये नमः । ओं भुवनेश्वराय नमः । ओं पद्मनाभाय नमः । ओं हृषीकेशाय नमः । ओं धात्रे नमः । ओं दामोदराय नमः । ओं प्रभवे नमः । ७६० ओं त्रिविक्रमाय नमः । ओं त्रिलोकेशाय नमः । ओं ब्रह्मेशाय नमः । ओं प्रीतिवर्धनाय नमः । ओं वामनाय नमः । ओं दुष्टदमनाय नमः । ओं गोविन्दाय नमः । ओं गोपवल्लभाय नमः । ओं भक्तप्रियाय नमः । ओं अच्युताय नमः । ओं सत्याय नमः । ओं सत्यकीर्तये नमः । ओं धृत्यै नमः । ओं स्मृत्यै नमः । ओं कारुण्याय नमः । ओं करुणाय नमः । ओं व्यासाय नमः । ओं पापघ्ने नमः । ओं शान्तिवर्धनाय नमः । ओं संन्यासिने नमः । ७८० ओं शास्त्रतत्त्वज्ञाय नमः । ओं मन्दराद्रिनिकेतनाय नमः । ओं बदरीनिलयाय नमः । ओं शान्ताय नमः । ओं तपस्विने नमः । ओं वैद्युतप्रभाय नमः । ओं भूतावासाय नमः । ओं गुहावासाय नमः । ओं श्रीनिवासाय नमः । ओं श्रियः पतये नमः । ओं तपोवासाय नमः । ओं मुदावासाय नमः । ओं सत्यवासाय नमः । ओं सनातनाय नमः । ओं पुरुषाय नमः । ओं पुष्कराय नमः । ओं पुण्याय नमः । ओं पुष्कराक्षाय नमः । ओं महेश्वराय नमः । ओं पूर्णमूर्तये नमः । ८०० ओं पुराणज्ञाय नमः । ओं पुण्यदाय नमः । ओं पुण्यवर्धनाय नमः । ओं शङ्खिने नमः । ओं चक्रिणे नमः । ओं गदिने नमः । ओं शार्ङ्गिणे नमः । ओं लाङ्गलिने नमः । ओं मुसलिने नमः । ओं हलिने नमः । ओं किरीटिने नमः । ओं कुण्डलिने नमः । ओं हारिणे नमः । ओं मेखलिने नमः । ओं कवचिने नमः । ओं ध्वजिने नमः । ओं योद्ध्रे नमः । ओं जेत्रे नमः । ओं महावीर्याय नमः । ओं शत्रुजिते नमः । ८२० ओं शत्रुतापनाय नमः । ओं शास्त्रे नमः । ओं शास्त्रकराय नमः । ओं शास्त्राय नमः । ओं शङ्कराय नमः । ओं शङ्करस्तुताय नमः । ओं सारथये नमः । ओं सात्त्विकाय नमः । ओं स्वामिने नमः । ओं सामवेदप्रियाय नमः । ओं समाय नमः । ओं पवनाय नमः । ओं संहताय नमः । ओं शक्तये नमः । ओं सम्पूर्णाङ्गाय नमः । ओं समृद्धिमते नमः । ओं स्वर्गदाय नमः । ओं कामदाय नमः । ओं श्रीदाय नमः । ओं कीर्तिदाय नमः । ८४० ओं अकीर्तिनाशनाय नमः । ओं मोक्षदाय नमः । ओं पुण्डरीकाक्षाय नमः । ओं क्षीराब्धिकृतकेतनाय नमः । ओं सर्वात्मने नमः । ओं सर्वलोकेशाय नमः । ओं प्रेरकाय नमः । ओं पापनाशनाय नमः । ओं सर्वव्यापिने नमः । ओं जगन्नाथाय नमः । ओं सर्वलोकमहेश्वराय नमः । ओं सर्गस्थित्यन्तकृते नमः । ओं देवाय नमः । ओं सर्वलोकसुखावहाय नमः । ओं अक्षय्याय नमः । ओं शाश्वताय नमः । ओं अनन्ताय नमः । ओं क्षयवृद्धिविवर्जिताय नमः । ओं निर्लेपाय नमः । ओं निर्गुणाय नमः । ८६० ओं सूक्ष्माय नमः । ओं निर्विकाराय नमः । ओं निरञ्जनाय नमः । ओं सर्वोपाधिविनिर्मुक्ताय नमः । ओं सत्तामात्रव्यवस्थिताय नमः । ओं अधिकारिणे नमः । ओं विभवे नमः । ओं नित्याय नमः । ओं परमात्मने नमः । ओं सनातनाय नमः । ओं अचलाय नमः । ओं निर्मलाय नमः । ओं व्यापिने नमः । ओं नित्यतृप्ताय नमः । ओं निराश्रयाय नमः । ओं श्यामाय नमः । ओं युवायै [यूने] नमः । ओं लोहिताक्षाय नमः । ओं दीप्तास्याय नमः । ओं मितभाषणाय नमः । ८८० ओं आजानुबाहवे नमः । ओं सुमुखाय नमः । ओं सिंहस्कन्धाय नमः । ओं महाभुजाय नमः । ओं सत्यवते नमः । ओं गुणसम्पन्नाय नमः । ओं स्वयन्तेजसे नमः । ओं सुदीप्तिमते नमः । ओं कालात्मने नमः । ओं भगवते नमः । ओं कालाय नमः । ओं कालचक्रप्रवर्तकाय नमः । ओं नारायणाय नमः । ओं परस्मै ज्योतिषे नमः । ओं परमात्मने नमः । ओं सनातनाय नमः । ओं विश्वसृजे नमः । ओं विश्वगोप्त्रे नमः । ओं विश्वभोक्त्रे नमः । ओं शाश्वताय नमः । ९०० ओं विश्वेश्वराय नमः । ओं विश्वमूर्तये नमः । ओं विश्वात्मने नमः । ओं विश्वभावनाय नमः । ओं सर्वभूतसुहृदे नमः । ओं शान्ताय नमः । ओं सर्वभूतानुकम्पनाय नमः । ओं सर्वेश्वरेश्वराय नमः । ओं सर्वस्मै नमः । ओं श्रीमते नमः । ओं आश्रितवत्सलाय नमः । ओं सर्वगाय नमः । ओं सर्वभूतेशाय नमः । ओं सर्वभूताशयस्थिताय नमः । ओं अभ्यन्तरस्थाय नमः । ओं तमसश्छेत्त्रे नमः । ओं नारायणाय नमः । ओं परस्मै नमः । ओं अनादिनिधनाय नमः । ओं स्रष्ट्रे नमः । ९२० ओं प्रजापतिपतये नमः । ओं हरये नमः । ओं नरसिंहाय नमः । ओं हृषीकेशाय नमः । ओं सर्वात्मने नमः । ओं सर्वदृशे नमः । ओं वशिने नमः । ओं जगतस्तस्थुषाय नमः । ओं प्रभवे नमः । ओं नेत्रे नमः । ओं सनातनाय नमः । ओं कर्त्रे नमः । ओं धात्रे नमः । ओं विधात्रे नमः । ओं सर्वेषां प्रभवे नमः । ओं ईश्वराय नमः । ओं सहस्रमूर्तये नमः । ओं विश्वात्मने नमः । ओं विष्णवे नमः । ओं विश्वदृशे नमः । ९४० ओं अव्ययाय नमः । ओं पुराणपुरुषाय नमः । ओं स्रष्ट्रे नमः । ओं सहस्राक्षाय नमः । ओं सहस्रपदे नमः । ओं तत्त्वाय नमः । ओं नारायणाय नमः । ओं विष्णवे नमः । ओं वासुदेवाय नमः । ओं सनातनाय नमः । ओं परमात्मने नमः । ओं परस्मै ब्रह्मणे नमः । ओं सच्चिदानन्दविग्रहाय नमः । ओं परस्मै ज्योतिषे नमः । ओं परस्मै धाम्ने नमः । ओं पराकाशाय नमः । ओं परात्परस्मै नमः । ओं अच्युताय नमः । ओं पुरुषाय नमः । ओं कृष्णाय नमः । ९६० ओं शाश्वताय नमः । ओं शिवाय नमः । ओं ईश्वराय नमः । ओं नित्याय नमः । ओं सर्वगताय नमः । ओं स्थाणवे नमः । ओं उग्राय नमः । ओं साक्षिणे नमः । ओं प्रजापतये नमः । ओं हिरण्यगर्भाय नमः । ओं सवित्रे नमः । ओं लोककृते नमः । ओं लोकभृते नमः । ओं विभवे नमः । ओं रामाय नमः । ओं श्रीमते नमः । ओं महाविष्णवे नमः । ओं जिष्णवे नमः । ओं देवहितावहाय नमः । ओं तत्त्वात्मने नमः । ९८० ओं तारकाय नमः । ओं ब्रह्मणे नमः । ओं शाश्वताय नमः । ओं सर्वसिद्धिदाय नमः । ओं अकारवाच्याय नमः । ओं भगवते नमः । ओं श्रिये नमः । ओं भूलीलापतये नमः । ओं पुंसे नमः । ओं सर्वलोकेश्वराय नमः । ओं श्रीमते नमः । ओं सर्वज्ञाय नमः । ओं सर्वतोमुखाय नमः । ओं स्वामिने नमः । ओं सुशीलाय नमः । ओं सुलभाय नमः । ओं सर्वज्ञाय नमः । ओं सर्वशक्तिमते नमः । ओं नित्याय नमः । ओं सम्पूर्णकामाय नमः । १००० ओं नैसर्गिकसुहृदे नमः । ओं सुखिने नमः । ओं कृपापीयूषजलधये नमः । ओं सर्वदेहिनां शरण्याय नमः । ओं श्रीमते नमः । ओं नारायणाय नमः । ओं स्वामिने नमः । ओं जगतां पतये नमः । ओं ईश्वराय नमः । ओं श्रीशाय नमः । ओं भूतानां शरण्याय नमः । ओं संश्रिताभीष्टदायकाय नमः । ओं अनन्ताय नमः । ओं श्रीपतये नमः । ओं रामाय नमः । ओं गुणभृते नमः । ओं निर्गुणाय नमः । ओं महते नमः । १०१८ ॥ इति श्री राम सहस्रनामावली सम्पूर्णा ॥

श्री राम सहस्रनामावली: मर्यादा पुरुषोत्तम के १००० नामों का दिव्य रहस्य

श्री राम सहस्रनामावली (Sri Rama Sahasranamavali) सनातन धर्म के सबसे पवित्र और आध्यात्मिक रूप से समृद्ध स्तोत्रों में से एक है। यह नामावली भगवान विष्णु के सातवें अवतार, मर्यादा पुरुषोत्तम श्री राम के १००० (वास्तव में १०१८) दिव्य नामों का एक शक्तिशाली संग्रह है। धार्मिक मान्यताओं के अनुसार, भगवान शिव ने स्वयं माता पार्वती को राम नाम की महिमा बताते हुए कहा था — "राम रामेति रामेति रमे रामे मनोरमे। सहस्रनाम तत्तुल्यं रामनाम वरानने॥" अर्थात् श्री राम का केवल एक बार श्रद्धापूर्वक नाम लेना विष्णु सहस्रनाम के १००० नामों के जप के समान पुण्य प्रदान करता है।
यह नामावली मुख्य रूप से 'पद्म पुराण' और 'अध्यात्म रामायण' जैसे प्रतिष्ठित ग्रंथों से प्रेरित है। इसमें प्रभु को न केवल एक आदर्श राजा और योद्धा के रूप में चित्रित किया गया है, बल्कि उन्हें परब्रह्म, सच्चिदानंद और सृष्टि के नियामक के रूप में भी पुकारा गया है। 'राम' शब्द का अर्थ ही वह तत्व है जिसमें योगी और ऋषि रमण करते हैं (रमु क्रीडायाम्)। जब हम सहस्रनामावली का पाठ करते हैं, तो हम प्रभु के उन १००० गुणों का आह्वान करते हैं जो हमारे अंतःकरण को शुद्ध करने की क्षमता रखते हैं।
इस नामावली के प्रारंभिक नाम जैसे 'राजीवलोचन' (कमल नयन), 'रघुपुङ्गव' (रघुवंश में श्रेष्ठ), और 'जानकीपति' (माता सीता के स्वामी) भक्त को प्रभु की लीलाओं की याद दिलाते हैं। वहीं, 'जितामित्र', 'शत्रुजित' और 'अरिंमर्दन' जैसे नाम उनकी उस शक्ति को प्रकट करते हैं जो अधर्म का नाश करने वाली है। यह स्तोत्र केवल धार्मिक कर्मकांड नहीं है, बल्कि यह आत्म-साक्षात्कार और मानसिक अनुशासन का एक मार्ग है। आधुनिक युग के तनावपूर्ण जीवन में, राम सहस्रनामावली का पाठ मन को स्थिर करने और जीवन में मर्यादा स्थापित करने के लिए एक अचूक औषधि की तरह कार्य करता है।
अकादमिक और आध्यात्मिक शोधकर्ताओं का मानना है कि इन नामों का उच्चारण ध्वनि विज्ञान (Sound Science) के सिद्धांतों पर आधारित है। प्रत्येक 'नमः' के साथ जुड़ा नाम शरीर के विभिन्न ऊर्जा केंद्रों (Chakras) को प्रभावित करता है। अयोध्या में श्री राम लला के भव्य मंदिर की स्थापना के बाद, इस सहस्रनामावली का महत्व और भी बढ़ गया है, क्योंकि यह भक्त को सीधे उस 'राम-राज्य' की चेतना से जोड़ता है जहाँ सुख, शांति और न्याय का वास है।

विशिष्ट आध्यात्मिक एवं तांत्रिक महत्व (Significance)

श्री राम सहस्रनामावली का दार्शनिक महत्व इसके नामों के चयन में निहित है। यह सगुण (साकार) और निर्गुण (निराकार) भक्ति का एक अद्भुत मेल है। जहाँ एक ओर प्रभु को 'पीतवाससे' (पीले वस्त्र धारण करने वाले) कहा गया है, वहीं दूसरी ओर उन्हें 'निर्विकाराय' (विकार रहित) और 'सत्तामात्रव्यवस्थिताय' (केवल अस्तित्व मात्र) भी कहा गया है। यह साधक को सिखाता है कि जो राम दशरथ के पुत्र हैं, वही संपूर्ण ब्रह्मांड की आत्मा भी हैं।
राम नाम का विज्ञान: 'रा' अक्षर अग्नि बीज माना जाता है जो संचित पापों का दहन करता है, और 'म' अक्षर अमृत बीज है जो चित्त को शीतलता प्रदान करता है। सहस्रनामावली में इन बीजों का १००० बार पुनरावर्तन होता है, जो एक अभेद्य सुरक्षा कवच (Kavach) का निर्माण करता है। तंत्र मार्ग में भी राम सहस्रनाम को 'विजय प्रदायक' माना गया है, क्योंकि यह शत्रुओं के कुचक्रों को विफल करने की क्षमता रखता है।
चरित्र निर्माण: प्रभु के नाम जैसे 'सत्यव्रत', 'जितक्रोध' और 'गुरु' हमें जीवन के मूल्यों की याद दिलाते हैं। इस स्तोत्र का पाठ करने वाला व्यक्ति धीरे-धीरे स्वयं के भीतर उन गुणों को महसूस करने लगता है, जिससे उसका सामाजिक और व्यक्तिगत चरित्र निखरता है।

फलश्रुति: श्री राम सहस्रनामावली पाठ के लाभ (Benefits)

इस दिव्य स्तोत्र की फलश्रुति और भक्तों के अनुभव इसके चमत्कारी लाभों की पुष्टि करते हैं:
  • मानसिक शांति और एकाग्रता: 'शान्ताय' और 'अव्ययाय' जैसे नामों का जप चंचल मन को शांत करता है और अवसाद (Depression) जैसी समस्याओं में लाभ पहुँचाता है।
  • पाप और दोषों का नाश: 'अघनाशनाय' और 'विगतकल्मषाय' नामों के प्रभाव से संचित पापों का क्षय होता है और आत्मा निर्मल बनती है।
  • भय और शत्रु विजय: जो साधक 'शत्रुजिते' नाम का स्मरण करते हैं, उन्हें कोर्ट-कचहरी, विवाद और अज्ञात शत्रुओं से सुरक्षा प्राप्त होती है।
  • ग्रह दोष निवारण: भगवान राम सूर्यवंशी हैं, अतः इनके नामों का जाप सूर्य ग्रह की प्रतिकूलता को दूर कर समाज में यश और सम्मान दिलाता है।
  • आर्थिक संपन्नता: 'श्रीप्रदाय' और 'धनप्रियाय' नामों के माध्यम से लक्ष्मी की कृपा प्राप्त होती है और दरिद्रता का नाश होता है।
  • मोक्ष की प्राप्ति: 'तारकाय' नाम यह सिद्ध करता है कि श्री राम भवसागर से तारने वाले एकमात्र आधार हैं।

पाठ विधि एवं अनुष्ठान विधान (Ritual Method)

सहस्रनामावली का पाठ यदि शास्त्रोक्त विधि से किया जाए, तो इसका फल कई गुना बढ़ जाता है। नीचे दी गई विधि का पालन करें:

साधना के नियम

  • समय: ब्रह्म मुहूर्त (प्रातः ४ से ६ बजे) पाठ के लिए सर्वोत्तम है। राम नवमी, दीपावली और विवाह पंचमी जैसे अवसरों पर पाठ करना विशेष फलदायी है।
  • शुद्धि: स्नान के बाद पीले वस्त्र धारण करें। पीला रंग भगवान विष्णु और राम को अत्यंत प्रिय है।
  • आसन: ऊनी आसन या कुश के आसन पर पूर्व या उत्तर की ओर मुख करके बैठें।
  • तुलसी का महत्व: प्रभु राम की पूजा में तुलसी दल का होना अनिवार्य है। बिना तुलसी के उनकी पूजा अधूरी मानी जाती है।
  • माला: जप के लिए तुलसी की माला का प्रयोग करें।

विशेष मनोकामना हेतु

  • रोग मुक्ति हेतु: प्रतिदिन २१ दिनों तक १०८ नामों का पाठ कर जल अभिमंत्रित करके रोगी को पिलाएं।
  • संकट निवारण: मंगलवार या शनिवार को हनुमान जी के मंदिर में बैठकर राम सहस्रनामावली का पाठ करें।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्री राम सहस्रनामावली और विष्णु सहस्रनाम में क्या अंतर है?

विष्णु सहस्रनाम में भगवान विष्णु के सभी अवतारों के नाम हैं, जबकि राम सहस्रनामावली विशेष रूप से प्रभु श्री राम के अवतार, उनके गुणों और उनकी विशिष्ट लीलाओं पर केंद्रित है।

2. क्या इस पाठ को प्रतिदिन करना आवश्यक है?

नित्य पाठ करना सर्वोत्तम है, लेकिन यदि संभव न हो तो राम नवमी, प्रत्येक पक्ष की नवमी तिथि या गुरुवार को इसका पाठ अवश्य करना चाहिए।

3. क्या 'राम सहस्रनाम' का पाठ हनुमान जी को प्रसन्न करता है?

हाँ, हनुमान जी प्रभु श्री राम के परम भक्त हैं। जहाँ राम नाम का संकीर्तन होता है, वहाँ हनुमान जी सूक्ष्म रूप में उपस्थित रहते हैं और साधक की रक्षा करते हैं।

4. पाठ के दौरान किस दीपक का प्रयोग करना चाहिए?

शुद्ध गाय के घी का दीपक जलाना सर्वश्रेष्ठ है। यदि उपलब्ध न हो, तो तिल के तेल का दीपक भी जलाया जा सकता है।

5. क्या इसे संस्कृत न आने पर हिंदी में पढ़ सकते हैं?

प्रभु भाव के भूखे हैं। यदि आप संस्कृत उच्चारण में सहज नहीं हैं, तो इसके अर्थ का चिंतन करते हुए अपनी मातृभाषा में भी इसे पढ़ सकते हैं, बस श्रद्धा पूर्ण होनी चाहिए।

6. क्या १०८ नामों का पाठ १००८ नामों के बराबर फल देता है?

अष्टोत्तरशतनाम (१०८) संक्षिप्त रूप है, जबकि सहस्रनाम (१००८) विस्तृत। विशेष अनुष्ठान के लिए १००८ नामों का ही महत्व बताया गया है।

7. पाठ करते समय ध्यान किस पर लगाना चाहिए?

प्रभु श्री राम के शांत, सौम्य और मुस्कुराते हुए मुखारविंद का ध्यान करना चाहिए, जिनके वाम भाग में माता जानकी विराजमान हों।

8. 'मर्यादा पुरुषोत्तम' का क्या अर्थ है?

इसका अर्थ है वह पुरुष जो मर्यादाओं (सीमाओं और नियमों) का पालन करने वालों में सबसे श्रेष्ठ है। श्री राम ने पुत्र, पति, भाई और राजा के रूप में आदर्श स्थापित किए।

9. क्या इस पाठ से कुंडली का 'पितृ दोष' शांत होता है?

हाँ, श्री राम ने स्वयं अपने पिता की आज्ञा मानकर धर्म का पालन किया था। उनके नामों का जाप पितरों को तृप्ति प्रदान करता है और पितृ दोष के प्रभाव को कम करता है।

10. क्या श्री राम सहस्रनामावली का कोई विशिष्ट मंत्र भी है?

इस पूरी नामावली का प्रत्येक नाम ही एक मंत्र है। विशेष रूप से 'रामाय रामभद्राय रामचन्द्राय वेधसे' मंत्र के साथ इसे जोड़ना और भी प्रभावशाली होता है।